25.व्रणप्रतिषेधाध्यायः
अथातो व्रणप्रतिषेधं व्याख्यास्यामः।
इति स्माहुरात्रेयादयो महर्षयः।
व्रणो द्विधा निजागन्तुदुष्टशुद्धविभेदतः।
निजो दोषैः शरीरोत्थैरागन्तुर्बाह्यहेतुजः॥१॥
दोषैरधिष्ठितो दुष्टः शुद्धस्तैरनधिष्ठितः।
संवृतत्वं विवृतता काठिन्यं मृदुताऽति वा॥२॥
अत्युत्सन्नावसन्नत्वमत्यौष्ण्यमतिशीतता।
रक्तत्वं पाण्डुता कार्ष्ण्यं पूतिपूयपरिस्रुतिः॥३॥
पूतिमांससिरास्नायुच्छन्नतोत्सङ्गिताऽतिरुक्।
संरम्भदाहश्वयथुकण्ड्वादिभिरुपद्रुतः॥४॥
दीर्घकालानुबन्धश्च विद्याद्दुष्टव्रणाकृतिम्।
पञ्चदशधा दोषैः सरक्तैः तत्र मारुतात्॥५॥
श्यावः कृष्णोऽरुणो भस्मकपोतास्थिनिभोऽपि वा।
मस्तुमांसपुलाकाम्बुतुल्यतन्वल्पसंस्रुतिः॥६॥
निर्मांसस्तोदभेदाढ्यो रूक्षश्चटचटायते।
पित्तेन क्षिप्रजः पीतो नीलः कपिलपिङ्गलः॥७॥
मूत्रकिंशुकभस्माम्बुतैलाभोष्णबहुस्रुतिः।
क्षारोक्षितक्षतसमव्यथो रागोष्मपाकवान्॥८॥
कफेन पाण्डुः कण्डूमान् बहुश्वेतघनस्रुतिः।
स्थूलोष्ठः कठिनः स्नायुसिराजालततोऽल्परुक्॥९॥
प्रवालरक्तो रक्तेन सरक्तं पूयमुद्गिरेत्।
वाजिस्थानसमो गन्धे युक्तो लिङ्गैश्च पैत्तिकैः॥१०॥
द्बाभ्यां त्रिभिश्च सर्वैश्च विद्याल्लक्षणसङ्करात्।
जिह्वाप्रभो मृदुः श्लक्ष्णः श्यावौष्ठपिटिकः समः॥११॥
किञ्चिदुन्नतमध्यो वा व्रणः शुद्धोऽनुपद्रवः।
त्वगामिषसिरास्नायुसन्ध्यस्थीनि व्रणाशयाः॥१२॥
कोष्ठो मर्म तान्यष्टौ दुःसाध्यान्युत्तरोत्तरम्।
सुसाध्यः सत्त्वमांसाग्निवयोबलवति व्रणः॥१३॥
वृत्तो दीर्घस्त्रिपुटकश्चतुरस्राकृतिश्च यः।
तथा स्फिक्पायुमेढ्रोष्ठपृष्ठान्तर्वक्त्रगण्डगः॥१४॥
कृच्छ्रसाध्योऽक्षिदशननासिकापाङ्गनाभिषु।
सेवनीजठरश्रोत्रपार्श्वकक्षास्तनेषु च॥१५॥
फेनपूयानिलवहः शल्यवानूर्ध्वनिर्वमी।
भगन्दरोऽन्तर्वदनस्तथा कट्यस्थिसंश्रितः॥१६॥
कुष्ठिनां विषजुष्टानां शोषिणां मधुमेहिनाम्।
व्रणाः कृच्छ्रेण सिध्द्यन्ति येषां स्युर्व्रणे व्रणाः॥१७॥
नैव सिध्द्यन्ति वीसर्पज्वरातीसारकासिनाम्।
पिपासूनामनिद्राणां श्वासिनामविपाकिनाम्॥१८॥
भिन्ने शिरःकपाले वा मस्तुलुङ्गस्य दर्शने।
स्नायुक्लेदात्सिराच्छेदाद्गाम्भीर्यात्कृमिभक्षणात्॥१९॥
अस्थिभेदात्सशल्यत्वात्सविषत्वादतर्कितात्।
मिथ्याबन्धादतिस्नेहाद्रौक्ष्याद्रोमादिघट्टनात्॥२०॥
क्षोभादशुद्धकोष्ठत्वात्सौहित्यादतिकर्शनात्।
मद्यपानाद्दिवास्वप्नाद्ववायाद्रात्रिजागरात्॥२१॥
व्रणो मिथ्योपचाराच्च नैव साध्योऽपि सिध्यति।
कपोतवर्णप्रतिमा यस्यान्ताः क्लेदवर्जिताः॥२२॥
स्थिराश्चिपिटिकावन्तो रोहतीति तमादिशेत्।
अथात्र शोफावस्थायां यथासन्नं विशोधनम्॥२३॥
योज्यं शोफो हि शुद्धानां व्रणश्चाशु प्रशाम्यति।
कुर्याच्छीतोपचारं शोफावस्थस्य सन्ततम्॥२४॥
दोषाग्निरग्निवत्तेन प्रयाति सहसा शमम्।
शोफे व्रणे कठिने विवर्णे वेदनान्विते॥२५॥
विषयुक्ते विशेषेण जलजाद्यैर्हरेदसृक्।
दुष्टास्रेऽपगते सद्यः शोफरागरुजां शमः॥२६॥
हृते हृते रुधिरे सुशीतैः स्पर्शवीर्ययोः।
सुश्लक्ष्णैस्तदहःपिष्टैः क्षीरेक्षुस्वरसद्रवैः॥२७॥
शतधौतघृतोपेतैर्मुहुरन्यैरशोषिभिः।
प्रतिलोमं हितो लेपः सेकाभ्यङ्गाश्च तत्कृताः॥२८॥
न्यग्रोधोदुम्बराश्वत्थप्लक्षवेत सवल्कलैः।
प्रदेहो भूरिसर्पिभिः शोफनिर्वापणः परम्॥२९॥
वातोल्बणानां स्तब्धानां कठिनानां महारुजाम्।
स्रुतास्रुजां शोफानां व्रणानामपि चेद्दशाम्॥३०॥
आनूपवेसवाराद्यैः स्वेदः, सोमास्तिलाः पुनः।
भृष्टा निर्वापिताः क्षीरे तत्पिष्टा दाहरुग्घराः॥३१॥
स्थिरान् मन्दरुजः शोफान् स्नेहैर्वातकफपहैः।
अभ्यज्य स्वेदयित्वा वेणुनाड्या शनैः शनैः॥३२॥
विम्लापनार्थं मृद्गीयात् तलेनाङुष्ठकेन वा।
यवगोधूममुद्गैश्च सिद्ध पिष्टैः प्रलेपयेत्॥३३॥
विलीयते चेन्नैवं ततस्तमुपनाहयेत्।
अविदग्धस्तथा शान्तिं विदग्धः पाकमश्रुते॥३४॥
सकोलतिलवल्लोमा दध्यम्ला सक्तुपिण्डिका।
सकिण्वकुष्ठलवणा कोष्णा शस्तोपनाहने॥३५॥
सुपक्वे पिण्डिते शोफे पीडनैरुपपीडिते।
दारणं दारणार्हस्य सुकुमारस्य चेष्यते॥३६॥
गुग्गुल्वतसिगोदन्तस्वर्णक्षीरीकपोतविट्।
क्षौरौषधानि क्षाराश्च पक्वशोफविदारणम्॥३७॥
पूयगर्भानणुद्वारान् सोत्सङ्गान्मर्मगानपि।
निःस्नेहैः पीडनद्रव्यैः समन्तात्प्रतिपीडयेत्॥३८॥
शुष्यन्तं समुपेक्षेत प्रलेपं पीडनं प्रति।
मुखे चैनमालिम्पेत् तथा दोषः प्रसिच्यते॥३९॥
कलाययवगोधूममाषमुद्गहरेणवः।
द्रव्याणां पिच्छिलानां त्वङ्मूलानि प्रपीडनम्॥४०॥
सप्तसु क्षालनाद्येषु सुरसारग्वधादिकौ।
भृशं दुष्टे व्रणे योज्यौ मेहकुष्ठव्रणेषु च॥४१॥
अथवा क्षालनं क्वाथः पटोलीनिम्बपत्रजः।
अविशुद्धे, विशुद्धे तु व्यग्रोधादित्वगुद्भवः॥४२॥
पटोलीतिलयष्ट्याह्वत्रिवृद्दन्तीनिशाद्वयम्।
निम्बपत्राणि चालेपः सपटुर्व्रणशोधनः॥४३॥
व्रणान् विशोधयेद्वर्त्या सूक्ष्मास्यान् सन्धिमर्मगान्।
कृतया त्रिवृतादन्तीलाङ्गलीमधुसैन्धवैः॥४४॥
वाताभिभूतान् सास्रावान् धूपयेदुग्रवेदनान्।
यवज्यभूर्जमदनश्रीवेष्टकसुराह्वयैः॥४५॥
निर्वापयेद् भृशं शीतैः पित्तरक्तविषोल्बणान्।
शुष्काल्पमांसे गम्भीरे व्रण उत्सादनं हितम्॥४६॥
न्यग्रोधपद्मकादिभ्यामश्वगन्धाबलातिलैः।
अद्यान्मांसादमांसानि विधिनोपहितानि च॥४७॥
मांसं मांसादमांसेन वर्धते शुद्धचेतसः।
उत्सन्नमृदुमांसानां व्रणानामवसादनम्॥४८॥
जातीमुकुलकासीसमनोह्वालपुराग्निकैः।
उत्सन्नमांसान् कठिनान् कण्डूयुक्तांश्चिरोत्थितान्॥४९॥
व्रणान् सुदुःखशोध्यांश्च शोधयेत् क्षारकर्मणा।
स्रवन्तोऽश्मरिजा मूत्रं ये चान्ये रक्तवाहिनः॥५०॥
छिन्नाश्च सन्धयो येषां यथोक्तैर्ये शोधनैः।
शोध्यमाना शुध्द्यन्ति शोध्याः स्युस्तेऽग्निकर्मणा॥५१॥
शुद्धानां रोपणं योज्यमुत्सादाय यदीरितम्।
अश्वगन्धा रुहा रोध्रं कट्फलं मधुयष्टिका॥५२॥
समङ्गा धातकीपुष्पं परमं व्रणरोपणम्।
अपेतपूतिमांसानां मांसस्थानामरोहताम्॥५३॥
कल्कं संरोहणं कुर्यात् तिलानां मधिकान्वितम्।
स्निग्धोष्णतिक्तमधुरकषायत्वैः सर्वजित्॥५४॥
क्षौद्रनिम्बपत्राभ्यां युक्तः संशोधनं परम्।
पूर्वाभ्यां सर्पिषा चासौ युक्तः स्यादाशु रोपणः॥५५॥
तिलवद्यवकल्कं तु केचिदिच्छन्ति तद्विदः।
सास्रपित्तविषागन्तुगम्भीरान् सोष्मणो व्रणान्॥५६॥
क्षीररोपणभैषज्यशृतेनाज्येन रोपयेत्।
रोपणौषधसिद्धेन तैलेन कफवातजान्॥५७॥
काच्छीरोध्राभयासर्जसिन्दूराञ्जनतुत्थकम्।
चूर्णितं तैलमदनैर्युक्तं रोपणमुत्तमम्॥५८॥
समानां स्थिरमांसानां त्वक्स्थानां चूर्ण इष्यते।
ककुभोदुम्बराश्वत्थजम्बूकट्फलरोध्रजैः॥५९॥
त्वचमाशु निगृह्णन्ति त्वक्चूर्णैश्चूर्णिता व्रणाः।
लाक्षामनोह्वामञ्जिष्ठाहरितालनिशाद्वयैः॥६०॥
प्रलेपः सग़ृतक्षौद्रस्त्वग्विशुद्धिकरः परम्।
कालीयकलताम्रास्थिहेमकालारसोत्तमैः॥६१॥
लेपः सगोमयरसः सवर्णकरणः परम्।
दग्धो वारणदन्तोऽन्तर्धूमं तैलं रसाञ्जनम्॥६२॥
रोमसञ्जननो लेपस्तद्वत्तैलपरिप्लुता।
चतुष्पान्नखरोमास्थित्वक्शृङ्गखुरजा मषी॥६३॥
व्रणिनः शस्त्रकर्मोक्तं पथ्यापथ्यान्नमादिशेत्।
द्वे पञ्चमूले वर्गश्च वातघ्नो वातिके हितः॥६४॥
न्यग्रोधपद्मकाद्यौ तु तद्वत्पित्तप्रदूषिते।
आरग्वधादिः श्लेष्मघ्नः कफे, मिश्रास्तु मिश्रजे॥६५॥
एभिः प्रक्षालनं लेपो घृतं तैलं रसक्रिया।
चूर्णो वर्तिश्च संयोज्या व्रणे सप्त यथायथम्॥६६॥
जातीनिम्बपटोलपत्रकटुकादार्वीनिशासारिवा-
मञ्जिष्ठाभयसिक्थतुत्थमधुकैर्नक्ताह्वबीजान्वितैः।
सर्पिः साध्यमनेन सूक्ष्मवदना मर्माश्रिताः क्लेदिनो
गम्भीराः सरुजो व्रणाः सगतयः शुध्द्यन्ति रोहन्ति च॥६७॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्ग हृदयसंहितायां षष्ठे उत्तरस्थाने व्रणप्रतिषेधो नाम पञ्चविंशोऽध्यायः॥२५॥