1. वमनकल्पाध्यायः
अथातो वमनकल्पं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे)||२||
अथ मदनकल्पः|
वमने मदनं श्रेष्ठं, त्रिवृन्मूलं विरेचने|
नित्यमन्यस्य तु व्याधिविशेषेण विशिष्टता||१||
फलानि नातिपाण्डूनि न चातिहरितान्यपि|
आदायाह्नि प्रशस्तर्क्षे मध्ये ग्रीष्मवसन्तयोः||२||
प्रमृज्य कुशमुत्तोल्यां क्षिप्त्वा बध्वा प्रलेपयेत्|
गोमयेनानु मुत्तोलीं धान्यमध्ये निधापयेत्||३||
मृदुभूतानि मध्विष्टगन्धानि कुशवेष्टनात्|
निष्कृष्टानि गतेऽष्टाहे शोषयेत्तान्यथातपे||४||
तेषां ततः सुशुष्काणामुद्धृत्य फलपिप्पलीः|
दधिमध्वाज्यपललैर्मृदित्वा शोषयेत्पुनः||५||
ततः सुगुप्तं संस्थाप्य र्कायकाले प्रयोजयेत्||६||
अथादाय ततो मात्रां जर्जरीकृत्य वासयेत्||६||
शर्वरीं मधुयष्ट्या वा कोविदारस्य वा जले|
कर्बुदारस्य बिम्ब्या वा नीपस्य विदुलस्य वा||७||
शणपुष्प्याः सदापुष्प्याः प्रत्यक्पुष्प्युदकेऽथवा|
ततः पिबेत्कषायं तं प्रातर्मृदितगालितम्||८||
सूत्रोदितेन विधिना साधु तेन तथा वमेत्||९||
श्लेष्मज्वरप्रतिश्यायगुल्मान्तर्विद्रधीषु च||९||
प्रच्छर्दयेद्विशेषेण यावत्पित्तस्य दर्शनम्||१०||
फलपिप्पलिचूर्णं वा क्वाथेन स्वेन भावितम्||१०||
त्रिभागत्रिफलाचूर्णं कोविदारादिवारिणा|
पिबेज्ज्वरारुचिष्ठेवग्रन्थ्यपच्यर्बुदोदरी||११||
पित्ते कफस्थानगते जीमूतादिजलेन तत्||१२||
हृद्दाहेऽधोस्त्रपित्ते च क्षीरं तत्पिप्पलीशृतम्||१२||
क्षैरेयीं वा कफच्छर्दिप्रसेकतमकेषु तु|
दध्युत्तरं वा दधि वा तच्छृतक्षीरसम्भवम्||१३||
फलादिक्वाथकल्काभ्यां सिद्धं तत्सिद्धदुग्धजम्|
सर्पिः कफाभिभूतेऽग्नौ शुष्यद्देहे च वामनम्||१४||
स्वरसं फलमज्ज्ञो वा भल्लातकविधिशृतम्|
आदर्वीलेपनात्सिद्धं लीढ्वा प्रच्छर्दयेत्सुखम्||१५||
तं लेहं भक्ष्यभोज्येषु तत्कषायांश्च योजयेत्||१६||
वत्सकादिप्रतीवापः कषायः फलमज्जजः||१६||
निम्बार्कान्यतरक्वाथसमायुक्तो नियच्छति|
बद्धमूलानपि व्याधीन् सर्वान् सन्तर्पणोद्भवान्||१७||
राठपुष्पफलश्लक्ष्णचूर्णैर्माल्यं सुरूक्षितम्|
वमेन्मण्डरसादीनां तृप्तो जिघ्रन् सुखं सुखी||१८||
एवमेव फलाभावे कल्प्यं पुष्पं शलाटु वा||१९|
इति मदनकल्पः||२||
अथ जीमूतकल्प:||
जीमूताद्याश्च फलवत् जीमूतं तु विशेषतः||१९||
प्रयोक्तव्यं ज्वरश्वासकासहिध्मादिरोगिणाम्||२०||
पयः पुष्पेऽस्य निर्वृत्ते, फले पेया पयस्कृता||२०||
लोमशे क्षीरसन्तानं, दध्युत्तरमलोमशे|
शॄते पयसि दध्यम्लं जातं हरितपाण्डुके||२१||
आसुत्य वारुणीमण्डं पिबेन्मृदितगालितम्|
कफादरोचके कासे पाण्डुत्वे राजयक्ष्मणि||२२||
इयं च कल्पना कार्या तुम्बीकोशातकीष्वपि||२३||
पर्यागतानां शुष्काणां फलानां वेणिजन्मनाम्||२३||
चूर्णस्य पयसा शुक्तिं वातपित्तार्दितः पिबेत्|
द्वे वा त्रीण्यपि वाऽऽपोथ्य क्वाथे तिक्तोत्तमस्य वा||२४||
आरग्वधादिनवकादासुत्यान्यतमस्य वा|
विमृद्य पूतं तं क्वाथं पित्तश्लेष्मज्वरी पिबेत्||२५||
जीमूतकल्कं चूर्णं वा पिबेच्छीतेन वारिणा|
ज्वरे पैत्ते, कवोष्णेन कफवातात्कफादपि||२६||
इति जिमूतकल्पः||२||
अथेक्ष्वाकुकल्पः|
कासश्वासविषच्छर्दिज्वरार्ते कफकर्शिते|
इक्ष्वाकुर्वमने शस्तः प्रताम्यति च मानवे||२७||
फलपुष्पविहीनस्य प्रवालैस्तस्य साधितम्|
पित्तश्लेष्मज्वरे क्षीरं पित्तोद्रिक्ते प्रयोजयेत्||२८||
हॄतमध्ये फले जीर्णे स्थितं क्षीरं यदा दधि|
स्यात्तदा कफजे कासे श्वासे वम्यं च पाययेत्||२९||
मस्तुना वा फलान्मध्यं पाण्डुकुष्ठविषार्दितः|
तेन तक्रं विपक्वं वा पिबेतत्समधुसैन्धवम्||३०||
भावयित्वाऽऽजदुग्धेन बीजं तेनैव वा पिबेत्|
विषगुल्मौदरग्रन्थिगण्डेषु श्लीपदेषु च||३१||
सक्तुभिर्वा पिबेन्मन्थं तुम्बीस्वरसभावितैः|
कफोद्भवे ज्वरे कासे गलरोगेष्वरोचके||३२||
गुल्मे ज्वरे प्रसक्ते च कल्कं मांसरसैः पिबेत्|
नरः साधु वमत्येवं न च दौर्बल्यमश्नुते||३३||
तुम्ब्याः फलरसैः शुष्कैः सपुष्पैरवचूर्णितम्|
छर्दयेन्माल्यमाघ्राय गन्धसम्पत्सुखोचितः||३४||
इतीक्ष्वाकुकल्पः||३||
अथ धामार्गवकल्पः|
कासगुल्मोदरगरे वाते श्लेष्माशयस्थिते|
कफे च कण्ठवक्त्रस्थे कफसञ्चयजेषु च||३५||
धामार्गवो गदेष्विष्टः स्थिरेषु च महत्सु च||३६||
जीवकर्षभकौ वीरा कपिकच्छूः शतावरी||३६||
काकोली श्रावाणी मेदा महामेदा मधूलिका|
तद्रजोभिः पृथग्लेहा धमार्गवरजोन्विताः||३७||
कासे हृदयदाहे च शस्ता मधुसिताद्रुताः||३८||
ते सुखाम्भोनुपानाः स्युः पित्तोष्मसहिते कफे||३८||
धान्यतुम्बरुयूषेण कल्कस्तस्य विषापहः||३९||
बिम्याः पुनर्नवाया वा कासमर्दस्य वा रसे||३९||
एकं धामार्गवं द्वे वा मानसे मृदितं पिबेत्|
तच्छृतक्षीरजं सर्पिः साधितं वा फलादिभिः||४०||
इति धामार्गवकल्पः||४||
अथ क्ष्वेडकल्पः|
क्ष्वेडोऽतिकटुतीक्ष्णोष्णः प्रगाढेषु प्रशस्यते|
कुष्ठपाण्ड्वामयप्लीहशोफगुल्मगरादिषु||४१||
पृथक् फलादिषट्कस्य क्वाथे मांसमनूपजम्|
कोशातक्या समं सिद्धं तद्रसं लवणं पिबेत्||४२||
फलादिपिप्पलीतुल्यं सिद्धं क्ष्वेडरसेऽथवा||४३||
क्ष्वेडक्वाथं पिबेतत्सिद्धं मिश्रमिक्षुरसेन वा||४३||
इति क्ष्वेडकल्पः||४||
अथ कुटजफलकल्पः|
कौटजं सुकुमारेषु पित्तरक्तकफोदये|
ज्वरे विसर्पे हृद्रोगे खुडे कुष्ठे च पूजितम्||४४||
सर्षपाणां मधूकानां तोयेन लवणस्य वा|
पाययेत्कौटजं बीजं युक्तं कृशरयाऽथवा||४५||
सप्ताहं वाऽर्कदुग्धाक्तं तच्चूर्णं पाययेत्पृथक्|
फलजीमूतकेक्ष्वाकुजीवन्तीजीवकोदकैः||४६||
इति कुटजफलकल्पः||५||
वमनौषधमुख्यानामिति कल्पदिगीरिता|
बीजेनानेन मतिमानन्यान्यपि च कल्पयेत्|४७|
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भट विरचितायामष्टाङ्गहृदयसंहितायां पञ्चमे कल्पसिद्धिस्थाने
वमनकल्पो नाम प्रथमोऽध्यायः|१|