26. सद्योव्रणप्रतिषेधाध्यायः
अथातः सद्योव्रणप्रतिषेधं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|(गद्यसूत्रे|२|
सद्योव्रणा ये सहसा सम्भवन्त्यभिघाततः|
अनन्तैरपि तैरङ्गमुच्यते जुष्टमष्टधा||१||
घृष्टावकृत्तविच्छिन्नप्रविलम्बितपातितम्|
विद्धं भिन्नं विदलितं तत्र घृष्टं लसीकया||२||
रक्तलेशेन वा युक्तं सप्लोषं छेदनात् स्रवेत्|
अवगाढं ततः कृत्तं, विच्छिन्नं स्यात्ततोऽपि च||३||
प्रविलम्बि सशेषेऽस्थ्नि, पतितं पातितं तनोः|
सूक्ष्मास्यशल्यविद्धं तु विद्धं कोष्ठविवर्जितम्||४||
भिन्नमन्यद्विदलितं मज्जरक्तपरिप्लुतम्|
प्रहारपीडनोत्पेषात् सहास्थ्ना पृथुतां गतम्||५||
सद्यः सद्योव्रणं सिञ्चेदथ यष्ट्याह्वसर्पिषा|
तीव्रव्यथं कवोष्णेन बलातैलेन वा पुनः||६||
क्षतोष्मणो निग्रहार्थं तत्कालं विसृतस्य च|
कषायशीतमधुरस्निग्धा लेपादयो हेताः||७||
सद्योव्रणेष्वायतेषु सन्धानार्थं विशेषतः|
मधुसर्पिश्च युञ्जीत पित्तघ्नीश्च हिमाः क्रियाः||८||
ससंरम्भेषु कर्तव्यमूर्ध्वं चाधश्च शोधनम्|
उपवासो हितं भुक्तं प्रततं रक्तमोक्षणम्||९||
घृष्टे विदलिते चैष सुतरामिष्यते विधिः|
तयोर्ह्यल्पं स्रवत्यस्रं पाकस्तेनाशु जायते||१०||
अत्यर्थमस्रं स्रवति प्रायशोऽन्यत्र विक्षते|
ततो रक्तक्षयाद्वायौ कुपितेऽतिरुजाकरे||११||
स्नेहपानपरीषेकस्वेदलेपोपनाहनम्|
स्नेहबस्तिं च कुर्वीत वातघ्नौषधसाधितम्||१२||
इति साप्ताहिकः प्रोक्तः सद्योव्रणहितो विधिः|
सप्ताहाद्गतवेगे तु पूर्वोक्तं विधिमाचरेत्||१३||
प्रायः सामान्यकर्मेदं वक्ष्यते तु पृथक्पृथक्||१४||
घृष्टे रुजं निगृह्याशु व्रणे चूर्णानि योजयेत्||१४||
कल्कादिन्यवकृत्ते तु विच्छिन्नप्रविलम्बिनोः|
सीवनं विधिनोक्तेन बन्धनं चानु पीडनम्||१५||
असाध्यं स्फुटितं नेत्रमदीर्णं लम्बते तु यत्|
सन्निवेश्य यथास्थानमव्याविद्धसिरं भिषक्||१६||
पीडयेत् पाणिना पद्मपलाशान्तरितेन तत्|
ततोऽस्य सेचने नस्ये तर्पणे च हितं हविः||१७||
विपक्वमाजं यष्ट्याह्वजीवकर्षभकोत्पलैः|
सपयस्कैः परं तद्वि सर्वनेत्राभिघातजित्||१८||
गलपीडाऽवसन्नेऽक्ष्णि वमनोत्कासनक्षवाः|
प्राणायमोऽथवा कार्यः क्रिया च क्षतनेत्रवत्||१९||
कर्णे स्थानाच्च्युते स्यूते श्रोतस्तैलेन पूरयेत्||२०||
कृकाटिकायां छिन्नायां निर्गच्छत्यपि मारुते||२०||
समं निवेश्य बध्नीयात् स्यूत्वा शीघ्रं निरन्तरम्|
आजेन सर्पिषा चात्र परिषेकः प्रशस्यते||२१||
उत्तानोऽन्नानि भुञ्जीत, शयीत च सुयन्त्रितः||२२||
घातं शाखासु तिर्यक्स्थं गात्रे सम्यङ्निवेशिते||२२||
स्यूत्वा वेल्लितबन्धेन बध्नीयाद्धनवाससा|
चर्मणा गोष्फणाबन्धः कार्यश्चासङ्गते व्रणे||२३||
पादौ विलम्बिमुष्कस्य प्रोक्ष्य नेत्रे च वारिणा|
प्रवेश्य वृषणौ सीव्येत् सेवन्या तुन्नसंज्ञया||२४||
कार्यश्च गोष्फणाबन्धः कट्यामावेश्य पट्टकम्|
स्नेहसेकं न कुर्वीत तत्र क्लिद्यति हि व्रणः||२५||
कालानुसार्यगुर्वेलाजातीचन्दनपर्पटैः|
शिलादार्व्यमृतातुत्थैः सिद्धं तैलं च रोपणम्||२६||
छिन्नां निःशेषतः शाखां दग्ध्वा तैलेन युक्तितः|
बध्नीयात् कोशबन्धेन ततो व्रणवदाचरेत्||२७||
कार्या शल्याहृते विद्धे भङ्गाद्विदलिते क्रिया||२८|
|शिरसोऽपहृते शल्ये वालवर्तिं प्रवेशयेत्||२८||
मस्तुलुङ्गस्रुतेः क्रुद्धो हन्यादेनं चलोऽन्यथा|
व्रणे रोहति चैकैकं शनैरपनयेत्कचम्||२९||
मस्तुलुङ्गस्रुतौ खादेन्मस्तिष्कानन्यजीवजान्||३०||
शल्ये हृतेऽङ्गादन्यस्मात्स्नेहवर्तिं निधापयेत्||३०||
दूरावगाढाः सूक्ष्मास्या ये व्रणाः स्रुतशोणिताः|
सेचयेच्चक्रतैलेन सूक्ष्मनेत्रार्पितेन तान्||३१||
भिन्ने कोष्ठेऽसृजा पूर्णे मूर्च्छाहृत्पार्श्ववेदनाः|
ज्वरो दाहस्तृडाध्मानं भक्तस्यानभिनन्दनम्||३२||
सङ्गो विण्मूत्रमरुतां श्वासः स्वेदोऽक्षिरक्तता|
लोहगन्धित्वमास्यस्य स्याद् गात्रे च विगन्धता||३३||
आमाशयस्थे रुधिरे रुधिरं छर्दयत्यपि|
आध्मानेनातिमात्रेण शूलेन च विशस्यते||३४||
पक्वाशयस्थे रुधिरे सशूलं गौरवं भवेत्|
नाभेरधस्ताच्छीतत्वं खेभ्यो रक्तस्य चागमः||३५||
अभिन्नोऽप्याशयः सूक्ष्मैः स्रोतोभिरभिपूर्यते|
असृजा स्यन्दमानेन पार्श्वे मूत्रेण बस्तिवत्||३६||
तत्रान्तर्लोहितं शीतपादोच्छ्वासकराननम्|
रक्ताक्षं पाण्डुवदनमानद्धं च विवर्जयेत्||३७||
अमाशयस्थे वमनं हितं, पक्वाशयाश्रिते|
विरेचनं निरूहं च निःस्नेहोष्णैर्विशोधनैः||३८||
यवकोलकुलत्थानां रसैः स्नेहविवर्जितैः|
भुञ्जीतान्नं यवागूं वा पिबेत्सैन्धवसंयुताम्||३९||
अतिनिःस्रुतरक्तस्तु भिन्नकोष्ठः पिबेदसृक्||४०||
क्लिष्टच्छिन्नान्त्रभेदेन कोष्ठभेदो द्विधा स्मृतः||४०||
मूर्च्छादयोऽल्पाः प्रथमेद्वितीये त्वति बाधकाः|
क्लिष्टान्त्रः संशयी देही छिन्नान्त्रो नैव जीवति||४१||
यथास्वं मार्गमापन्ना यस्य विण्मूत्रमारुताः|
व्युपद्रवः स भिन्नेऽपि कोष्ठे जीवत्यसंशयम्||४२||
अभिन्नमन्त्रं निष्क्रान्तं प्रवेश्यं न त्वतोऽन्यथा|
उत्पङ्गिलशिरोग्रस्तं तदप्येके वदन्ति तु||४३||
प्रक्षाल्य पयसा दिग्धं तृणशोणितपांसुभिः|
प्रवेशयेत्क्लृप्तनखो घृतेनाक्तं शनैः शनैः||४४||
क्षीरेणार्द्रीकृतं शुष्कं भूरिसर्पिःपरिप्लुतम्|
अङ्गुल्या प्रमृशेत्कण्ठं जलेनोद्वेजयेदपि||४५||
तथाऽन्त्राणि विशन्त्यन्तस्तत्कालं पीडयन्ति च||४६||
व्रणसौक्ष्म्याद्बहुत्वाद्वा कोष्ठमन्त्रमनाविशत्||४६||
तत्प्रमाणेन जठरं पाटयित्वा प्रवेशयेत्|
यथास्थानं स्थिते सम्यगन्त्रे सीव्येदनु व्रणम्||४७||
स्थानादपेतमादत्ते जीवितं कुपितं च तत्|
वेष्टयित्वाऽनु पट्टेन घृतेन परिषेचयेत्||४८||
पाययेत ततः कोष्णं चित्रातैलयुतं पयः|
मृदुक्रियार्थं शकृतो वायोश्चाधःप्रवृत्तये||४९||
अनुवर्तेत वर्षं च यथोक्तां व्रणयन्त्रणाम्||५०||
उदरान्मेदसो वर्तिं निर्गतां भस्मना मृदा||५०||
अवकीर्य कषायैर्वा श्लक्ष्णैर्मूलैस्ततः समम्|
दृढं बध्वा च सूत्रेण वर्द्धयेत्कुशलो भिषक्||५१||
तीक्ष्णेनाग्निप्रतप्तेन शस्त्रेण सकृदेव तु|
स्यान्दन्यथा रुगाटोपो मृत्युर्वा छिद्यमानया||५२||
सक्षौद्रे च व्रणे बद्धे सुजीर्णेऽन्ने घृतं पिबेत्|
क्षीरं वा शर्कराचित्रालाक्षागोक्षुरकैः शृतम्||५३||
रुग्दाहजित्सयष्ट्याह्वैः परं पूर्वोदितो विधिः|
मेदोग्रन्थ्युदितं तत्र तैलमभ्यञ्जने हितम्||५४||
तालीसं पद्मकं मांसीहरेण्वगुरुचन्दनम्|
हरिद्रे पद्मबीजानि सोशीरं मधुकं च तैः||५५||
पक्वं सद्योव्रणेषूक्तं तैलं रोपणमुत्तमम्||५६||
गूढप्रहाराभिहते पतिते विषमोच्चकैः||५६||
कार्यं वातास्रजित् तृप्तिमर्दनाभ्यञ्जनादिकम्||५७||
विश्लिष्टदेहं मथितं क्षीणं मर्माहतं हतम्|५७|
वासयेत्तैलपूर्णायां द्रोण्यां मांसरसाशिनम्|५७ १/२|
इति श्रीवैद्यपतिसिंहगुप्तसूनूश्रीमद्वाग्भटविर
चितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने सद्योव्रणप्रतिषेधो नाम षड्विंशोऽध्यायः|२६|