27.भङ्गप्रतिषेधाध्यायः
अथातो भङ्गप्रतिषेधं व्याख्यास्यामः।
इति स्माहुरात्रेयादयो महर्षयः।
पातघातादिभिर्द्वेधा भङ्गोऽस्थ्नां सन्ध्यसन्धितः।
प्रसारणाकुञ्चनयोरशक्तिः सन्धिमुक्तता॥१॥
इतरस्मिन् भृशं शोफः सर्ववस्थास्वतिव्यथा।
अशक्तिश्चेष्टितेऽल्पेऽपि पीड्यमाने सशब्दता॥२॥
समासादिति भङ्गस्य लक्षणं, बहुधा तु तत्।
भिद्यते भङ्गभेदेन तस्य सर्वस्य साधनम्॥३॥
यथा स्यादुपयोगाय तथा तदुपदेक्ष्यते।
प्रज्याणुदारि यत्त्वस्थि स्पर्शे शब्दं करोति यत्॥४॥
यत्रास्थिलेशः प्रविशेन्मध्यमस्थ्नो विदारितः।
भग्नं यच्चाभिघातेन किञ्चिदेवावशेषितम्॥५॥
उन्नम्यमानं क्षतवद्यच्च मज्जनि मज्जति।
तद्दुःसाध्यं कृशाशक्तवातलाल्पाशिनामपि॥६॥
भिन्नं कपालं यत् कट्यां सन्धिमुक्तं च्युतं यत्।
जघनं प्रति पिष्टं भग्नं यत्तद्विवर्जयेत्॥७॥
असंश्लिष्टकपालं ललाटं चूर्णितम् तथा।
यच्च भग्नं भवेच्छङ्खशिरःपृष्ठस्तनान्तरे॥८॥
सम्यग्यमितमप्यस्थि दुर्न्यासाद्दुर्निबन्धनात्।
सङ्क्षोभादपि यद्गच्छेद्विक्रियां तद्विवर्जयेत्॥९॥
आदितो यच्च दुर्जातमस्थिसन्धिरथापि वा।
तरुणास्थीनि भुज्यन्ते, भज्यन्ते नलकानि तु॥१०॥
कपालानि विभिद्यन्ते, स्फुटन्त्यन्यानि भूयसा।
अथावनतमुन्नम्यमुन्नतं चावपीडयेत्॥११॥
आच्छेदतिक्षिप्तमधोगतं चोपरि वर्तयेत्।
आञ्छनोत्पीडनोन्नामचर्मसङ्क्षेपबन्धनैः॥१२॥
सन्धीन् शरीरगान् सर्वान् चलानप्यचलानपि।
इत्येतैः स्थापनोपायैः सम्यक् संस्थाप्य निश्चलम्॥१३॥
पट्टैः प्रभूतसर्पिर्भिर्वेष्टयित्वा सुखैस्ततः।
कदम्बोदुम्बराश्वत्थसर्जार्जुनपलाशजैः॥१४॥
वंशोद्भवैर्वा पृथुभिस्तनुभिः सुनिवेशितैः।
सुश्लक्ष्णैः सप्रतिस्तम्भैर्वल्कलैः शकलैरपि॥१५॥
कुशाह्वयैः समं बन्धं पट्टस्योपरि योजयेत्।
शिथिलेन हि बन्धेन सन्धिस्थैर्यं जायते॥१६॥
गाढेनाति रुजादाहपाकश्वयथुसम्भवः।
त्र्यहात्त्र्यहादृतौ घर्मे सप्ताहान्मोक्षयेद्धिमे॥१७॥
साधारणे तु पञ्चहाद् भङ्गदोषवशेन वा।
न्यग्रोधादिकषायेण ततः शीतेन सेचयेत्॥१८॥
तं पञ्चमूलपक्वेन पयसा तु सवेदनम्।
सुखोष्णं वाऽवचार्यं स्याच्चक्रतैलं विजानता॥१९॥
विभज्य देशं कालं वातघ्नौषधसंयुतम्।
प्रततं सेकलेपांश्च विदध्यात् भृशशीतलान्॥२०॥
गृष्टिक्षीरं ससर्पिष्कं मधुरौषधसाधितम्।
प्रातः प्रातः पिबेद्भग्नः शीतलं लाक्षया युतम्॥२१॥
सव्रणस्य तु भग्नस्य व्रणो मधुघृतोत्तरैः।
कषायैः प्रतिसार्योऽथ शेषो भङ्गोदितः क्रमः॥२२॥
लम्बानि व्रणमांसानि प्रलिप्य मधुसर्पिषा।
सन्धधीत व्रणान् वैद्यो बन्धनैश्चोप०पादयेत्॥२३॥
तान् समान् सुस्थिताञ्ज्ञात्वा फलिनीरोध्रकट्फलैः।
समङ्गाधातकीयुक्तैश्चूर्णितैरवचूर्णयेत्॥२४॥
धातकीरोध्रचूर्णैर्वा, रोहन्त्याशु तथा व्रणाः।
इति भङ्ग उपक्रान्तः स्थिरधातोः ऋतौ हिमे॥२५॥
मांसलस्याल्पदोषस्य सुसाध्यो, दारुणोऽन्यथा।
पूर्वमध्यान्तवयसामेकद्वित्रिगुणैः क्रमात्॥२६॥
मासैः स्थैर्यं भवेत्सन्धेर्यथोक्तं भजतां विधिम्।
कटीजङ्घोरुभग्नानां कपाटशयनं हितम्॥२७॥
यन्त्रणार्थ तथा कीलाः पञ्च कार्या निबन्धनाः।
जङ्घोर्वोः पाऱ्श्वयोर्द्वौ द्वौ तल एकश्च कीलकः॥२८॥
शोर्ण्यां वा पृष्ठवंशे वा वक्षस्यक्षकयोस्तथा।
विमोक्षे भग्नसन्धीनां विधिमेवं समाचरेत्॥२९॥
सन्धीश्चिरविमुक्तांस्तु स्निग्धस्विन्नान् मृदूकृतान्।
उक्तैर्विधानैर्बुद्ध्या यथास्वं स्थानमानयेत्॥३०॥
असन्धिभग्ने रूढे तु विषमोल्बणसाधिते।
आपोथ्य भङ्गं यमयेत्ततो भग्नवदाचरेत्॥३१॥
भग्नं नैति यथा पाकं प्रयतेत तथा भिषक्।
पक्वमांससिरास्नायुः सन्धिः श्लेषं गच्छति॥३२॥
वातव्याधिविनिर्दिष्टान् स्नेहान् भग्नस्य योजयेत्।
चतुष्प्रयोगान् बल्यांश्च बस्तिकर्म शीलयेत्॥३३॥
शाल्याज्यरसदुग्धाद्यैः पौष्टिकैरविदाहिभिः।
मात्रयोपचरेद्भग्नं सन्धिसंश्लेषकारिभिः॥३४॥
ग्लानिर्न शस्यते तस्य, सन्धिविश्लेषकृद्धि सा।
लवणं कटुकं क्षारमम्लं मैथुनमातपम्।
व्यायामं सेवेत भग्नो रूक्षं भोजनम्॥३५॥
कृष्णांस्तिलान् विरजसो दृढवस्त्रबद्धान्
सप्त क्षपा वहति वारिणि वासयेत्।
संशोषयेदनुदिनं प्रविसार्य चैतान्
क्षीरे तथैव मधुकक्वथिते तोये॥३६॥
पुनरपि पीतपयस्कांस्थान् पूर्ववदेव शोषितान् बाढम्।
विगततुषानरजस्कान् सञ्चूर्ण्य सुचूर्णितैर्युञ्ज्यात्॥३७॥
नलदवालकलोहितयष्टिकानखमिशिप्लवकुष्ठ बलात्रयैः।
अगुरुकुङ्कुमचन्दनसारिवासरलसर्जरसा मरदारुभिः॥३८॥
पद्मकादिगणोपेतैस्तिलपिष्टं ततश्च तत्।
समस्तगन्धभैषज्यसिद्धदुग्धेन पीडयेत्॥३९॥
शैलेयरास्नांशुमतीकसेरुकालानुसारीनतपत्ररोध्रैः।
सक्षीरशुक्लैः सपयः सदूर्वै स्तैलं पचेत्तन्नलदादिभिश्च॥४०॥
गन्धतैलमिदमुत्तममस्थिस्थैर्यकृज्जयति चाशु विकारान्।
वातापित्तजनितानतिवीर्यान् व्यापिनोऽपि विविधैरुपयोगैः॥४१॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्ग हृदयसंहितायां षष्ठे उत्तरस्थाने भाङ्गप्रतिषेधो नाम सप्तविंशोऽध्यायः॥२७॥