8.अर्शश्चिकित्सिताध्यायः
अथतोऽर्शसां चिकित्सितं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः।
काले साधारणे व्याभ्रे नातिदुर्बलमर्शसम्।
विशुद्धकोष्ठं लघ्वल्पमनुलोमनमाशितम्॥१॥
शुचि कृतस्वस्त्ययनं मुक्तविण्मूत्रमव्यथम्।
शयने फलके वाऽन्यनरोत्सङ्गे व्यपाश्रितम्॥२॥
पूर्वेण कायेनोत्तानं प्रत्यादित्यगुदं समम्।
समुन्नतकटीदेशमथ यन्त्रणवाससा॥३॥
सक्थ्नोः शिरोधरायां च परिक्षिप्तमृजु स्थितम्।
आलम्बितं परिचरैः सर्पिषाऽभ्यक्तपायवे॥४॥
ततोऽस्मै सर्पिषाऽयक्तं निदघ्यादृजु यन्त्रकम्।
शनैरनुसुखं पायौ, ततो दृष्ट्वा प्रवाहणात्॥५॥
यन्त्रे प्रविष्टं दुर्नाम प्लोतगुण्ठितयाऽनु च।
शलाकयोत्पीड्य भिषक् यथोक्तविधिना दहेत्॥६॥
क्षारेणैवार्द्रमितरत्क्षारेण ज्वलनेन वा।
महद्वा वलिनश्छत्त्वा वीतयन्त्रमथातुरम्॥७॥
स्वभ्यक्तपायुजघनमवगाहे निधापयेत्।
निर्वातमन्दिरस्थस्य ततोऽस्याचारमदिशेत्॥८॥
एकैकमिति सप्ताहात्सप्ताहात्समुपाचरेत्।
प्राग्दक्षिणं ततो वाममर्शः पृष्टाग्रजं ततः॥९॥
बह्वर्शसः सुदग्धस्य स्याद्वायोरनुलोमता।
रुचिरन्नेऽग्निपटुता स्वास्थ्यं वर्णबलोदयः॥१०॥
बस्तिशूले त्वधो नाभेर्लेपयेछ्लक्ष्णकल्कितैः।
वर्षाभूकुष्ठसुरभिमिशिलोहामराह्वयैः॥११॥
शकृन्मूत्रप्रतीघाते परिषेकावगाहयोः।
वरणालम्बुषैरण्डगोकण्टकपुनर्नवैः॥१२॥
सुषवीसुरभीभ्यां च क्वाथमुष्णं प्रयोजयेत्।
सस्नेहमथवा क्षीरं तैलं वा वातनाशनम्॥१३॥
युञ्जीतान्नं शकृद्भेदि स्नेहान् वातघ्नदीपनान्।
अथाप्रयोज्यदाहस्य निर्गतान् कफवातजान्॥१४॥
सस्तम्भकण्डूरुक्शोफानभ्यज्य गुदकीलकान्।
बिल्वमूलाग्निकक्षारकुष्ठैः सिद्धेन सेचयेत्॥१५॥
तैलेनाहिबिडालोष्त्रवराहवसयाऽथवा।
[कासीसं सैन्धवं रास्ना शुण्ठी कुष्ठं च लाङ्गली।
शिलाभ्रकाश्वमारं च जन्तुहृद्दन्तिचित्रकौ॥१॥
हरितालं तथा स्वर्णक्षीरी तैश्च पचेत्समैः।
तैलं सुधार्कपयसी गवां मूत्रे चतुर्गुणे॥२॥
एतदभ्यङ्गतोऽर्शांसि क्षारवत्पातयेद्द्रुतम्।
क्षारकर्मकरं ह्येतन्न च दूषयते वलिम्॥३॥]
स्वेदयेदनु पिण्डेन द्रवस्वेदेन वा पुनः॥१६॥
सक्तूनां पिण्डिकाभिर्वा स्निग्धानां तैलसर्पिषा।
रास्नाया हपुषाया वा पिण्डैर्वा कार्ष्ण्यगन्धिकैः॥१७॥
अर्कमूलं शमीपत्रं नृकेशाः सर्पकञ्चुकम्।
मार्जारचर्म सर्पिश्च धूपनं हितमर्शसाम्॥१८॥
तथाऽश्वगन्धा सुरसा बृहती पिप्पली घृतम्।
धान्याम्लपिष्टैर्जीमूतबीजैस्तज्जालकं मृदु॥१९॥
लेपितं छायया शुष्कं वर्तिर्गुदजशातनी।
सजालमूलजीमूतलेहे वा क्षारसंयुते॥२०॥
गुञ्जासूरणकूष्माण्डबीजैर्वर्तिस्तथागुणा।
स्नुक्क्षीरार्द्रनिशालेपस्तथा, गोमूत्रकल्कितैः॥२१॥
कृकवाकुशकृत्कृष्णानिशागुञ्जाफलैस्तथा।
स्नुक्क्षीरपिष्टैः षड्ग्रन्थाहलिनीवारणास्थिभिः॥२२॥
कुलीरशृङ्गिविजयाकुष्ठारुष्करतुत्थकैः।
शिग्रुमूलकजैर्बीजैः पत्रैरश्वघ्ननिम्बजैः॥२३॥
पीलुमूलेन बिल्वेन हिङ्गुना च समन्वितैः।
कुष्ठं शिरीषबीजानि पिप्पल्यः सैन्धवं गुडः॥२४॥
अर्कक्षीरं सुधाक्षीरं त्रिफला च प्रलेपनम्।
आर्कं पयः सुधाकाण्डम् कटुकालाबुपल्लवाः॥२५॥
करञ्जो बस्तमूत्रं च लेपनं श्रेष्ठमर्शसाम्।
आनुवासनिकैर्लेपः पिप्पल्याद्यैश्च पूजितः॥२६॥
एभिरेवौषधैः कुर्यात्तैलान्यभ्यञ्जनाय च।
धूपनालेपनाभ्यङ्गैः प्रस्रवन्ति गुदाङ्कराः॥२७॥
सञ्चितं दुष्टरुधिरं, ततः सम्पद्यते सुख़ी।
अवर्तमानमुच्छूनकठिनेभ्यो हरेदसृक्॥२८॥
अर्शोभ्यो जलजाशस्त्रसूचीकूर्चैः पुनः पुनः।
शीष्णस्निग्धरूक्षैर्हि न व्याधिरुपशाम्यति॥२९॥
रक्ते दुष्टे भिषक् तस्माद्रक्तमेवावसेचयेत्।
यो जातो गोरसः क्षीराद्वह्निचूर्णावचूर्णितात्॥३०॥
पिबंस्तमेव तेनैव भुञ्जानो गुदजान् जयेत्।
कोविदारस्य मूलानां मथितेन रजः पिबन्॥३१॥
अश्वन् जीर्णे च पथ्यानि मुच्यते हतनामभिः।
गुदश्वयथुशूलार्थो मन्दाग्निर्गौल्मिकान् पिबेत्॥३२॥
हिङ्ग्वादीननुतक्रं वा ख़ादेङ्गुडहरीतकीम्।
तक्रेण वा पिबेत्पथ्यावेल्लाग्निकुटजत्वचः॥३३॥
कलिङ्गमगधाज्योतिःसूरणान् वांऽशवर्धितान्।
कोष्णाम्बुना वा त्रिपटुव्योषहिङ्ग्वम्लवेतसम्॥३४॥
युक्तं बिल्वकपित्थाभ्यां महौषधबिडेन वा।
अरुष्करैर्यवान्या वा प्रदद्यात्तक्रतर्पणम्॥३५॥
दद्याद्वा हपुषाहिङ्गुचित्रकं तक्रसंयुतम्।
मासं तक्रानुपानानि ख़ादेत्पीलुफलानि वा॥३६॥
पिबेदहरहस्तक्रं निरन्नो वा प्रकामतः।
अत्यर्थं मन्दकायाग्नेस्तक्रमेवावचारयेत्॥३७॥
सप्ताहं वा दशाहं वा मासार्धं मासमेव वा।
बलकालविकारज्ञो भिषक् तक्रं प्रयोजयेत्॥३८॥
सायं वा लाजसक्तूनां दद्यात्तक्रावलेहिकाम्।
जीर्णे तक्रे प्रदद्याद्वा तक्रपेयां ससैन्धवम्॥३९॥
तक्रानुपानं सस्नेहं तक्रौदनमतः परम्।
यूशै रसैर्वा तक्राड्यैः शालीन् भुञ्जीत मात्रया॥४०॥
रूक्षमर्धोद्धृतस्नेहं यतश्चानुद्धृतं घृतम्।
तक्रं दोषाग्निबलवित्रिविस्त्रिविधं तत्प्रयोजयेत्॥४१॥
न विरोहन्ति गुदजाः पुनस्तक्रसमाहताः।
निषिक्तं तद्धि दहति भूमावपि तृणोलुपम्॥४२॥
स्रोतःसु तक्रशुद्धेषु रसो धातूनुपैति यः।
तेन पुष्टिर्बलं वर्णः परं तुष्टिश्च जायते॥४३॥
वातश्लेष्मविकाराणां शतं च विनिवर्तते।
मथितं भाजने क्षुद्रबृहतीफललेपिते॥४४॥
निशां पर्युषितं पेयमिच्छद्भिर्गुदजक्षयम्।
धान्योपकुञ्चिकाजाजीहपुषापिप्पलीद्वयैः॥४५॥
कारवीग्रन्थिकशठीयवान्यग्नियवानकैः।
चूर्णितैर्घृतपात्रस्थं नात्यम्लं तक्रमासुतम्॥४६॥
तक्रारिष्टं पिबेज्जातं व्यक्ताम्लकटु कामितः।
दीपनं रोचनं वर्ण्यंकफवातानुलोमनम्॥४७॥
गुदश्वयथुकण्ड्वर्तिनाशनं बलवर्धनम्।
त्वचं चित्रकमूलस्य पिष्ट्वा कुम्भं प्रलेपयेत्॥४८॥
तक्रं वा दधि वा तत्र जातमर्शोहरं पिबेत्।
भार्ङ्ग्यास्फोतामृतापञ्चकोलेष्वप्येष संविधिः॥४९॥
पिष्टैर्गजकणापाठाकारवीपञ्चकोलकैः।
तुम्बर्वजाजीधनिकाबिल्वमध्यैश्च कल्पयेत्॥५०॥
फलाम्लान् यमकस्नेहान् पेयायूषरसादिकान्।
एभिरेवौषधैः साध्यं वारि सर्पिश्च दीपनम्॥५१॥
क्रमोऽयं भिन्नशकृतां वक्ष्यते गाढवर्चसाम्।
स्नेहाड्यैः सक्तुभिर्युक्तां लवणां वारुणीं पिबेत्॥५२॥
लवणा एव वा तक्रसीधुधान्याम्लवारुणीः।
प्राग्भक्तान् यमके भृष्टान् सक्तुभिश्चावचूर्णितान्॥५३॥
करञ्जपल्लवान् ख़ादेद्वातवर्चोनुलोमनान्।
सगुडं नागरं पाठां गुडक्षारघृतानि वा॥५४॥
गोमूत्राध्युषितामद्यात्सगुडां वा हरीतकीम्।
पथ्याशतद्वयान्मूत्रद्रोणेनामूत्रसङ्क्ष्यात्॥५५॥
पक्वात् ख़ादेत्समधुनी द्वे द्वे हन्ति कफोद्भवान्।
दुर्नामकुष्ठश्वयथुगुल्ममेहोदरकृमीन्॥५६॥
ग्रन्थ्यर्बुदापचीस्थौल्यपाण्डुरोगाड्यमारुतान्।
अजशृङ्गीजटाकल्कमजामूत्रेण यः पिबेत्॥५७॥
गुडवार्ताकभुक् तस्य नश्यन्त्याशु गुदाङ्कुराः।
श्रेष्ठारसेन त्रिवृतां पथ्यां तक्रेण वा सह॥५८॥
पथ्यां वा पिप्पलीयुक्तां घृतभृष्टां गुडान्विताम्।
अथवा सत्रिवृद्दन्तीं भक्षयेदनुलोमनीम्॥५९॥
हते गुदाश्रये दोषे गुदजा यान्ति सङ्क्ष्यम्।
दाडिमस्वरसाजाजीयवानीगुडनागरैः॥६०॥
पाठया वा युतं तक्रं वातवर्चोनुलोमनम्।
सिधुं वा गौडमथवा सचित्रकमहौषधम्॥६१॥
पिबेत्सुरां वा हपुषापाठासौवर्चलान्विताम्।
दशादिदशकैर्वृद्धाः पिप्पलीर्द्विपिचुं तिलान्॥६२॥
पीत्वा क्षीरेण लभते बलं देहहुताशयोः।
दुःस्पर्शकेन बिल्वेन यवान्या नागरेण वा॥६३॥
एकैकेनापि संयुक्ता पाठा हन्त्यर्शसां रुजम्।
सलिलस्य वहे पक्त्वा प्रस्थार्धमभयात्वचाम्॥६४॥
प्रस्थं धात्र्या दशपलं कपित्थानां ततोऽर्धतः।
विशालां रोध्रमरिचकृष्णावेल्लैलवालुकम्॥६५॥
द्विपलांशं पृथ्कपादशेषे पूते गुडात्तुले।
दत्त्वा प्रस्थं च धातक्याः स्थापयेद्धृतभाजने॥६६॥
पक्षात्स शीलितोऽरिष्टः करोत्यग्निं, निहन्ति च।
गुदजग्रहणीपाण्डुकुष्ठोदरगरज्वरान्॥६७॥
श्वयथुप्लीहहृद्रोगगुल्मयक्ष्मवमिकृमीन्।
जलद्रोणे पचेद्दन्तीदशमूलवराग्निकान्॥६८॥
पालिकान् पादशेषे तु क्षिपेङ्गुडतुलां परम्।
पूर्ववत्सर्वमस्य स्यादनुलोमितरस्त्वयम्॥६९॥
पचेहुरालभाप्रस्थं द्रोणेऽपां प्रासृतैः सह।
दन्तीपाठाग्निविजयावासामलकनागरैः॥७०॥
तस्मिन् सिताशतं दद्यात्पादस्थेऽन्यच्च पूर्ववत्।
लिम्पेत्कुम्भं तु फलिनीकृष्णाचव्याज्यमाक्षिकैः॥७१॥
प्राग्भक्तमानुलोम्याय फलाम्लं वा पिबेद्धृतम्।
चव्यचित्रकसिद्धं वा यवक्षारगुडान्वितम्॥७२॥
पिप्पलीमूलसिद्धं वा सगुडक्षारनागरम्।
पिप्पलीपिप्पलीमूलधानकादाडिमैर्घृतम्॥७३॥
दघ्ना च साधितं वातशकृन्मूत्रविबन्धनुत्।
पलाशक्षारतोयेन त्रिगुणेन पचेद्धृतम्॥७४॥
वत्सकादिप्रतीवापमर्शोघ्नं दीपनं परम्।
पञ्चकोलाभयाक्षारयवानीबिडसैन्धवैः॥७५॥
सपाठाधान्यमरिचैः सविल्वैर्दधिमद्धृतम्।
साधयेत् तज्जयत्याशु गुदवङ्क्ष्णवेदनाम्॥७६॥
प्रवाहिकां गुदभ्रंशं मूत्रकृच्छ्रं परिस्रवम्।
पाठाजमोदधनिकाश्वदंष्त्रापञ्चकोलकैः॥७७॥
सविल्वैर्दनि चाङ्गेरीस्वरसे च चतुर्गुणे।
हन्त्याज्यं सिद्धमानाहं मूत्रकृच्छ्रं प्रवाहिकाम्॥७८॥
गुदभ्रंशार्तिगुदजग्रहणीगदमारुतान्।
शिख़ितित्तिरिलावानां रसानम्लान् सुसंस्कृतान्॥७९॥
दक्षाणां वर्तकानां वा दद्याद्विङ्वातसङ्ग्रहे।
वस्तुकाग्नित्रिवृद्दन्तीपाठाम्लीकादिपल्लवान्॥८०॥
अन्यच्च कफवातघ्नं शाकं च लघुमेदि च।
सहिङ्गं यमके भृष्टं सिद्धं दधिसरैः सह॥८१॥
दह्निकापञ्चकोलाभ्यां पिष्टाभ्यां दाडिमाम्बुना।
आऱ्द्रिकायाः किसलयैः शकलैराद्रकस्य च॥८२॥
युक्तमङ्गारधूपेन हृद्येन सुरभीकृतम्।
सजीरकं समरिचं बिडसौवर्चलोत्कटम्॥८३॥
वातोत्तरस्य रूक्षस्य मन्दाग्नेर्वद्धवर्चसः।
कल्पयेद्रक्तशाल्यन्नव्यञ्जनं शाकवद्रसान्॥८४॥
गोगोधाछगरोष्ट्राणां विशेषात्क्रव्यभोजिनाम्।
मदिरां शाऱ्करं गौडं सीधुं तक्रं तुषोदकम्॥८५॥
अरिष्टं मस्तु पानीयं, पानीयं वाऽल्पकं शृतम्।
धान्येन धान्यशुण्ठीभ्यां कण्टकारिकयाऽथवा॥८६॥
अन्ते भक्तस्य मध्ये वा वातवर्चोनुलोमनम्।
विड्वातकफपित्तानामानुलोम्ये हि निर्मले॥८७॥
गुदे शाम्यन्ति गुदजाः पावकश्चाभिवर्धते।
उदाबर्तपरीता ये ये चात्यर्थं विरूक्षिताः॥८८॥
विलोमवाताः शूलार्तास्तेष्विष्टमनुवासनम्।
पिप्पलीं मदनं बिल्वं शताह्वां मधुकं वचाम्॥८९॥
कुष्ठं शठीं पुष्कराख्यं चित्रकं देवदारु च।
पिष्ट्वातैलं विपक्तव्यं द्विगुणक्षीरसंयुतम्॥९०॥
अर्शसां मूढवातानां तच्छ्रेष्ठमनुवासनम्।
गुदनिःसरणं शूलं मूत्रकृच्छ्रं प्रवाहिकाम्॥९१॥
कट्यूरुपृष्ठदौर्वल्यमानाहं वङ्क्षणाश्रयम्।
पिच्छास्रावं गुदे शोफं वातवर्चोविनिग्रहम्॥९२॥
उत्थानं बहुशो यच्च जयेत्तच्चानुवासनात्।
निरुहं वा प्रयुञ्जीत सक्षीरं पाञ्चमूलिकम्॥९३॥
समूत्रस्नेहलवणं कल्कैर्युक्रं फलादिभिः।
अथ रक्तार्शसां वीक्ष्य मारुतस्य कफस्य वा॥९४॥
अनुबन्धं ततः स्निग्धं रूक्षं वा योजयेद्धिमम्।
शकृच्छयावं ख़रं रूक्षमधो निर्याति नानिलः॥९५॥
कट्यूरुगुदशूलं च हेतुर्यदि च रूक्षणम्।
तत्रानुबन्धो वातस्य श्लेष्मणो यदि विट् श्लथा॥९६॥
श्वेता पीता गुरुःस्निग्धा, सपिच्छः स्तिमितो गुदः।
हेतुः स्निग्धगुरुर्विद्याद्यथास्वं चास्रलक्षणात्॥९७॥
दुष्टेऽस्रे शोधनं कार्यं लङ्घनं च यथाबलम्।
यावच्च दोषैः कालुप्यं स्रुतेस्तावदुपेक्षणम्॥९८॥
दोषाणां पाचनर्थं च वह्निसन्धुक्षणाय च।
सङ्ग्रहाय च रक्तस्य परं तिक्तैरुपाचरेत्॥९९॥

यत्तु पित्तोल्बणं रक्तं घर्मकाले प्रवर्तते।
स्तम्भनीयं तदेकान्तान्न चेद्वातकफानुगम्॥१०१॥
सकफेऽस्रे पिबेत्पाक्यं शुण्ठीकुटजवल्कम्।
किराततिक्तकं शुण्ठीं धन्वयासं कुचन्दनम्॥१०२॥
दार्वीत्वङ्क्षिम्बसेव्यानि त्वचं वा दाडिमोद्भवाम्।
कुटजत्वक्फलं तार्क्ष्यं माक्षिकं घुणवल्लभाम्॥१०३॥
पिबेत्तण्डुलतोयेन कल्कितं वा मयूरकम्।
तुलां दिव्याम्भसि पचेदार्द्रायाः कुटजत्वचः॥१०४॥
नीरसायां त्वचि क्वाथे दद्यात्सूक्ष्मरजीकृतान्।
समङ्गाफलिनीमोचरसान् मुष्ट्यंशकान्समान्॥१०५॥
तैश्च शक्रयवान् पूते ततो दर्वीप्रलेपनम्।
पक्त्वाऽवलेहं लीढ्वा च तं यथाग्निवलं पिबेत्॥१०६॥
पेयां मण्डं पयस्छागं गब्यं वा छागदुग्धभुक्।
लेहोऽयं शमयत्याशु रक्तातीसारपायुजान्॥१०७॥
बलवद्रक्तपित्तं च स्रवदूर्ध्वमधोऽपि वा।
कुटजत्वक् तुलां द्रोणे पचेदष्टांशशोषितम्॥१०८॥
कल्कीकृत्य क्षिपेत्तत्र ताऱ्क्ष्यशैलं कटुत्रयम्।
रोध्रद्वयं मोचरसं बलां दाडिमजां त्वचम्॥१०९॥
बिल्वकर्कटिकां मुस्तं समङ्गां धातकीफलम्।
पलोन्मितं दशपलं कुटजस्यैव च त्वचः॥११०॥
त्रिंशत्पलानि गुडतो घृतात्पूते च विंशतिः।
तत्पक्वं लेहतां यातं धान्ये पक्षस्थितं लिहन्॥१११॥
सर्वार्शोग्रहणीदोषश्वासकासान्नियच्छति।
रोध्रं तिलान्मोचरसं समङ्गां चन्दनोत्पलम्॥११२॥
पाययित्वाऽऽजदुग्धेन शालींस्तेनैव भोजयेत्।
यष्ट्याह्वपद्मकानन्तापयस्याक्षीरमोरटम्॥११३॥
ससितामधु पातव्यं शीततोयेन तेन वा।
रोध्रकट्वङ्गकुटजसमङ्गाशाल्मलीत्वचम्॥११४॥
हिमकेसरयष्ट्याह्वसेव्यं वा तण्डुलाम्बुना।
यवानीन्द्रयवाः पाठा बिल्वं शुण्ठी रसाञ्जनम्॥११५॥
चूर्णश्चले हितः शूले प्रवृत्ते चाति शोणिते।
दुग्धिकाकण्टकारीभ्यां सिद्धं सर्पिः प्रशस्यते॥११६॥
अथवा धातकीरोध्रकुटजत्वक्फलोत्पलैः।
सकेसरैर्यवक्षारदाडिमस्वरसेन वा॥११७॥
शर्कराम्भोजकिञ्जिल्कसहितं सह वा तिलैः।
अभ्यस्तं रक्तगुदजान् नवनीतं नियछ्छति॥११८॥
छागानि नवनीताज्यक्षीरमांसानि, जाङ्गलः।
अनम्लो वा कदम्लो वा सवास्तुकरसो रसः॥११९॥
रक्तशालिः सरो दग़्नः षष्टिकस्तरुणी सुरा।
तरुणश्च सुरामण्डः शोणितस्यौषधं परम्॥१२०॥
पेयायूषरसाद्येषु पलाण्डुः केवलोऽपि वा।
स जयत्युल्बणं रक्तं मारुतं च प्रयोजितः॥१२१॥
वातोल्बणानि प्रायेण भवन्त्यस्नेऽतिनिःसृते।
अर्शासि तस्मादधिकं तज्जये यत्नमाचरेत्॥१२२॥
दृष्ट्वाऽस्रपित्तं प्रबलमबलौ च कफानिलौ।
शीतोपचारः कर्तव्यः सर्वथा तत्प्रशान्तये॥१२३॥
न चेदेवं शमस्तस्य स्निग्धोष्णैस्तर्पयेत्ततः।
रसैः, कोष्णैश्च सर्पिर्भिरवापीडकयोजितैः॥१२४॥
सेचयेत्तं कवोष्णैश्च कामं तैलपयोघृतैः।
यवासकुशकाशानां मूलं पुष्पं च शाल्मलेः॥१२५॥
न्यग्रोधोदुम्बराश्वत्थशुङ्गाश्च द्विपलोन्मिताः।
त्रिप्रस्थे सलिलस्यैतत्क्षीरप्रस्थे च साधयेत्॥१२६॥
क्षीरशेषे कषाये च तस्मिन् पूते विमिश्रयेत्।
कल्कीकृतं मोचरसं समङ्गा चन्दनोत्पलम्॥१२७॥
प्रियङ्गुं कौटजं बीजं कमलस्य च केसरम्।
पिच्छाबस्तिरयं सिद्धः सघृतक्षौद्रशर्करः॥१२८॥
प्रवाहिकागुदभ्रं शरक्तस्रावज्वरापहः।
यष्ट्याह्वपुण्डरीकेण तथा मोचरसादिभिः॥१२९॥
क्षीरद्विगुणितः पक्वो देयः स्नेहोऽनुवासनम्।
मधुकोत्पलरोध्नाम्बु समङ्गा बिल्वचन्दनम्॥१३०॥
चविकाऽतिविषा मुस्तं पाठा क्षारो यवाग्रजः।
दार्वीत्वङ्क्षागरं मांसी चित्रको देवदारु च॥१३१॥
चाङ्गेरीस्वरसे सर्पिः साधितं तैस्त्रिदोषजित्।
अर्शोतिसारग्रहणीपाण्डुरोगज्वरारुचौ॥१३२॥
मूत्रकृच्छ्रे गुदभ्रंशे बस्त्यानाहे प्रवाहणे।
पिच्छास्रावेऽर्शसां शूले देयं तत्परमौषधम्॥१३३॥
व्यात्यासान्मधुराम्लानि शीतोष्णानि च योजयेत्।
नित्यमग्निबलापेक्षी जयत्यर्शःकृतान् गदान्॥१३४॥
उदावर्तार्तमभ्यज्य तैलैः शीतज्वरापहैः।
सुस्निग्धैः स्वेदयेत्पिण्डैर्वर्तिमस्मै गुदे ततः॥१३५॥
अभ्यक्तां तत्कराङ्गुष्ठसन्निभामनुलोमनीम्।
दद्याच्छ्यामात्रिवृद्दन्तीपिप्पलीनीफलैः॥१३६॥
विचूर्णितैर्द्विलवणैर्गुडगोमूत्रसंयुतैः।
तद्वन्मागधिकाराठगृहधूमैः ससर्षपैः॥१३७॥
एतेषामेव वा चूर्णं गुदे नाड्या विनिर्धमेत्।
तद्विघाते सुतीक्ष्णं तु बस्तिं स्निग्धं प्रपीडयेत्॥१३८॥
ऋजू कुर्या-दशिराविण्मूत्रमरुतोऽस्य सः।
भूयाऽनुबन्धे वातघ्नेर्विरेच्यः स्नेहरेचनैः॥१३९॥
अनुवास्यश्च रौक्ष्याद्धि सङ्गो मारुतवर्चसोः।
त्रिपटुचिकटुश्रेष्ठादन्त्यरुष्करचित्रकम्॥१४०॥
जर्जरं स्नेहमूत्राक्तमन्तर्धूमं विपाचयेत्।
शरावसन्धौ मृल्लिप्ते क्षारः कल्याणकाह्वयः॥१४१॥
स पीतः सर्पिषा युक्तो भक्ते वा स्निग्धभोजिना।
उदावर्तविबन्धार्शोगुल्मपाण्डूदरकृमीन्॥१४२॥
मूत्रसङ्गाश्मरीशोफहृद्रोगग्रहणीगदान्।
मेहप्लीहरुजानाहश्वासकासांश्च नाशयेत्॥१४३॥
सर्वं च कुर्याद्यत्प्रोक्तमर्शसां गाढवर्चसाम्।
द्रोणेऽपां पूतिवल्कद्वितुलमथ पचेत्पादशेषे च तस्मिन्
देयाऽशीतिरुगुडस्य प्रतनुकरजसो व्योषतोऽष्टौ पलानि।
एतन्मासेन जातं जनयति परमामूष्मणः पक्तिशक्तिं
शुक्तं कृत्वाऽऽनुलोम्यं प्रजयति गुदजप्लीहगुल्मोदराणि॥१४४॥
पचेत्तुलां पूतिकरञ्जवल्काद् द्वे मूलतश्चित्रककण्टकार्योः।
द्रोणत्रयऽपां चरणावशेषे पूते शतं तत्र गुडस्य दद्यात्॥१४५॥
पलिकं च सूचिर्णितं त्रिजात त्रिकटुग्रन्थिकदाडिमाश्मभेदम्।
पुरपुष्करमूलधान्यचव्यं हपुषामाऱ्द्रकमम्लवेतसं च॥१४६॥
शीतीभुतं क्षौद्रविंशत्युपेतमार्द्रद्राक्षाबीजपूराद्रकैश्च।
युक्तं कामं गण्डिकाभिस्तथेक्षोः सर्पिःपात्रे मासमात्रेण जातम्॥१४७॥
चुक्रं क्रकचमिवेदं दुर्दाम्नां वह्निदीपनं परमम्।
पाण्डुगरोदरगुल्मप्लीहानाहाश्मकृच्छ्रघ्नम्॥१४८॥
द्रोणं पीलुरसस्य वस्त्रगलितं न्यस्तं हविर्भाजने
युञ्जीत द्विपलैर्मदामधुफलाख़र्जूरधात्रीफलैः।
पाठामाद्रिदुरालभाम्लविदुलव्योषत्वगेलोल्लकैः
स्पृक्काकोललवङ्गवेल्लचपलामूलाग्निकैः पालिकैः।
गुडपलशतरोजितं निवाते निहितमिदं प्रपिबंश्च पक्षमात्रात्।
निशमयति गुदाङ्कुरान् सुगुल्माननलबलं प्रबलं करोति चाशु॥१५०॥
कैकशो दशपले दशमूलकुम्भ पाठाद्वयार्कौणवल्लभकट्फलघ्नाम्।
दग्धे स्रुतेऽनु कलशेन जलेन पक्वे पादास्थते गुडतुलां, पलपञ्चकं च॥१५१॥
वह्नर्मुष्टी द्वे यवक्षारतश्च।
दर्वीमालिम्पन् हन्ति लीढो गुडोऽयं गुल्मप्लीहार्शःकुष्ठमेहाग्निसादान्॥१५२॥
तोयद्रोणे चित्रकमूलतुलार्धं साध्यं यावत्पाददलस्थमथेदम्।
अष्टौ दत्वा जीर्णगुडस्य पलानि क्वाथ्यं भुयः सान्द्रतया सममेतत्॥१५३॥
त्रिकटुकमिसिपथ्याकुष्टमुस्तावराङ्ग कृमिरिपुदहनैलाचूर्णकीर्णोऽवलेहः।
जयति गुदजकुष्ठप्लीहगुल्मोदराणि प्रबलयति हुताशं शश्वदभ्यस्यमानः॥१५४॥
गुडव्योषवरावेल्लतिलारुष्करचित्रकैः।
अर्शांसि हन्ति गुलिका त्वग्विकारं च शीलिता॥१५५॥
मृल्लिप्तं सौरणं कन्दं पक्त्वाऽग्नौ पुटपाकवत्।
अद्याट्सतैललवणं द्रुनामविनिवृत्तये॥१५६॥
मरिचपिप्पलिनागरचित्रकान् क्रमविवर्धितभागसमाहृतान्।
शिख़िचतुर्गुणसूतणयोजितान् कुरु गुडेन गुडान् गुदजच्छिदः॥१५७॥
चूर्णिकृताः षोडश सूरणस्य भागास्ततोऽर्धेन च चित्रकस्य।
महौषधाद्द्वौ मरिचस्य चैको गुडेन दुर्नामजयाय पिण्डी॥१५८॥
पथ्यानागरकृष्णाकरञ्जवेल्लाग्निभिः सितातुल्यैः।
वडवामुख़ इव जरयति बहुगुर्वपि भोजनं चूर्णः॥१५९॥
कलिङ्गलाङ्गलीकृष्णावह्न्यपामार्गतण्डुलैः।
भूनिम्बसैन्धवगुडैर्गुडा गुदजनाशनाः॥१६०॥
लवणोत्तमवह्निकलिङ्गयवांश्चिरिबिल्वमहापिचुमन्दयुतान्।
पिबि सप्तदिनं मथितालुडितान् यदि मर्दितुमिच्छास पायुरुहाम्॥१६१॥
शुष्केषु भल्लातकमग्न्यमुक्तं भैषज्यमार्द्रेषु तु वत्सकत्वक्।
सर्वेषु सर्वर्तुषु कालशेयमर्शःसु बल्यं च मलापहं च॥१६२॥
भित्त्वा विबन्धाननुलोमनाय यन्मारुतस्याग्निबलाय यच्च।
तदन्नपानौशधमर्शसेन सेव्यं, विवर्ज्यं विपरीतमस्मात्॥१६३॥
अर्शोतिसारग्रहणीविकाराः प्रायेण चान्योन्यनिदानभूताः।
सन्नेऽनले सन्ति, न सन्ति दीप्ते, रक्षेदतस्तेषु विशेषतोऽग्निम्॥१६४॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां चतुर्थे चिकित्सितस्थानेऽर्शश्चिकित्सितं नामाष्टमोऽध्यायः॥८॥