4.बस्तिकल्पाध्यायः
अथातो बस्तिकल्पं व्याख़्यास्यामः।
इति स्माहुरात्रेयादयो महर्षयः।
बलां गुडूचीं त्रिफलां सरास्नां द्विपञ्चमूलं पलोन्मितानि।
अष्टौ फलान्यर्धतुलां मांसाच्छागात्पचेदप्सु चतुर्थशेषम्॥१॥
पूतो यवानीफलबिल्वकुष्ठवचाशताह्वाग़नपिप्पलीनाम्।
कल्कैर्गुडक्षौद्रग़ृतैः सतैलैर्युक्तः सुख़ोष्णो लवणान्वितश्च॥२॥
बस्तिः परं सर्वगदप्रमाथी स्वस्थे हितो जीवनबृंहणश्च।
बस्तौ यस्मिन् पठितो कल्कः सर्वत्र दद्यादमुमेव तत्र॥३॥
द्विपञ्चमूलस्य रसोऽम्लयुक्तः सच्छागमांसस्य सपूर्वपेष्यः।
त्रिस्नेहयुक्तः प्रवरो निरूहः सर्वानिलव्याधिहरः प्रदिष्टः॥४॥
बलापटोलीलघुपञ्चमूलत्रायन्तिकैरण्ड यवात्सुसिद्धात्।
प्रस्थो रसाच्छागरसार्धयुक्तः साध्यः पुनः प्रस्थसमः यावत्॥५॥
प्रियङ्गुकृष्णाघनकल्कयुक्तः सतैलसर्पिर्मधुसैन्धवश्च।
स्याद्दीपनो मांसबलप्रदश्च चक्षुर्बलं चोपदधाति सद्यः॥६॥
एरण्डमूलात्त्रिपलं पलाशा त्तथा पलांशं लघुपञ्चमूलम्।
रास्नाबलाछिन्नरुहाश्वगन्धापुनर्नवारग्वधदेवदारु॥७॥
फलानि चाष्टौ सलिलाढकाभ्यां विपाचयेदष्टमशेषितेऽस्मिन्।
वचाशताह्वाहपुषाप्रियङ्गुयष्टीकणावत्सकबीजमुस्तम्॥८॥
दद्यात्सुपिष्टं सहतार्क्ष्यशैलमक्षप्रमाणं लवणांशयुक्तम्।
समाक्षिकस्तैलयुतः समूत्रो बस्तिर्जयेल्लेखनदीपनोऽसौ॥९॥
जङ्घोरुपादत्रिकपृष्ठकोष्ठहृद्गुह्यशूलं गुरुतां विबन्धम्।
गुल्माश्मवर्ध्मग्रहणीगुदोत्थांस्तास्तांश्च रोगान् कफवातजातान्॥१०॥
यष्ट्याह्वरोध्राभयचन्दनैश्च शृतं पयोऽग्र्यं कमलोत्पलैश्च।
सशर्कराक्षौद्रघृतं सुशीतं पित्तामयान् हन्ति सजीवनीयम्॥११॥
रास्नां वृषं लोहितिकामनन्तां बलां कनीयस्तृणपञ्चमूल्यौ।
गोपाङ्गनाचन्दनपद्मकर्द्धियष्ट्याह्वरोध्राणि पलार्धकानि॥१२॥
निःक्वाथ्य तोयेन रसेन तेन शृतं पयोऽर्धाढकमम्बुहीनम्।
जीवन्तिमेदर्ध्दिवरीविदारीवीराद्विकाकोलिकसेरुकाभिः॥१३॥
सितोपलाजीवकपद्मरेणुप्रपौण्डरीकोत्पलपुण्डरीकैः।
रोध्रात्मगुप्तामधुयष्टिकाभिर्नागाह्वमुञ्जातकचन्दनैश्च॥१४॥
पिष्टैर्घृतक्षौद्रयुतैर्निरूहं ससैन्धवं शीतलमेव दद्यात्।
प्रत्यागते धन्वरसेन शालीन् क्षीरेण वाऽद्यात्परिषिक्तगात्रः॥१५॥
दाहातिसारप्रदरास्रपित्तहृत्पाण्डुरोगान् विषमज्वरं च।
सगुल्ममूत्रग्रहकामलादीन् सर्वामयान् पित्तकृतान्निहन्ति॥१६॥
कोशातकारग्वधदेवदारुमूर्वाश्वदंष्ट्राकुटजार्कपाठाः।
पक्त्वा कुलत्थान् बृहतीं तोये रसस्य तस्य प्रसृता दश स्युः॥१७॥
तान् सर्षपैलामदनैः सकुष्ठैरक्षप्रमाणैः प्रसृतैश्च युक्तान्।
क्षौद्रस्य तैलस्य फलाह्वयस्य क्षारस्य तैलस्य सार्षपस्य॥१८॥
दद्यान्निरूहं कफरोगिताय मन्दाग्नये चाशनविद्विषे च।
वक्ष्ये मृदून् स्नेहकृतो निरूहान् सुख़ोचितानां प्रसृतैः पृथक् तु॥१९॥
अथेमान् सुकुमाराणां निरूहान् स्नेहनान् मृदून्।
कर्मणा विप्लुतानां वक्ष्यामि प्रसृतैः पृथक्॥२०॥
क्षीराद् द्वौ प्रसृतौ कार्यौ मधुतैलघृतात्त्रयः।
खजेन मथितो बस्तिर्वातघ्नो बलवर्णकृत्॥२१॥
एकैकः प्रसृतस्तैलप्रसन्नाक्षौद्रसर्पिषाम्।
बिल्वादिमूलक्वाथाद्द्वौ कौलत्थाद्द्वौ वातजित्॥२२॥
पटोलनिम्बभूतीकरास्नासप्तच्छदाम्भसः।
प्रसृतः पृथगाज्याच्च बस्तिः सर्षपकल्कवान्॥२३॥
पञ्चतिक्तोऽभिष्यन्दकृमिकुष्ठप्रमेहहा।
चत्वारस्तैलगोमूत्रदधिमण्डाम्लकाञ्जिकात्॥२४॥
प्रसृताः सर्षपैः पिष्टैर्विट्सङ्गानाहभेदनः।
पयस्येक्षुस्थिरारास्नाविदारीक्षौद्रसर्पिषाम्॥२५॥
एकैकः प्रसृतो बस्तिः कृष्णाकल्को वृषत्वकृत्।
सिद्धबस्तीनतो वक्ष्ये सर्वदा यान् प्रयोजयेत्॥२६॥
निर्व्यापदो बहुफलान् बलपुष्टिकरान् सुखान्।
मधुतैले समे कर्षः सैन्धवाद्द्विपिचुर्मिसिः॥२७॥
एरण्डमूलक्वाथेन निरूहो माधुतैलिकः।
रसायनं प्रमेहार्शःकृमिगुल्मान्त्रवृद्धिनुत्॥२८॥
सयष्टिमधुकश्चैष चक्षुष्यो रक्तपित्तजित्।
यापनो घनकल्केन मधुतैलरसाज्यवान्॥२९॥
पायुजानूरुवृषणबस्तिमेहनशूलजित्।
प्रसृतांशैर्घृतक्षौद्रवसातैलैः प्रकल्पयेत्॥३०॥
यापनं सैन्धवार्धाक्षहपुषार्धपलान्वितम्।
एरण्डमूलनिःक्वाथो मधुतैलं ससैन्धवम्॥३१॥
एष युक्तरथो बस्तिः सवचापिप्पलीफलः।
क्वाथो मधुषड्ग्रन्थाशताह्वाहिङ्गुसैन्धवम्॥३२॥
सुरदारु रास्ना बस्तिर्दोषहरः शिवः।
पञ्चमूलस्य निःक्वाथस्तैलं मागधिका मधु॥३३॥
ससैन्धवः समधुकः सिद्धबस्तिरिति स्मृतः।
द्विपञ्चमूलत्रिफलाफलबिल्वानि पाचयेत्॥३४॥
गोमूत्रे, तेन पिष्टैश्च पाठावत्सकतोयदैः।
सफलैः क्षौद्रतैलाभ्यां क्षारेण लवणेन च॥३५॥
युक्तो बस्तिः कफव्याधिपाण्डुरोगविषूचिषु।
शुक्रानिलविबन्धेषु बस्त्याटोपे पूजितः॥३६॥
मुस्तापाठामृतैरण्डबलारास्नापुनर्नवाः।
मञ्जिष्ठारग्वधोशीरत्रायमाणाक्षरोहिणीः॥३७॥
कनीयः पञ्चमूलं पालिकं, मदनाष्टकम्।
जलाढके पचेत्तच्च पादशेषं परिस्रुतम्॥३८॥
क्षीरद्विप्रस्थसंयुक्तं क्षीरशेषं पुनः पचेत्।
सपादजाङ्गलरसः ससर्पिर्मधुसैन्धवः॥३९॥
पिष्टैर्यष्टिमिसिश्यामाकलिङ्गकरसाञ्जनैः।
बस्तिः सुखोष्णो मांसाग्निबलशुक्रविवर्द्धनः॥४०॥
वातासृङ्मोहमेहार्शोगुल्मविण्मूत्रसङ्ग्रहान्।
विषमज्वरवीसर्पवर्ध्माध्मानप्रवाहिकाः॥४१॥
वङ्क्षणोरुकटीकुक्षिमन्याश्रोत्रशिरोरुजः।
हन्यादसृग्दरोन्मादशोफकासाश्मकुण्डलान्॥४२॥
चक्षुष्यः पुत्रदो राजा यापनानां रसायनम्।
मृगाणां लघुवद्रा(ड्रा)णां दशमूलस्य चाम्भसा॥४३॥
हपुषामिसिगाङ्गेयीकल्कैर्वातहरः परम्।
निरुहोऽत्यर्थवृष्यश्च महास्नेहसमन्वितः॥४४॥
मयूरं पक्षपित्तान्त्रपादविट्तुण्डवर्जितम्।
लग़ुना पञ्चमूलेन पालिकेन समन्वितम्॥४५॥
पक्त्वा क्षीरजले क्षीरशेषं सग़ृतमाक्षिकम्।
तद्विदारीकणायष्टिशताह्वाफलकल्कवत्॥४६॥
बस्तिरीषत्पटुयुतः परमं बलशुक्रकृत्।
कल्पनेयं पृथक् कार्या तित्तिरिप्रभृतिष्वपि॥४७॥
विष्किरेषु समस्तेषु प्रतुदप्रसहेषु च।
जलचारिषु तद्वच्च मत्स्येषु क्षीरवर्जिता॥४८॥
गोधानकुलमार्जारशल्यकोन्दुरजं पलम्।
पृथक् दशपलं क्षीरे पञ्चमूलं साधयेत्॥४९॥
तत्पयः फलवैदेहीकल्कद्विलवणान्वितम्।
ससितातैलमध्वाज्यो बस्तिर्योज्यो रसायनम्॥५०॥
व्यायाममथितोरस्कक्षीणेन्द्रियबलौजसाम्।
विबद्धशुक्रविण्मूत्रखुडवातविकारिणाम्॥५१॥
गजवाजिरथक्षोभभग्नजर्जरितात्मनाम्।
पुनर्नवत्वं कुरुते वाजीकरणमुत्तमम्॥५२॥
सिद्धेन पयसा भोज्यमात्मगुप्तोच्चटेक्षुरैः।
स्नेहांश्चायन्त्रणान् सिद्धान् सिद्धद्रव्यैः प्रकल्पयेत्॥५३॥
दोषघ्नाः सपरीहारा वक्ष्यन्ते स्नेहबस्तयः।
दशमूलं बलां रास्नामश्वगन्धां पुनर्नवाम्॥५४॥
गुडुच्यैरण्डबूतीकभार्गीवृषकरोहिषम्।
शतावरीं सहचरं काकनासां पलांशकम्॥५५॥
यवमाषातसीकोलकुलत्थान् प्रसृतोन्मितान्।
वहे विपाच्य तोयस्य द्रोणशेषेण तेन च॥५६॥
पचेत्तैलाढकं पेष्यैर्जीवनीयैः पलोन्मितैः।
अनुवासनमित्येतत्सर्ववातविकारनुत्॥५७॥
आनूपानां वसा तद्वज्जीवनीयोपसाधिता।
शताह्वाचिरिबिल्वाम्लैस्तैलं सिद्धं समीरणे॥५८॥
सैन्धवेनाग्निवर्णेन तप्तं चानिलजिद् घृतम्।
जीवन्तीं मदनं मेदां श्रावणीं मधुकं बलाम्॥५९॥
शताह्वर्षभकौ कृष्णां काकनासां शतावरीम्।
स्वगुप्तां क्षीरकाकोलीं कर्कटाख्यां शठीं वचाम्॥६०॥
पिष्ट्वा तैलघृतं क्षीरे साधयेत्तच्चतुर्गुणे।
बृंहणं वातपित्तघ्नं बलशुक्राग्निवर्धनम्॥६१॥
रजःशुक्रामयहरं पुत्रीयं चानुवासनम्।
सैन्धवं मदनं कुष्ठं शताह्वा निचुलो वचा॥६२॥
ह्रीबेरं मधुकं भार्ङ्गी देवदारु सकट्फलम्।
नागरं पुष्करं मेदा चविका चित्रकः शठी॥६३॥
विडङ्गातिविषे श्यामा हरेणुर्नीलिनी स्थिरा।
बिल्वाजमोदचपला दन्ती रास्ना तैः समैः॥६४॥
साध्यमेरण्डतैलं वा तैलं वा कफरोगनुत्।
वर्ध्मोदावर्तगुल्मार्शःप्लीहमेहाढ्यमारुतान्॥६५॥
आनाहमश्मरीं चाशु हन्यात्तदनुवासनम्।
साधितं पञ्चमूलेन तैलं बिल्वादिनाऽथवा॥६६॥
कफघ्नं कल्पयेत्तैलं द्रव्यैर्वा कफघातिभिः।
फलैरष्टगुणैश्चाम्लैः सिद्धमन्वासनं कफे॥६७॥
मृदुबस्तिजडीभूते तीक्ष्णोऽन्यो बस्तिरिष्यते।
तीक्ष्णैर्विकर्षिते स्निग्धो मधुरः शिशिरो मृदुः॥६८॥
तीक्ष्णत्वं मूत्रपील्वग्निलवणक्षारसर्षपैः।
प्राप्तकालं विधातव्यं क्षीराज्याद्यैस्तु मार्दवम्॥६९॥
बलकालरोगदोषप्रकृतीः प्रविभज्य योजितो बस्तिः।
स्वैः स्वैरौषधवर्गैः स्वान् स्वान् रोगान्निवर्तयति॥७०॥
उष्णार्तानां शीताञ्छीतार्तानां तथा सुखोष्णांश्च।
तद्योग्यौषधयुक्तान् बस्तीन् संतर्क्य युञ्जीत॥७१॥
बस्तीन्न बृंहणीयान् दद्याद्व्याधिषु विशोधनीयेषु।
मेदस्विनो विशोध्या ये नराः कुष्ठमेहार्ताः॥७२॥
क्षीणक्षतदुर्बलमूर्च्छितकृशशुष्कशुद्धदेहानाम्।
दद्याद्विशोधनीयान् दोषनिबद्धायुषो ये च॥७३॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्ग हृदयसंहितायां पञ्चमे कल्पसिद्धिस्थान बस्तिकल्पो नाम चतुर्थोऽध्यायः॥४॥