5.बस्तिव्यापत्सिद्धिरध्यायः
अस्मादनन्तरं बस्तिव्यापत्सिद्धिर्व्याख्यायते||१||
अथातो बस्तिव्यापत्सिद्धिं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|(गद्यसूत्रे)|२|
अस्निग्धस्विन्नदेहस्य गुरुकोष्ठस्य योजितः|
शीतोऽल्पस्नेहलवणद्रव्यमात्रो घनोऽपि वा||१||
बस्तिः सङ्क्षोभ्य तं दोषं दुर्बलत्वादनिर्हरन्|
करोत्ययोगं तेन स्याद्वातमूत्रशकृदग्रहः||२||
नाभिबस्तिरुजा दाहो हृल्लेपः श्वयथुर्गुदे|
कण्डूर्गण्डानि वैवर्ण्यमरतिर्वह्निमार्दवम्||३||
क्वाथद्वयं प्राग्विहितं मध्यदोषेऽतिसारिणि|
उष्णस्य तस्मादेकस्य तत्र पानं प्रशस्यते||४||
फलवर्त्यस्तथा स्वेदाः कालं ज्ञात्वा विरेचनम्|
बिल्वमूलत्रिवृद्दारुयवकोलकुलत्थवान्||५||
सुरादिमूत्रवान् बस्तिः सप्राक्पेष्यस्तमानयेत्||६||
युक्तोऽल्पवीर्यो दोषाढ्ये रूक्षे क्रूराशयेऽथवा||६||
बस्तिर्दोषावृतो रूद्धमार्गो रुन्ध्यात्समीरणम्|
स विमार्गोऽनिलः कुर्यादाध्मानं मर्मपीडनम्||७||
विदाहं गुदकोष्ठस्य मुष्कवङ्क्षणवेदनाम्|
रुणद्धि हृदयं शूलैरितश्चेतश्च धावति||८||
स्वभ्यक्तस्विन्नगात्रस्य तत्र वर्तिं प्रयोजयेत्|
बिल्वादिश्च निरूहः स्यात्पीलुसर्षपमूत्रवान्||९||
सरलामरदारुभ्यां साधितं चानुवासनम्||१०||
कुर्वतो वेगसंरोधं पीडितो वाऽतिमात्रया||१०||
अस्निग्धलवणोष्णो वा बस्तिरल्पोऽल्पभेषजः|
मृदुर्वा मारुतेनोर्ध्वं विक्षिप्तो मुखनासिकात्||११||
निरेति मूर्च्छाहृल्लासतृड्दाहादीन् प्रवर्तयन्|
मूर्च्छाविकारं दृष्ट्वाऽस्य सिञ्चेच्छीताम्बुना मुखम्||१२||
व्येजदाक्लमनाशाच्च प्राणायामं च कारयेत्|
पृष्ठपार्श्वोदरं मृज्यात् करैरुष्णैरधोमुखम्||१३||
केशेषूत्क्षिप्य धुन्वीत भीषयेद्व्यालदंष्ट्रिभिः|
शस्त्रोल्काराजपुरुषैर्बस्तिरेति तथा ह्यधः||१४||
पाणिवस्त्रैर्गलापीडं कुर्यान्न म्रियते तथा|
प्राणोदाननिरोधाद्धि सुप्रसिद्धतरायनः||१५||
अपानः पवनो बस्तिं तमाश्वेवापकर्षति|
कुष्ठक्रमुककल्कं च पायेताम्लसंयुतम्||१६||
ओष्ण्यात्तैक्ष्ण्यात्सरत्वाच्च बस्तिं सोऽस्यानुलोमयेत्
गोमूत्रेण त्रिवृत्पथ्याकल्कं वाऽधोनुलोमनम्||१७||
पक्वाशयस्थिते स्विन्ने निरूहो दाशमूलिकः|
यवकोलकुलत्थैश्च विधेयो मूत्रसाधितैः||१८||
बस्तिर्गोमूत्रसिद्धैर्वा सामृतावंशपल्लवैः|
पूतीकरञ्जत्वक्पत्रशठीदेवाह्वरोहिषैः||१९||
सतैलगुडसिन्धूत्थो विरेकौषधकल्कवान्|
बिल्वादिपञ्चमूलेन सिद्धो बस्तिरुरःस्थिते||२०||
शिरःस्थे नावनं धूमः प्रच्छाद्यं सर्षपैः शिरः||२१||
बस्तिरत्युष्णतीक्ष्णाम्लघनोऽतिस्वेदितस्य वा||२१||
अल्पे दोषे मृदौ कोष्ठे प्रयुक्तो वा पुनःपुनः|
अतियोगत्वमापन्नो भवेत्कुक्षिरुजाकरः||२२||
विरेचनातियोगेन स तुल्याकृतिसाधनः||२३||
बस्तिः क्षाराम्लतीक्ष्णोष्णलवणः पैत्तिकस्य वा||२३||
गुदं दहन् लिखन् क्षिण्वन् करोत्यस्य परिस्रवम्|
स विदग्धं स्रवत्यस्रं वर्णैः पित्तं च भूरिभिः||२४||
बहुशश्चातिवेगेन मोहं गच्छति सोऽसकृत्|
रक्तपित्तातिसारघ्नी क्रिया तत्र प्रशस्यते||२५||
दाहादिषु त्रिवृत्कल्कं मृद्वीकावारिणा पिबेत्|
तद्धि पित्तशकृद्वातान् हृत्वा दाहादिकान् जयेत्||२६||
विशुद्धश्च पिबेच्छीतां यवागूं शर्करायुताम्|
युञ्याद्वाऽतिविरिक्तस्य क्षीणविट्कस्य भोजनम्||२७||
माषयूषेण कुल्माषान् पानं दध्यथवा सुराम्|
सिद्धिर्वस्त्यापदामेवं स्नेहबस्तेस्तु वक्ष्यते||२८||
शीतोऽल्पो वाऽधिके वाते पित्तेऽत्युष्णः कफे मृदुः|
अतिभुक्ते गुरुर्वर्चःसञ्चयेऽल्पबलस्तथा||२९||
दत्तस्तैरावृतः स्नेहो नायात्यभिभवादपि||३०||
स्तम्भोरुसदनाध्मानज्वरशूलाङ्गमर्दनैः||३०||
पार्श्वरुग्वेष्टनैर्विद्याद्वायुना स्नेहमावृतम्|
स्निग्धाम्ललवणोष्णैस्तं रास्नापीतद्रुतैलिकैः||३१||
सौवीरकसुराकोलकुलत्थयवसाधितैः|
निरूहैर्निर्हरेत्सम्यक् समूत्रैः पाञ्चमूलिकैः||३२||
ताभ्यामेव च तैलाभ्यां सायं भुक्तेऽनुवासयेत्||३३||
तृड्दाहरागसम्मोहवैवर्ण्यतमकज्वरैः||३३||
विद्यात्पित्तावृतं स्वादुतिक्तैस्तं बस्तिभिर्हरेत्||३४||
तन्द्राशीतज्वरालस्यप्रसेकारुचिगौरवैः||३४||
सम्मूर्च्छाग्लानिभिर्विद्याच्छ्लेष्मणा स्नेहमावृतम्|
कषायतिक्तकटुकैः सुरामूत्रोपसाधितैः||३५||
फलतैलयुतैः साम्लैर्बस्तिभिस्तं विनिर्हरेत्||३६||
छर्दिमूर्च्छारुचिग्लानिशूलनिद्राङ्गमर्दनैः||३६||
आमलिङ्गैः सदाहैस्तं विद्यादत्यशनावृतम्|
कटूनां लवणानां च क्वाथैश्चूर्णैश्च पाचनम्||३७||
मृदुर्विरेकः सर्वं च तत्रामविहितं हितम्||३८||
विण्मूत्रानिलसङ्गार्तिगुरुत्वाध्मानहृद्ग्रहैः||३८||
स्नेहं विडावृतं ज्ञात्वा स्नेहस्वेदैः सवर्तिभिः|
श्यामाबिल्वादिसिद्धैश्च निरुहैः सानुवासनैः||३९||
निर्हरेद्विधिना सम्यगुदावर्तहरेण च||४०||
अभुक्ते शूनपायौ वा पेयामात्राशितस्य वा||४०||
गुदे प्रणिहितः स्नेहो वेगाद्धावत्यनावृतः|
ऊर्ध्वं कायं ततः कण्ठादूर्ध्वेभ्यः खेभ्य एत्यपि||४१||
मूत्रश्यामात्रिवृत्सिद्धो यवकोलकुलत्थवान्|
तत्सिद्धतैलो देयः स्यान्निरूहः सानुवासनः||४२||
कण्ठादागच्छतः स्तम्भकण्ठग्रहविरेचनैः|
छर्दिघ्नीभिः क्रियाभिश्च तस्य कुर्यान्निबर्हणम्||४३||
नापक्वं प्रणयेत्स्नेहं गुदं स ह्युपलिम्पति|
ततः कुर्यात्सरुङ्मोहकण्डूशोफान्, क्रियाऽत्र च||४४||
तीक्ष्णो बस्तिस्तथा तैलमर्कपत्ररसे शृतम्||४५||
अनुच्छ्वास्य तु बद्धे वा दत्ते निःशेष एव वा||४५||
प्रविश्य क्षुभितो वायुः शूलतोदकरो भवेत्|
तत्राभ्यङ्गो गुदे स्वेदो वातघ्नान्यशनानि च||४६||
द्रुतं प्रणीते निष्कृष्टे सहसोत्क्षिप्त एव वा|
स्यात् कटीगुदजङ्घोरुबस्तिस्तम्भार्तिभेदनम्||४७||
भोजनं तत्र वातघ्नं स्वेदाभ्यङ्गाः सबस्तयः||४८||
पीड्यमानेऽन्तरा मुक्ते गुदे प्रतिहतोऽनिलः||४८||
उरःशिरोरुजं सादमूर्वोश्च जनयेद्बली|
बस्तिः स्यात्तत्र बिल्वादिफलश्यामादिमूत्रवान्||४९||
अतिप्रपीडितः कोष्ठे तिष्ठत्यायाति वा गलम्|
तत्र बस्तिर्विरेकश्च गलपीडादि कर्म च||५०||
वमनाद्यैर्विशुद्धं च क्षामदेहबलानलम्|
यथाऽण्डं तरुणं पूर्णं तैलपात्रं यथा तथा||५१||
भिषक् प्रयत्नतो रक्षेत्सर्वस्मादपचारतः||५२||
दद्यान्मधुरहृद्यानि ततोऽम्ललवणौ रसौ|५२|
स्वादुतिक्तौ ततो भूयः कषायकटुकौ ततः|
अन्योन्यप्रत्यनीकानां रसानां स्निग्धरूक्षयोः|५३|
व्यत्यासादुपयोगेन क्रमात्तं प्रकृतिं नयेत्|
सर्वंसहः स्थिरबलो विज्ञेयः प्रकृतिं गतः|५४|
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां पञ्चमे कल्पसिद्धिस्थाने बस्तिव्यापत्सिद्धिर्नाम पञ्चमोऽध्यायः|५|