14.लिङ्गनाशप्रतिषेधाध्यायः
अथातो लिङ्गनाशप्रतिषेधं व्याख़्यास्यामः।
इति ह स्माहुरात्रयादयो महर्षयः।
विध्येत्सुजातं निःप्रेक्ष्यं लिङ्गनाशं कफोद्भवम्।
आवर्तक्यादिभिः षड्भिर्विवर्जितमुपद्रवैः॥१॥
सोऽसञ्जातो हि विषमो दधिमस्तुनिभस्तनुः।
शलाकयाऽवकृष्टोऽपि पुनरूर्ध्वं प्रपद्यते॥२॥
करोति वेदनां तीव्रां दृष्टिं च स्थगयेत्पुनः।
श्लेष्मलैः पूर्यते चाशु सोऽन्यैः सोपद्रवश्चिरात्॥३॥
श्लैष्मिको लिङ्गनाशो हि सितत्वाच्छ्लेष्मणः सितः।
तस्यान्यदोषाभिभवाद्भवत्यानीलता गदः॥४॥
तत्रावर्तचला दृष्तिरावर्तक्यरुणाऽसिता ।
शर्कराऽर्कपयोलेशनिचितेव ग़ानाति च॥५॥
राजीमती दृङ्निचिता शालिशूकाभराजिभिः।
विषमच्छिन्नदग्धाभा सरुक् छिन्नांशुका स्मृता॥६॥
दृष्टिः कांस्यसमच्छाया चन्द्रकी चन्द्रकाकृतिः।
छत्राभा नैकवर्णा च छत्रकी नाम नीलिका॥७॥
न विध्येदसिरार्हाणां न तृट्पीनसकासिनाम्।
नाजीर्णभीरुवमितशिरःकर्णाक्षिशूलिनाम्॥८॥
अथ साधारणे काले शुद्धसम्भोजितात्मनः।
देशे प्रकाशो पूर्वाह्णे भिषग्जानूच्चपीठगः॥९॥
यन्त्रितस्योपविष्टस्य स्विन्नाक्षस्य मुखानिलैः।
अङ्गुष्ठमृदिते नेत्रे दृष्टौ दृष्ट्वोत्प्लुतं मलम्॥१०॥
स्वां नासां प्रेक्षमाणस्य निष्कम्पं मूर्ध्नि धारिते।
कृष्णादर्धाङ्गुलं मुक्त्वा तथाऽर्धार्धमपाङ्गतः॥११॥
तर्जनीमध्यमाङ्गुष्ठैः शलाकां निश्चलं धृताम्।
दैवच्छिद्रं नयेत्पार्श्वादूर्ध्वमामन्थयन्निव॥१२॥
सव्यं दक्षिणहस्तेन नेत्रं सव्येन चेतरत्।
विध्येत् सुविद्धे शब्दः स्यादरुक् चाम्बुलवस्रुतिः॥१३॥
सान्त्वयन्नातुरं चानु नेत्रं स्तन्येन सेचयेत्।
शलाकायास्ततोऽग्रेण निर्लिखेण्णेत्रमण्डलम्॥१४॥
अबाधमानः शनकैर्नासां प्रति नुदंस्ततः।
उच्छिङ्घनाच्चापहरेद्दृष्टिमण्दलगं कफम्॥१५॥
स्थिरे दोषे चले वाऽति स्वेदयेदक्षि बाह्यतः।
अथ दृष्टेषु रूपेषु शलाकामाहरेच्छनैः॥१६॥
घृताप्लुतं पिचुं दत्त्वा बद्धाक्षं शाययेत्ततः।
विद्धादन्येन पार्श्वेन तमुत्तानं द्वयोर्व्यधे॥१७॥
निवाते शयनेऽभ्यक्तशिरःपादं हिते रतम्।
क्षवथुं कासमुद्गारं ष्ठीवनं पानमम्भसः॥१८॥
अधोमुखस्थितिं स्नानं दन्तधावनभक्षणम्।
सप्ताहं नाचारेत्स्नेहपीतवच्चात्र यन्त्रणा॥१९॥
शक्तितो लङ्ग़येत्सेको रुजि कोष्णेन सर्पिषा।
सव्योषामलकं वाट्यमश्नीयात्सग़ृतं द्रवम्॥२०॥
विलेपीं वा त्र्यहाच्चास्य क्वाथैर्मुक्त्वाऽक्षि सेचयेत्।
वातग़्नैः सप्तमे त्वह्नि सर्वथैवाक्षि मोचयेत्॥२१॥
यन्त्रणामनुरुध्येत दृष्टेरास्थैर्यलाभतः।
रूपाणि सूक्ष्मदीप्तानि सहसा नावलोकयेत्॥२२॥
शोफरागरुजादीनामधिमन्थस्य चोद्भवः।
अहितैर्वेधदोषाच्च यथास्वं तानुपाचरेत्॥२३॥
कल्किताः सघृता दूर्वायवगैरिकसारिवाः।
मुखालेपे प्रयोक्तव्या रुजारागोपशान्तये॥२४॥
ससर्षपास्तिलास्तद्वन्मातुलुङ्गरसाप्लुताः।
पयस्यासारिवापत्रमञ्जिष्ठामधुयष्टिभिः॥२५॥
अजाक्षीरयुतैर्लेपः सुखोष्णः शर्मकृत्परम्।
रोध्रसैन्धवमृद्वीकामधुकैश्छागलं पयः॥२६॥
शृतमाश्च्योतनं योज्यं रुजारागविनाशनम्।
मधुकोत्पलकुष्ठैर्व द्राक्षालाक्षासितान्वितैः॥२७॥
वातघ्नसिद्धे पयसि शृतं सर्पिश्चतुर्गुणे।
पद्मकादिप्रतीवापं सर्वकर्मसु शस्यते॥२८॥
सिरां तथाऽनुपशमे स्निग्धस्विन्नस्य मोक्षयेत्।
मन्थोक्तां च क्रियां कुर्याद्वेधे रूढेऽञ्जनं मृदु॥२९॥
आढकीमूलमरिचहरितालरसाञ्जनैः।
विद्धेऽक्ष्णि सगुडा वर्तिर्योज्या दिव्याम्बुपेषिता॥३०॥
जातीशिरीषधवमेषविषाणिपुष्प वैडूर्यमौक्तिकफलं पयसा सुपिष्टम्।
आजेन ताम्रममुना प्रतनु प्रदिग्धं सप्ताहतः पुनरिदं
पयसैव पिष्टम्॥३१॥
पिण्डाञ्जनं हितमनातपशुष्कमक्ष्णि विद्धे प्रसादजननं बलकृच्च दृष्टेः।
स्रोतोजविद्रुमशिलाम्बुधिफेनतीक्ष्णैरस्यैव तुल्यमुदितं गुणकल्पनाभिः॥३२॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्ग हृदयसंहितायां षष्ठे उत्तरस्थाने लिङ्गनाशप्रतिषेधो नाम चतुर्दशोऽध्यायः॥१४॥