13.तिमिरप्रतिषेधाध्यायः
अथातस्तिमिरप्रतिषेधं व्याख्यास्यामः।
इति स्माहुरात्रेयादयो महर्षयः।
तिमिरं काचतां याति काचोऽप्यान्ध्यमुपेक्षया।
नेत्ररोगेष्वतो घोरं तिमिरं साधयेद् द्रुतम्॥१॥
तुलां पचेत् जीवन्त्या द्रोणेऽपां पादशेषिते।
तत्क्वाथे द्विगुणक्षीरं घृतप्रस्थं विपाचयेत्॥२॥
प्रपौण्डरीककाकोलीपिप्पलीरोध्रसैन्धवैः।
शतह्वामधुकद्राक्षासिरादारुफलत्रयैः॥३॥
कर्षिकैर्निशि तत्पीतं तिमिरापहरं परम्।
द्राक्षाचन्दनमञ्जिष्ठाकाकोलीद्वयजीवकैः॥४॥
सिताशतावरीमेदापुण्ड्राह्वमधुकोत्पलैः।
पचेज्जीर्णघृतप्रस्थं समक्षीरं पिचून्मितैः॥५॥
हन्ति तत्काचतिमिररक्तराजीशिरोरुजः।
पटोलनिम्बकटुकादार्वीसेव्यवरावृषम्॥६॥
सधन्वयासत्रायन्तीपर्पटं पालिकं पृथक्।
प्रस्थमामलकानं क्वाथयेन्नल्वणेऽम्भसि॥७॥
तदाढकेऽर्धपलिकैः पिष्टैः प्रस्थं घृतात्पचेत्।
मुस्तभूनिम्बयष्ट्याह्वकुटजोदीच्यचन्दनैः॥८॥
सपिप्पलीकैस्तत्सर्पिघ्राणकर्णास्यरोगजित्।
विद्रधिज्वरदुष्टारुर्विसर्पापचिकुष्ठनुत्॥९॥
विशेषाच्छुक्रतिमिरनक्तान्ध्योष्णाम्लदाहहृत्।
त्रिफलाष्टपलं क्वाथ्यं पादशेषं जलाढके॥१०॥
तेन तुल्यपयस्केन त्रिफलापलकल्कवान्।
अर्धप्रस्थो घ्रुतात्सिद्धः सितया माक्षिकेण वा॥११॥
युक्तं पिबेत्तत्तिमिरी तद्युक्तं वा वरारसम्।
यष्टीमधुद्विकाकोलीव्याघ्रीकृष्णामृतोत्पलैः॥१२॥
पालिकैः ससिराद्राक्षैर्घृतप्रस्थं पचेत्समैः।
अजाक्षीरवरावासामार्कवस्वरसैः पृथक्॥१३॥
महात्रैफलमित्येतत्परं दृष्टिविकारजित्।
त्रैफलेनाथ हविषा लिहानस्त्रिफलां निशि॥१४॥
यष्टीमधुकसंयुक्तां मधुना परिप्लुताम्।
मासमेकं हिताहारः पिबन्नामलकोदकम्॥१५॥
सौपर्णं लभते चक्षुरित्याह भगवान्निमिः।
ताप्यायोहेमयष्ट्याह्वसिताजीर्णाज्यमाक्षिकैः॥१६॥
संयोजिता यथाकामं तिमिरघ्नी वरा वरा।
सघृतं वा वराक्वाथं शीलयेत्तिमिरामयी॥१७॥
अपूपसूपसक्तून् वा त्रिफलाचूर्णसंयुतान्।
पायसं वा वरायुक्तं शीतं समधुशर्करम्॥१८॥
प्रातर्भक्तस्य वा पूर्वमद्यात्पथ्यां पृथक् पृथक्।
मृद्वीकाशर्कराक्षौद्रैः सततं तिमिरातुरः॥१९॥
स्रोतोजांशांश्चतुःषष्टिं ताम्रायोरूप्यकाञ्चनैः।
युक्तान् प्रत्येकमेकांशैरन्धमूषोदरस्थितान्॥२०॥
ध्मापयित्वा समावृत्तं ततस्तच्च निषेचयेत्।
रसस्कन्धकषायेषु सप्तकृत्वः पृथक् पृथक्॥२१॥
वैडूर्यमुक्ताशङ्खानां त्रिभिर्भागैर्युतं ततः।
चूर्णाञ्जनं प्रयुञ्जीत तत्सर्वतिमिरापहम्॥२२॥
मांसीत्रिजातकायःकुङ्कुमनीलोत्पलाभयातुत्थैः।
सितकाचशङ्ख़फेनकमरिचाञ्जनपिप्पलीमधुकैः॥२३॥
चन्द्रेऽश्वनीसनाथे सुचूर्णितैरञ्जयेद्युगुलमक्ष्णोः।
तिमिरार्मरक्तराजीकण्डूकाचादिशममिच्छन्॥२४॥
मरिचवरलवणभागौ भागौ द्वौ कणसमुद्रफेनाभ्याम्।
सौवीरभागनवकं चित्रायां चूर्णितं कफमयजित्॥२५॥
[
मनोह्वातुत्थकस्तूरीमांसीमलयरोचनाः।
दशकर्पूरसंयुक्तमशीतिगुणमञ्जनम्॥१॥
पिष्टं चित्राश्विनीपुष्ये षड्विधे तिमिरे हितम्।
प्रसादनं दृष्टेः स्याच्चक्षुषेणावभाषितम्]॥२॥ ]
द्राक्षामृणालीस्वरसे क्षीरमद्यवसासु च।
पृथक् दिव्याप्सु स्रोतोजं सप्तकृत्वो निषेचयेत्॥२६॥
तच्चूर्णितं स्थितं शङ्खे दृक्प्रसादनमञ्जनम्।
शस्तं सर्वाक्षिरोगेषु विदेहपतिनिर्मितम्॥२७॥
निर्दग्धं बादराङ्गारैस्तुत्थं चेत्थं निषेचितम्।
क्रमादजापयः सर्पिःक्षौद्रे तस्मात् पलद्वयम्॥२८॥
कार्षिकैस्ताप्यमरिचस्रोतोजकटुकानतैः।
पटुरोध्नशिलापथ्याकणैलाञ्जनफेनकैः॥२९॥
युक्तं पलेन यष्ट्याश्च मूषान्तर्ध्मातचूर्णितम्।
हन्ति काचार्मनक्तान्ध्यरक्तराजीः सुशीलतः॥३०॥
चूर्णो विशेषात्तिमिरं भास्करो भास्करो यथा।
त्रिंशद्भागा भुजङ्गस्य गन्धपाषाणपञ्चकम्॥३१॥
शुल्बतालकयोर्द्वौ द्वौ वङ्गस्यैकोऽञ्जनात्त्रयम्।
अन्धमूषीकृतं ध्मातं पक्वं विमलमञ्जनम्॥३२॥
तिमिरान्तकरं लोके द्वितीय इव भास्करः।
गोमूत्रे छगणरसेऽम्लकाञ्जिके स्त्रीस्तन्ये हविषि विषे माक्षिके च।
यत्तुत्थं ज्वलितमनेकशो निषिक्तं तत्कुर्याद्गरुडसमं नरस्य चक्षुः॥३३॥
श्रेष्ठाजलं भृङ्गरसं सविषाज्यमजापयः।
यष्टीरसं यत्सीसं सप्तकृत्वः पृथक् पृथक्॥३४॥
तप्तं तप्तं पायितं तच्छलाका नेत्रे युक्ता साञ्जनाऽनञ्जना वा।
तैमिर्यार्मस्रापपैच्छिल्यपैल्लं कण्डूं जाड्यं रक्तराजीं हन्ति॥३५॥
रसेन्द्रभुजगौ तुल्यौ तयोस्तुल्यमथाञ्जनम्।
ईषात्कर्पूरसंयुक्तमञ्जनं तिमिरापहम्॥३६॥
यो गृध्रस्तरुणरविप्रकाशगल्लस्तस्यास्यं समयमृतस्य गोशकृद्भिः।
निर्दग्धं समधृतमञ्जनं पेष्यं योगोऽयं नयनबलं करोति गार्ध्रम्॥३७॥
कृष्णसर्पवदने सहविष्कं दग्धमञ्जननिःसृतधूमम्।
चूर्णितं नलदपत्रविमिश्रं भिन्नतारमपि रक्षति चक्षुः॥३८॥
कृष्णसर्पं मृतं न्यस्य चतुरश्चापि वृश्चिकान्।
क्षीरकुम्भे त्रिसप्ताहं क्लेदयित्वा प्रमन्थयेत्॥३९॥
तत्र यन्नवनीतं स्यात्पुष्णीयात्तेन कुक्कुटम्।
अन्धस्तस्य पुरीषेण प्रेक्षते ध्रुवमञ्जनात्॥४०॥
कृष्णसर्पवसा शङ्खः कतकात् फलमञ्जनम्।
रसक्रियेयमचिरादन्धानं दर्शनप्रदा॥४१॥
मरिचानि दशार्धपिचुस्ताप्यात्तुत्थात्पलं पिचुर्यष्ट्याः।
क्षीरार्द्रदग्धमञ्जनमप्रतिसाराख्यमुत्तमं तिमिरे॥४२॥
अक्षबीजमरिचामलकत्वक्तुत्थयष्टिमधुकैर्जलपिष्टैः।
छाययैव गुटिकाः परिशुष्का नाशन्यन्ति तिमिराण्यचिरेण॥४३॥
मरिचामलकजलोद्भवतुत्थाञ्जनताप्यधातुभिः क्रमवृद्धैः।
षण्माक्षिक इति योगस्तिमिरार्मक्लेदकाचकण्डूहन्ता॥४४॥
रत्नानि रूप्यं स्फटिकं सुवर्णं स्रोतोञ्जनं ताम्रमयः सशङ्खम्।
कुचन्दनं लोहितगैरिकं चूर्णाञ्जनं सर्वदृगामयघ्नम्॥४५॥
तिलतैलमक्षतैलं भृङ्गस्वरसोऽसनाच्च निर्यूहः।
आयसपात्रविपक्वं करोति दृष्टेर्बलं नस्यम्॥४६॥
दोषानुरोधेन नैकशस्तं स्नेहास्रविस्रवणरेकनस्यैः।
उपाचरेदञ्जनमूर्धबस्तिबस्तिक्रियातर्पणलेपसेकैः॥४७॥
सामान्यं साधनमिदम् प्रतिदोषमतः शृणु॥४८॥
वातजे तिमिरे तत्र दशमूलाम्भसा घृतम्।
क्षीरे चतुर्गुणे श्रेष्ठाकल्कपक्वं पिबेत्ततः॥४९॥
त्रिफलापञ्चमूलानां कषायं क्षीरसंयुतम्।
एरण्डतैलसंयुक्तं योजयेच्च विरेचनम्॥५०॥
समूलजालजीवन्तीतुलां द्रोणेऽम्भसः पचेत्।
अष्टभागस्थैते तस्मिंस्तैलप्रस्थं पयःसमे॥५१॥
बलात्रितयजीवन्तीवरीमूलैः पलोन्मितैः।
यष्टीपलैश्चतुर्भिश्च लोहपात्रे विपाचयेत्॥५२॥
लोह एव स्थितं मासं नावनादूर्ध्वजत्रुजान्।
वातपित्तायमयान् हन्ति तद्विशेषाद्दृगाश्रयान्॥५३॥
केशास्यकन्धरास्कन्धपुष्टिलावण्यकान्तिदम्।
सितैरण्डजटासिंहीफलदारुवचानतैः॥५४॥
घोषया बिल्वमूलैश्च तैलं पक्वं पयोन्वितम्।
नस्यं सर्वोर्ध्वजत्रूत्थवातश्लेष्मामयार्तिजित्॥५५॥
वसाऽञ्जने वैयाघ्री वाराही वा प्रशस्यते।
गृध्राहिकुक्कुटोत्था वा मधुकेनान्विता पृथक्॥५६॥
प्रत्यञ्जने स्रोतोजं रसक्षीरघृते क्रमात्।
निषिक्तं पूर्ववद्योज्यं तिमिरघ्नमनुत्तमम्॥५७॥
चेदेवं शमं याति ततस्तर्पणमाचरेत्।
शताह्वाकुष्ठनलदकाकोलीद्वयष्टिभिः॥५८॥
प्रपौण्डरीकसरलपिप्पलीदेवदारुभिः।
सर्पिरष्टगुणक्षीरं पक्वं तर्पणमुत्तमम्॥५९॥
मेदसस्तद्वदैणेयाद्दुग्धसिद्धात् खजाहतात्।
उद्धृतं साधितं तेजो मधुकोशीरचन्दनैः॥६०॥
श्वाविच्छल्यकगोधानां दक्षतित्तिरिबर्हिणाम्।
पृथक्पृथगनेनैव विधिना कल्पयेद्वसाम्॥६१॥
प्रसादनं स्नेहनं पुटपाकं प्रयोजयेत्।
वातपीनसवच्चात्र निरूहं सानुवासनम्॥६२॥
पित्तजे तिमिरे सर्पिर्जीवनीयफलत्रयैः।
विपाचितं पाययित्वा स्निग्धस्य व्यधयेत्सिराम्॥६३॥
शर्करैलात्रिवृच्चूर्णैर्मधुयुक्तैर्विरेचयेत्।
सुशीतान् सेकलेपादीन् युञ्ज्यान्नेत्रास्यमूर्धसु॥६४॥
सारिवापद्मकोशीरमुक्ताशाबरचन्दनैः।
वर्तिः शस्ताऽञ्जने, चूर्णस्तथा पत्रोत्पलाञ्जनैः॥६५॥
सनागपुष्पकर्पूरयष्ट्याह्वस्वर्णगैरिकैः।
सौवीराञ्जनतुत्थकशृङ्गीधात्रीफलस्फटिककर्पूतम्।
पञ्चांशं पञ्चांशं त्र्यंशमथैकांशमञ्जनं तिमिरघ्नम्।
नस्यं चाज्यं शृतं क्षीरजीवनीयसितोत्पलैः॥६७॥
श्लेष्मोद्भवेऽमृताक्वाथवराकणशृतं घृतम्।
विध्येत्सिरां पीतवतो दद्याच्चानु विरेचनम्॥६८॥
क्वाथं पूगाभयाशुण्ठीकृष्णाकुम्भनिकुम्भजम्।
ह्नीबेरदारुद्विनिशाकृष्णाकल्कैः पयोन्वितैः॥६९॥
द्विपञ्चमूलनिर्यूहे तैलं पक्वं नावनम्।
शङ्खप्रियङ्गुनेपालीकटुत्रिकफलत्रिकैः॥७०॥
दृग्वैमल्याय विमला वर्तिः स्यात् कोकिला पुनः।
कृष्णलोहरजोव्योषसैन्धवत्रिफलाञ्जनैः॥७१॥
शशगोखरसिंहोष्ट्रद्विजा लालाटमस्थि च।
श्वेतगोवालमरिचशङ्खचन्दनफेनकम्॥७२॥
पिष्टं स्तन्याजदुग्धाभ्यां वर्तिस्तिमिशुक्रजित्।
रक्तजे पित्तवत्सिद्धिः शीतैश्चास्रं प्रसादयेत्॥७३॥
द्राक्षया नलदरोध्रयष्टिभिः शङ्खताम्रहिमपद्मपद्मकैः।
सोत्पलैश्छगलदुग्धवर्तितैरस्रजं तिमिरमाशु नश्यति॥७४॥
संसर्गसन्निपातोत्थे यथादोषोदयं क्रिया।
सिद्धं मधूककृमिजिन्मरिचामरदारुभिः॥७५॥
सक्षीरं नावनं तैलं पिष्टैर्लेपो मुखस्य च।
नतनीलोत्पलानन्तायष्ट्याह्वसुनिषण्णकैः॥७६॥
साधितं नावने तैलं शिरोबस्तौ शस्यते।
दद्यादुशीरनिर्यूहे चूर्णितं कणसैन्धवम्॥७७॥
तत्स्रुतं सघृतं भूयः पचेत्क्षौद्रं घने क्षिपेत्।
शीते चास्मिन् हितमिदं सर्वजे तिमिरेऽञ्जनम्॥७८॥
अस्थीनि मज्जपूर्णानि सत्त्वानां रात्रिचारिणाम्।
स्रोतोजाञ्जनयुक्तानि वहत्यम्भसि वासयेत्॥७९॥
मासं विंशतिरात्रं वा ततश्चोद्धृत्य शोषयेत्।
समेषशृङ्गीपुष्पाणि सयष्ट्याह्वानि तान्यनु॥८०॥
चूर्णितान्यञ्जनं श्रेष्ठं तिमिरे सान्निपातिके।
काचेऽप्येषा क्रिया मुक्त्वा सिरां, यन्त्रनिपीडिताः॥८१॥
आन्ध्याय स्युर्मला दद्यात्स्राव्ये त्वस्रे जलौकसः।
गुडः फेनोऽञ्जनं कृष्णा मरिचं कुङ्कुमाद्रजः॥८२॥
रसक्रियेयं सक्षौद्रा काचयापनमञ्जनम्।
नकुलन्धे त्रिदोषोत्थे तैमिर्यविहितो विधिः॥८३॥
रसक्रिया घृतक्षौद्रगोमयस्वरसद्रुतैः।
तार्क्ष्यगैरिकतालीसैर्निशान्धे हितमञ्जनम्॥८४॥
दघ्ना विघृष्टं मरिचं रात्र्यन्धेऽञ्जनमुत्तमम्।
करञ्जिकोत्पलस्वर्णगैरिकाम्भोजकेसरैः॥८५॥
पिष्टैर्गोमयतोयेन वर्तिदोषान्धनाशिनी।
अजामूत्रेण वा कौन्तीकृष्णास्रोतोजसैन्धवैः॥८६॥
कालानुसारीत्रिकातुत्रिफलालमनःशिलाः।
सफेनाश्छागदुग्धेन रात्र्यन्धे वर्तयो हिताः॥८७॥
सन्निवेश्य यकृन्मध्ये पिप्पलीरदहन्पचेत्।
ताः शुष्का मधुना घृष्टा निशान्धे श्रेष्ठमञ्जनम्॥८८॥
खादेच्च प्लीहयकृती माहिषे तैलसर्पिषा।
घृते सिद्धानि जीवन्त्याः पल्लवानि भक्षयेत्॥८९॥
तथाऽतिमुक्तकैरण्डाशोफाल्यभीरुजानि च।
भृष्टं घृतं कुम्भयोनेः पत्रैः पाने पूजितम्॥९०॥
धूमराख्याम्लपित्तोष्णविदाहे जीर्णसर्पिषा।
स्निग्धं वेरेचयेच्छीतैः शीतोर्दिह्याच्च सर्वतः॥९१॥
गोशकृद्रसदुग्धाज्यैर्विपक्वं शस्यतेऽञ्जनम्।
स्वर्णगैरिकतालीसचूर्णावापा रसक्रिया॥९२॥
मेदाशाबरकानन्तामञ्जिष्ठादार्वियष्टिभिः।
क्षीराष्टांशं घृतं पक्वं सतैलं नावनं हितम्॥९३॥
तर्पणं क्षीरसर्पिः स्यादशाम्यति सिराव्यधः।
चिन्ताभिघातभीशोकरौक्ष्यात् सोत्कटकासनात्॥९४॥
विरेकनस्यवमनपुटपाकादिविभ्रमात्।
विदग्धाहारवमनात् क्षुत्तृष्णादिविधारणात्॥९५॥
अक्षिरोगावसानाच्च पश्येत्तिमिररोगिवत्।
यथास्वं तत्र युञ्जीत दोषादीन् वीक्ष्य भेषजम्॥९६॥
सूर्योपरागानलविद्युदादिविलोकनेनोपहतेक्षणस्य।
सन्तर्पणं स्निग्धहिमादि कार्यं तथाञ्जनं हेम घृतेन घृष्टम्॥९७॥
चक्षूरक्षायां सर्वकालं मनुष्यैर्यत्नः कर्तव्यो जीविते यावदिच्छा।
व्यर्थो लोकोऽयं तुल्यरात्रिंदिवानां पुंसामन्धानां विद्यमानेऽपि वित्ते॥९८॥
त्रिफला रुधिरस्रुतिर्विशुद्धिर्मनसो निर्वृतिरञ्जनं सनस्यम्।
शकुनाशनता सपादपूजा घृतपानं सदैव नेत्ररक्षा॥९९॥
अहितादशनात्सदा निवृत्तिर्भृशभास्वच्चलसूक्ष्मवीक्षणाच्च।
मुनिना निमिनोपदष्टमेतत् परमं रक्षणमीक्षणस्य पुंसाम्॥१००॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्ग हृदयसंहितायां षष्ठे उत्तरस्थाने तिमिरप्रतिषेधो नाम त्रयोदशोऽध्यायः॥१३॥