3.वमनविरेचनव्यापत्सिद्धिरध्यायः
अथातो वमनविरेचनव्यापत्सिद्धिं व्याख्यास्यामः|
इति ह स्माहुरात्रेदयो महर्षयः|(गद्यसूत्रे)|२|
वमनं मृदुकोष्ठेन क्षुद्वताऽल्पकफेन वा|
अतितीक्ष्णहिमस्तोकमजीर्णे दुर्बलेन वा||१||
पीतं प्रयात्यधस्तस्मिन्निष्टहानिर्मलोदयः|
वामयेत्तं पुनः स्निग्धं स्मरन् पूर्वमतिक्रमम्||२||
अजीर्णिनः श्लेष्मवतो व्रजत्यूर्ध्वं विरेचनम्|
अतितीक्ष्णोष्णलवणमहृद्यमतिभूरि वा||३||
तत्र पूर्वोदिता व्यापत्सिद्धिश्च, न तथाऽपि चेत्|
आशये तिष्ठति ततस्तृतीयं नावचारयेत्||४||
अन्यत्र सात्म्याद्धृद्याद्वा भेषजान्निरपायतः||५||
अस्निग्धस्विन्नदेहस्य पुराणं रूक्षमौषधम्||५||
दोषानुत्क्लेश्य निर्हर्तुमशक्तं जनयेद्गदान्|
विभ्रंशं श्वयथुं हिध्मां तमसो दर्शनं तृषम्||६||
पिण्डीकोद्वेष्टनं कण्डूमूर्वोः सादं विवर्णताम्|
स्निग्धस्विन्नस्य वाऽत्यल्पं दीप्ताग्नेर्जीर्णमौषधम्||७||
शीतैर्वा स्तब्धमामे वा समुत्क्लेश्याहरन्मलान्|
तानेव जनयेद्रोगानयोगः सर्व एव सः||८||
तं तैललवणाभ्यक्तं स्विन्नं प्रस्तरसङ्करैः|
निरूढं जाङ्गलरसैर्भोजयित्वाऽनुवासयेत्||९||
फलमागधिकादारुसिद्धतैलेन मात्रया|
स्निग्धं वातहरैः स्नेहैः पुनस्तीक्ष्णेन शोधयेत्||१०||
बहुदोषस्य रूक्षस्य मन्दाग्नेरल्पमौषधम्|
सोदावर्तस्य चोत्क्लेश्य दोषान् मार्गान् निरुध्य तैः||११||
भृशमाध्मापयेन्नाभिं पृष्ठपार्श्वशिरोरुजम्|
श्वासं विण्मूत्रवातनां सङ्गं कुर्याच्च दारुणम्||१२||
अभ्यङ्गस्वेदवर्त्यादि सनिरूहानुवासनम्|
उदावर्तहरं सर्वं कर्माध्मातस्य शस्यते||१३||
पञ्चमूलयवक्षारवचाभूतिकसैन्धवैः|
यवागूः सुकृता शूलविबन्धानाहनाशनी||१४||
पिपलीदाडिमक्षारहिङ्गुशुण्ठ्यम्लवेतसान्|
ससैन्धवान् पिबेन्मद्यैः सर्पिषोष्णोदकेन वा||१५||
प्रवाहिकापरिस्राववेदनापरिकर्तने||१६||
पीतौषधस्य वेगानां निग्रहान्मारुतादयः||१६||
कुपिता हृदयं गत्वा घोरं कुर्वन्ति हृद्ग्रहम्|
हिध्मापार्श्वरुजाकासदैन्यलालाक्षिविभ्रमैः||१७||
जिह्वां खादति निःसंज्ञो दन्तान् कटकटाययन्|
न गच्छेद्विभ्रमं तत्र वामयेदाशु तं भिषक्||१८||
मधुरैः पित्तमूर्च्छार्तं कटुभिः कफमूर्च्छितम्|
पाचनीयैस्ततश्वास्य दोषशेषं विपाचयेत्||१९||
कायाग्निं च बलं चास्य क्रमेणाभिप्रवर्धयेत्||२०|
पवनेनातिवमतो हृदयं यस्य पीड्यते||२०||
तस्मै स्निग्धाम्ललवणान् दद्यात्पित्तकफेऽन्यथा||२१||
पीतौषधस्य वेगानां निग्रहेण कफेन वा||२१||
रुद्धोऽति वा विशुद्धस्य गृह्णात्यङ्गानि मारुतः|
स्तम्भवेपथुनिस्तोदसादोद्वेष्टार्तिभेदनैः||२२||
तत्र वातहरं सर्वं स्नेहस्वेदादि शस्यते||२३||
बहुतीक्ष्णं क्षुधार्तस्य मृदुकोष्ठस्य भेषजम्||२३||
हृत्वाऽऽशु विट्पित्तकफान् धातूनास्रावयेद्द्रवान्|
तत्रातियोगे मधुरैः शेषमौषधमुल्लिखेत्||२४||
योज्योऽति वमने रेको विरेके वमनं मृदु|
परिषेकावगाहाद्यैः सुशीतैः स्तम्भयेच्च तम्||२५||
अञ्जनं चन्दनोशीरमजासृक्शर्करोदकम्|
लाजचूर्णैः पिबेन्मन्थमतियोगहरं परम्||२६||
वमनस्यातियोगे तु शीताम्बुपरिषेचितः|
पिबेत्फलरसैर्मन्थं सघृतक्षौद्रशर्करम्||२७||
सोद्गारायां भृशं छर्द्यां मूर्वाया धान्यमुस्तयोः|
समधूकाञ्जनं चूर्णं लेहयेन्मधुसंयुतम्||२८||
वमतोऽन्तः प्रविष्टायां जिह्वायां कवलग्रहाः|
स्निग्धाम्ललवणा हृद्या यूषमांसरसा हिताः||२९||
फलान्यम्लानि खादेयुस्तस्य चान्येऽग्रतो नराः|
निःसृतां तु तिलद्राक्षाकल्कलिप्तां प्रवेशयेत्||३०||
वाग्ग्रहानिलरोगेषु घृतमांसोपसाधिताम्|
यवागूं तनुकां दद्यात्स्नेहस्वेदौ च कालवित्||३१||
अतियोगाच्च भैषज्यं जीवं हरति शोणितम्|
तज्जीवादानमित्युक्तमादत्ते जीवितं यतः||३२||
शुने काकाय वा दद्यात्तेनान्नमसृजा सह|
भुक्तेऽभुक्ते वदेज्जीवं पित्तं वा भेषजेरितम्||३३||
शुक्लं वा भावितं वस्त्रमावानं कोष्णवारिणा|
प्रक्षालितं विवर्णं स्यात्पित्ते शुद्धं तु शोणिते||३४||
तृष्णामूर्च्छामदार्तस्य कुर्यादामरणात्क्रियाम्|
रक्तपित्तातिसारघ्नीं तस्याशु प्राणरक्षणीम्||३५||
मृगगोमहिषाजानां सद्यस्कं जीवतामसृक्|
पिबेज्जीवाभिसन्धानं जीवं तद्ध्याशु गच्छति||३६||
तदेव दर्भमृदितं रक्तं बस्तौ निषेचयेत्|
श्यामाकाश्मर्यमधुकदूर्वोशीरैः शृतं पयः||३७||
घृतमण्डाञ्जनयुतं बस्तिं वा योजयेद्धिमम्|
पिच्छाबस्तिं सुशीतं वा घृतमण्डानुवासनम्||३८||
अस्यामप्यतियोगोद्भवायामवस्थायां गुदभ्रंशः सम्भाव्यत इत्याह
गुदं भ्रष्टं कषायैश्च स्तम्भयित्वा प्रवेशयेत्||३९||
विसंज्ञं श्रावयेत्सामवेणुगीतादिनिस्वनम्|३९|
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता
यामष्टाङ्गहृदयसंहितायां पञ्चमे कल्पसिद्धि
स्थाने वमनविरेचनव्यापत्सिद्धिर्नाम
तृतीयोऽध्यायः|३|