6.द्रव्यकल्पाध्यायः
अथातो द्रव्यकल्पं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|(गद्यसूत्रे)|२|
धन्वे साधारणे देशे समे सन्मृत्तिके शुचौ|
श्मशानचैत्यायतनश्वभ्रवल्मीकवर्जिते|१|
मृदौ प्रदक्षिणजले कुशरोहिषसंस्तृते|
अफालकृष्टेऽनाक्रान्ते पादपैर्बलवत्तरैः||२||
शस्यते भेषजं जातं, युक्तं वर्णरसादिभिः|
जन्त्वजग्धं दवादग्धमविदग्धं च वैकृतैः||३||
भूतैश्छायायातपाम्ब्वाद्यैर्यथाकालं च सेवितम्|
अवगाढमहामूलमुदीचीं दिशमाश्रितम्||४||
महेन्द्ररामकृष्णानां ब्राह्मणानां गवामपि|
तपसा तेजसा वाऽपि प्रशाम्यध्वं शिवाय वै||१||
मन्त्रेणानेन मतिमान् सर्वमप्यौषधं नयेत्|
अथ कल्याणचरितः श्राद्धः शुचिरुपोषितः|
गृह्णीयादौषधं सुस्थं स्थितं काले च कल्पयेत्||५||
सक्षीरं तदसम्पत्तावनतिक्रान्तवत्सरम्|
ऋते गुडघृतक्षौद्रधान्यकृष्णाविडङ्गतः||६||
पयो बाष्कयणं ग्राह्यं विण्मूत्रं तच्च नीरुजाम्|
वयोबलवतां धातुपिच्छशृङ्गखुरादिकम्||७||
कषाययोनयः पञ्च रसा लवणवर्जिताः|
रसः कल्कः शृतः शीतः फाण्टश्चेति प्रकल्पना||८||
पञ्चधैव कषायाणां पूर्वं पुर्वं बलाधिका||९||
सद्यःसमुद्धृतात् क्षुण्णाद्यः स्रवेत्पटपीडितात्||९||
स्वरसः स समुद्दिष्टः कल्कः पिष्टो द्रवाप्लुतः|
चूर्णोऽप्लुतः शृतः क्वाथः शीतो रात्रिं द्रवे स्थितः||१०||
सद्योऽभिषुतपूतस्तु फाण्टः तन्मानकल्पने|
युञ्ज्याद्व्याध्यादिबलतस्तथा च वचनं मुनेः||११||
मात्राया न व्यवस्थाऽस्ति व्याधिं कोष्ठं बलं वयः|
आलोच्य देशकालौ च योज्या तद्वच्च कल्पना||१२||
मध्यं तु मानं निर्दिष्टं स्वरसस्य चतुष्पलम्||१३||
पेष्यस्य कर्षमालोड्यं तद् द्रवस्य पलत्रये||१३||
क्वाथं द्रव्यपले कुर्यात्प्रस्थार्धं पादशेषितम्||१४||
शीतं पले पलैः षड्भिः चतुर्भिस्तु ततोऽपरम्||१४||
स्नेहपाके त्वमानोक्तौ चतुर्गुणविवर्धितम्|
कल्कस्नेहद्रवं योज्यम् अधीते शौनकः पुनः||१५||
स्नेहेसिध्द्यति शुद्धाम्बुनिःक्वाथस्वरसैः क्रमात्|
कल्कस्य योजयेदंशं चतुर्थं षष्ठमष्टमम्||१६||
पृथक् स्नेहसमं दद्यात्पञ्चप्रभृति तु द्रवम्||१७||
नाङ्गुलिग्राहिता कल्के न स्नेहेऽग्नौ सशब्दता||१७||
वर्णादिसम्पच्च यदा तदैनं शीघ्रमाहरेत्|
घृतस्य फेनोपशमस्तैलस्य तु तदुद्भवः||१८||
लेहस्य तन्तुमत्ताऽप्सु मज्जनं सरणं न च||१९||
पाकस्तु त्रिविधो मन्दश्चिक्कणः खरचिक्कणः||१९||
मन्दः कल्कसमे किट्टे चिक्कणो मदनोपमे|
किञ्चित्सीदति कृष्णे च वर्त्य(र्ति)माने च पश्चिमः||२०||
दग्धोऽत ऊर्ध्वं निष्कार्यः स्यादामस्त्वग्निसादकृत्||२१||
मृदुर्नस्ये, खरोऽभ्यङ्गे, पाने बस्तौ च चिक्कणः||२१||
अधुना मानसङ्ख्यायाः यथास्वं संज्ञासंविधानार्थमाह
शाणं पाणितलं मुष्टिं कुडवं प्रस्थमाढकम्|
द्रोणं वहं च क्रमशो विजानीयाच्चतुर्गुणम्||२२||
द्विगुणं योजयेदार्द्रं कुडवादि तथा द्रवम्||२३||
पेषणालोडने वारि स्नेहपाके च निर्द्रवे||२३||
कल्पयेत्सदृशान् भागान् प्रमाणं यत्र नोदितम्|
कल्कीकुर्याच्च भैषज्यमनिरूपितकल्पनम्||२४||
अङ्गानुक्तौ तु मूलं स्यादप्रसिद्धौ तदेव तु||२५||
षड्वंश्यस्तु मरीची स्यात्, षण्मरीच्यस्तु सर्षपः|
तण्डुलः सर्षपास्त्वष्टौ, धान्यमाषस्तु तौ, यवः||१||
तावण्डिका चतुर्भिस्तैर्माषकः शाणकस्तथा|
द्वौ शाणौ वटकः कोलं बदरं द्रंक्षणश्च, तौ||२५||
अक्षम् पिचुः पाणितलं सुवर्णं कवलग्रहः|
कर्षो बिडालपदकं तिन्दुकः पाणिमानिका||२६||
शब्दान्यत्वमभिन्नेऽर्थे शुक्तिरष्टमिका पिचू|
पलं प्रकुञ्चो बिल्वं च मुष्टिराम्रं चतुर्थिका||२७||
द्वे पले प्रसृतस्तौ द्वावञ्जलिस्तौ तु मानिका|
आढकं भाजनं कंसो, द्रोणः कुम्भो घटोऽर्मणम्||२८||
तुला पलशतं, तानि विंशतिर्भार उच्यते||२९|
हिमवद्विन्ध्यशैलाभ्यां प्रायो व्याप्ता वसुन्धरा|२९|
सौम्यं पथ्यं च तत्राद्यमाग्नेयं वैन्ध्यमौषधम्|२९ १/२|
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां पञ्चमे कल्पसिद्धिस्थाने द्रव्यकल्पो नाम षष्ठोऽध्यायः|६|