2.विरेचनकल्पाध्यायः
अथातो विरेचनकल्पं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे)||२||
अथ त्रिवृच्छ्यामयोः कल्पः|
कषायमधुरा रूक्षा विपाके कटुका त्रिवृत्|
कफपित्तप्रशमनी रौक्ष्याच्चानिलकोपनी||१||
सेदानीमौषधैर्युक्ता वातपित्तकफापहैः|
कल्पवैशेष्यमासाद्य जायते सर्वरोगजित्||२||
द्विधा ख्यातं च तन्मूलं श्यामं श्यामाऽरुणं त्रिवृत्||३||
त्रिवृदाख्यं वरतरं निरपायं सुखं तयोः||३||
सुकुमारे शिशौ वृद्धे मृदुकोष्ठे च तद्धितम्||४|
सापायत्वे विशेषेण हेतुमाह|
मूर्च्छासम्मोहहृत्कण्ठकषणक्षणनप्रदम्||४||
श्यामं तीक्ष्णाशुकारित्वादतस्तदपि शस्यते|
क्रूरे कोष्ठे बहौ दोषे क्लेशक्षमिणि चातुरे||५||
गम्भीरानुगतं श्लक्ष्णमतिर्यग्विसृतं च यत्|
गृहीत्वा विसृजेत्काष्ठं त्वचं शुष्कां निधापयेत्||६||
अथ काले ततश्चूर्णं किञ्चिन्नागरसैन्धवम्|
वातामये पिबेदम्लैः पैत्ते साज्यसितामधु||७||
क्षीरद्राक्षेक्षुकाश्मर्यस्वादुस्कन्धवरारसैः||८||
कफामये पीलुरसमूत्रमद्याम्लकाञ्जिकैः||८||
पञ्चकोलादिचूर्णैश्च युक्त्या युक्तं कफापहैः||९||
त्रिवृत्कल्ककषायाभ्यां साधितः ससितो हिमः||९||
मधुत्रिजातसंयुक्तो लेहो हृद्यं विरेचनम्||१०||
अजगन्धा तवक्षीरी विदारी शर्करा त्रिवृत्||१०||
चूर्णितं मधुसर्पिर्भ्यां लीढ्वा साधु विरिच्यते|
सन्निपातज्वरस्तम्भपिपासादाहपीडितः||११||
लिम्पेदन्तस्त्रिवृतया द्विधाकृत्वेक्षुगण्डिकाम्|
एकीकृत्य च तत्स्विन्नं पुटपाकेन भक्षयेत्||१२||
भृङ्गैलाभ्यां समा नीली तैस्त्रिवृत्तैश्च शर्करा|
चूर्णं फलरसक्षौद्रसक्तुभिस्तर्पणं पिबेत्||१३||
वातपित्तकफोत्थेषु रोगेष्वल्पानलेषु च|
नरेषु सुकुमारेषु निरपायं विरेचनम्||१४||
विडङ्गतण्डुलवरायावशूककणास्त्रिवृत्|
सर्वतोऽर्धेन तल्लीढं मध्वाज्येन गुडेन वा||१५||
गुल्मं प्लीहोदरं कासं हलीमकमरोचकम्|
कफवातकृतांश्चान्यान् परिमार्ष्टि गदान् बहून्||१६||
विडङ्गपिप्पलीमूलत्रिफलाधान्यचित्रकान्|
मरीचेन्द्रयवाजाजीपिप्पलीहस्तिपिप्पलीः||१७||
दीप्यकं पञ्चलवणं चूर्णितं कार्षिकं पृथक्|
तिलतैलत्रिवृच्चूर्णभागौ चाष्टपलोन्मितौ||१८||
धात्रीफलरसप्रस्थांस्त्रीन् गुडार्धतुलान्वितान्|
पक्त्वा मृद्वग्निना खादेत्ततो मात्रामयन्त्रणः||१९||
कुष्ठार्शःकामलागुल्ममेहोदरभगन्दरान्|
ग्रहणीपाण्डुरोगांश्च हन्ति पुंसवनश्च सः||२०||
गुडः कल्याणको नाम सर्वेष्वृतुषु यौगिकः||२१||
व्योषत्रिजातकाम्भोदकृमिघ्नामलकैस्त्रिवृत्||२१||
सर्वैः समा समसिता क्षौद्रेण गुटिकाः कृताः|
मूत्रकृच्छ्रज्वरच्छर्दिकासशोषभ्रमक्षये||२२||
तापे पाण्ड्वामयेऽल्पेऽग्नौ शस्ताः सर्वविषेषु च|
अविपत्तिरयं योगः प्रशस्तः पित्तरोगिणाम्||२३||
त्रिवृता कौटजं बीजं पिप्पली विश्वभेषजम्|
क्षौद्रद्राक्षारसोपेतं वर्षाकाले विरेचनम्||२४||
त्रिवृद्दुरालभामुस्तशर्करोदीच्यचन्दनम्|
द्राक्षाम्बुना सयष्ट्याह्वसातलं जलदात्यये||२५||
त्रिवृतां चित्रकं पाठामजाजीं सरलं वचाम्|
स्वर्णक्षीरीं च हेमन्ते चूर्णमुष्णाम्बुना पिबेत्||२६||
त्रिवृता शर्करातुल्या ग्रीष्मकाले विरेचनम्||२७||
त्रिवृत्त्रायन्तिहपुषासातलाकटुरोहिणीः||२७||
स्वर्णक्षीरीं च सञ्चूर्ण्य गोमूत्रे भावयेत्त्र्यहम्|
एष सर्वर्तुको योगः स्निग्धानां मलदोषहृत्||२८||
श्यामात्रिवृद्दुरालम्भाहस्तिपिप्पलिवत्सकम्|
नीलिनीकटुकामुस्ताश्रेष्ठायुक्तं सुचूर्णितम्||२९||
रसाज्योष्णाम्बुभिः शस्तं रूक्षाणामपि सर्वदा||३०|
इति त्रिवृच्छ्यामयोः कल्पः||१||
अथ राजवृक्षकल्पः||
ज्वरहृद्रोगवातासृगुदावर्तादिरोगिषु||३०||
राजवृक्षोऽधिकं पथ्यो मृदुर्मधुरशीतलः||३१||
बाले वृद्धे क्षते क्षीणे सुकुमारे च मानवे||३१||
योज्यो मृद्वनपायित्वाद्विशेषाच्चतुरङ्गुलः||३२||
फलकाले परिणतं फलं तस्य समाहरेत्||३२||
तेषां गुणवतां भारं सिकतासु विनिक्षिपेत्|
सप्तरात्रात्समुद्धृत्य शोषयेदातपे ततः||३३||
ततो मज्जानमुद्धृत्य शुचौ पात्रे निधापयेत्||३४||
द्राक्षारसेन तं दद्याद्दाहोदावर्तपीडिते||३४||
चतुर्वर्षे सुखं बाले यावद्द्वादशवार्षिके||३५||
चतुरङ्गुलमज्ज्ञो वा कषायं पाययेद्धिमम्||३५||
दधिमण्डसुरामण्डधात्रीफलरसैः पृथक्|
सौवीरकेण वा युक्तम् कल्केन त्रैवृतेन वा||३६||
दन्तीकषाये तन्मज्ज्ञो गुडं जीर्णं च निक्षिपेत्|
तमरिष्टं स्थितं मासं पाययेत् पक्षमेव वा||३७||
इति राजवृक्षकल्पः||२||
अथ तिल्वककल्पः|
त्वचं तिल्वकमूलस्य त्यक्त्वाऽऽभ्यन्तरवल्कलम्|
विशोष्य चूर्णयित्वा च द्वौ भागौ गालयेत्ततः||३८||
रोध्रस्यैव कषायेण तृतीयं तेन भावयेत्|
कषाये दशमूलस्य तं भागं भावितं पुनः||३९||
शुष्कं चूर्णं पुनः कृत्वा ततः पाणितलं पिबेत्|
मस्तुमूत्रसुरामण्डकोलधात्रीफलाम्बुभिः||४०||
तिल्वकस्य कषायेण कल्केन च सशर्करः|
सघृतः साधितो लेहः स च श्रेष्ठं विरेचनम्||४१||
इति तिल्वककल्पः||३||
अथ सुधाकल्पः|
सुधा भिनत्ति दोषाणां महान्तमपि सञ्चयम्|
आश्वेव कष्ठविभ्रंशान्नैव तां कल्पयेदतः||४२||
मृदौ कोष्ठेऽबले बाले स्थविरे दीर्घरोगिणि|
कल्प्या गुल्मोदरगरत्वग्रोगमधुमेहिषु||४३||
पाण्डौ दूषीविषे शोफे दोषविभ्रान्तचेतसि|
सा श्रेष्ठा कण्टकैस्तीक्ष्णैर्बहुभिश्च समाचिता||४४||
द्विवर्षां वा त्रिवर्षां वा शिशिरान्ते विशेषतः|
तां पाटयित्वा शस्त्रेण क्षीरमुद्धारयेत्ततः||४५||
बिल्वादीनां बृहत्योर्वा क्वाथेन सममेकशः|
मिश्रयित्वा सुधाक्षीरं ततोऽङ्गारेषु शोषयेत्||४६||
पिबेत्कृत्वा तु गुटिकां मस्तुमूत्रसुरादिभिः||४७||
त्रिवृतादीन्नव वरां स्वर्णक्षीरीं ससातलाम्||४७||
सप्ताहं स्नुक्पयः पीतान् रसेनाज्येन वा पिबेत्|
तद्वद्व्योषोत्तमाकुम्भनिकुम्भाग्नीन् गुडाम्बुना||४८||
इति सुधाकल्पः||४||
अथ शङ्खिनीसप्तलयोः कल्पः|
नातिशुष्कं फलं ग्राह्यं शङ्खिन्या निस्तुषीकृतम्|
सप्तलायास्तथा मूलं ते तु तीक्ष्णविकाषिणी||४९||
श्लेष्मामयोदरगरश्वयथ्वादिषु कल्पयेत्|
अक्षमात्रं तयोः पिण्डं मदिरालवणान्वितम्||५०||
हृद्रोगे वातकफजे तद्वद्गुल्मेऽपि योजयेत्||५१|
इति शङ्खिनीसप्तलयोः कल्पः||५||
अथ दन्तीद्रवन्त्योः कल्पः||
दन्तिदन्तस्थिरं स्थूलं मूलं दन्तीद्रवन्तिजम्||५१||
आताम्रश्यावतीक्ष्णोष्णमाशुकारि विकाशि च|
गुरु प्रकोपि वातस्य पित्तश्लेष्मविलायनम्||५२||
तत्क्षौद्रपिप्पलीलिप्तं स्वेद्यं मृद्दर्भवेष्टितम्|
शोष्यं मन्दातपेऽग्न्यर्कौ हतो ह्यस्य विकाशिताम्||५३||
तत्पिबेन्मस्तुमदिरातक्रपीलुरसासवैः|
अभिष्यण्णतनुर्गुल्मी प्रमेही जठरी गरी||५४||
गोमृगाजरसैः पाण्डुः कृमिकोष्ठी भगन्दरी|
सिद्धं तत्क्वाथकल्काभ्यां दशमूलरसेन च||५५||
विसर्पविद्रध्यलजीकक्षादाहान् जयेद्धृतम्|
तैलं तु गुल्ममेहार्शोविबन्धकफमारुतान्||५६||
महास्नेहः शकृच्छुक्रवातसङ्गानिलव्यथाः|
इति दन्तीद्रवन्त्योः कल्पः|
विरेचने मुख्यतमा नवैते त्रिवृतादयः||५७||
अथ हरीतकीकल्पः|
हरीतकीमपि त्रिवृद्विधानेनोपकल्पयेत्|
गुडस्याष्टपले पथ्याविंशतिः स्यात्पलं पलम्||५८||
दन्तीचित्रकयोः कर्षौ पिप्पलीत्रिवृतोर्दश|
प्रकल्प्य मोदकानेकं दशमे दशमेऽहनि||५९||
उष्णाम्भोऽनु पिबेत्खादेत्तान् सर्वान्विधिनाऽमुना|
एते निष्परिहाराः स्युः सर्वव्याधिनिबर्हणाः||६०||
विशेषाद्ग्रहणीपाण्डुकण्डूकोठार्शसां हिताः||६१|
इति हरीतकीकल्पः||६||
अल्पस्यापि महार्थत्वं प्रभूतस्याल्पकर्मताम्|६१|
कुर्यात्संश्लेषविश्लेषकालसंस्कारयुक्तिभिः|६१ १/२|
त्वक्केसराम्रातकदाडिमैला सितोपलामाक्षिकमातुलुङ्गैः|
मद्येन तैस्तैश्च मनोनुकूलै र्युक्तानि देयानि विरेचनानि|६२ १/२|
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता
यामष्टाङ्गहृदयसंहितायां पञ्चमे कल्पसिद्धिस्थाने
विरेचनकल्पो नाम द्वितीयोऽध्यायः|२|