15.सर्वाक्षिरोगविज्ञानीयाध्यायः
अथातः सर्वाक्षिरोगविज्ञानीयं व्याख्यास्यामः।
इति स्माहुरात्रेयादयो महर्षयः।
वातेन नेत्रेऽभिष्यण्णे नासानाहोऽल्पशोफता।
शङ्खाक्षिभ्रूललाटस्य तोदस्फुरणभेदनम्॥१॥
शुष्काल्पा दूषिका शीतमच्छं चाश्रु चला रुजः।
निमेषोन्मेषणं कृच्छ्राज्जन्तूनामिव सर्पणम्॥२॥
अक्ष्याध्मातमिवाभाति सूक्ष्मैः शल्यैरिवाचितम्।
स्निग्धोष्णैश्चोपशमनं सोऽभिष्यन्दः उपेक्षितः॥३॥
अधिमन्थो भवेत्तत्र कर्णयोर्नदनं भ्रमः।
अरण्येव मथ्यन्ते ललाटाक्षिभ्रुवादयः॥४॥
हताधिमन्थः सोऽपि स्यात् प्रमादात्तेन वेदनाः।
अनेकरूपा जायन्ते व्रणो दृष्टौ दृष्टिहा॥५॥
मन्याक्षिशङ्ख़तो वायुरन्यतो वा प्रवर्तयन्।
व्यथां तीव्रामपैच्छिल्यरागशोफं विलोचनम्॥६॥
सङ्कोचयति पर्यश्रु सोऽन्यतोवातसंज्ञितः।
तद्वज्जिह्मं भवेन्नेत्रमूनं वा वातपर्यये॥७॥
दाहो धूमायनं शोफः श्यावता वर्त्मनो बहिः।
अन्तः क्लेदोऽश्रु पीतोष्णं रागः पीताभदर्शनम्॥८॥
क्षारोक्षितक्षताक्षित्वं पित्ताभिष्यन्दलक्षणम्।
ज्वलदङ्गारकीर्णाभं यकृत्पिण्डसमप्रभम्॥९॥
अधिमन्थे भवेन्नेत्रं स्यन्दे तु कफसम्भवे।
जाड्यं शोफो महान् कण्डूर्निद्राऽन्नानभिनन्दनम्॥१०॥
सान्द्रस्निग्धबहुश्वेतपिच्छावद्दूषिकाश्रुता।
अधिमन्थे नतं कृष्णमुन्नतं शुक्लमण्डलम्॥११॥
प्रसेको नासिकाध्मानं पांशुपूर्णमिवेक्षणम्।
रक्ताश्रुराजीदूषीकारक्तमण्डलदर्शनम्॥१२॥
रक्तस्यन्देन नयनं सपित्तस्यन्दलक्षणम्।
मन्थेऽक्षि ताम्रपर्यन्तमुत्पाटनसमानरुक्॥१३॥
रोगेण बन्धूकनिभं ताम्यति स्पर्शनाक्षमम्।
असृङ्निमग्नारिष्टाभं कृष्णमग्न्याभदर्शनम्॥१४॥
अधिमन्था यथास्वं सर्वे स्यान्दाधिकव्यथाः।
शङ्कदन्तकपोलेशु कपाले चातिरुक्कराः॥१५॥
वातपित्तातुरं घार्षतोदभेदोपदेहवत्।
रूक्षदारुणवर्त्माक्षि कृच्छ्रोन्मीलनिमीलनम्॥१६॥
विकूणनविशुष्कत्वशीतेच्छाशूलपाकवत्।
उक्तः शुष्काक्षिपाकोऽयं सशोफः स्यात्त्रिभिर्मलैः॥१७॥
सरक्तैस्तत्र शोफोऽतिरुग्दाहष्ठीवनादिमान्।
पक्वोदुम्बरसङ्काशं जायते शुक्लमण्डलम्॥१८॥
अश्रूष्णशीतविशदपिच्छिलाच्छघनं मुहुः।
अल्पशोफेऽल्पशोफस्तु पाकोऽन्यैर्लक्षणैस्तथा॥१९॥
अक्षिपाकात्यये शोफः संरम्भः कलुषाश्रुता।
कफोपदिग्धमसितं सितं प्रक्लेदरागवत्॥२०॥
दाहो दर्शनसंरोधो वेदनाश्चानवस्थिताः।
अन्नसारोऽम्लतां नीतः पित्तरक्तोल्बणैर्मलैः॥२१॥
शिराभिर्नेत्रमारूढः करोति श्यावलोहितम्।
सशोफदाहपाकाश्रु भृशं चाविलदर्शनम्॥२२॥
अम्लोषितोऽयम् इत्युक्ता गदाः षोडश सर्वगाः।
हताधिमन्थमेतेषु साक्षिपाकात्ययं त्यजेत्॥२३॥
वातोद्भूतः पञ्चरात्रेण दृष्टिं सप्ताहेन श्लेष्मजातोऽधिमन्थः।
रक्तोत्पन्नो हन्ति तद्वत्त्रिरात्रात् मिथ्याचारात् पैत्तिकः सद्य एव॥२४॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्ग हृदयसंहितायां षष्ठे उत्तरस्थाने सर्वाक्षिरोगविज्ञानीयो नाम पञ्चदशोऽध्यायः॥२५॥