9.अतीसारचिकित्सिताध्यायः
अथातोऽतीसारचिकित्सितं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः।
अतीसारो हि भूयिष्ठं भवत्यामाशयान्वयः।
हत्वाऽग्निं वातजेऽप्यस्मात्प्राक् तस्मिंल्लङ्घनं हितम्॥१॥
शूलानाहप्रसेकार्तं वामयेदतिसारिणम्।
दोषाः सन्निचिता ये च विदग्धाहारमुर्च्छिताः॥२॥
अतीसाराय कल्पन्ते तेषूपेक्षैव भेषजम्।
भृशोत्क्लेशप्रवृत्तेषु स्वयमेव चलात्मसु॥३॥
न तु सङ्ग्रहणं योज्यं पूर्वमामातिसारिणि।
अपि चाध्मानगुरुताशूलस्तैमित्यकारिणि॥४॥
प्राणदा प्राणदा दोषे विबद्धे सम्प्रवर्तिनी।
पिबेत्प्रक्वथितास्तोये मध्यदोषो विशोषयन्॥५॥
भूतीकपिप्पलीशुण्ठीवचाधान्यहरीतकीः।
अथवा बिल्वघनकामुस्तनागरवालकम्॥६॥
बिडपाठावचापथ्याकृमिजिन्नागराणि वा।
शुण्ठीग़नवचामाद्रीबिल्ववत्सकहिङ्गु वा॥७॥
शस्यते त्वलपदोषाणामुपवासोऽतिसारिणाम्।
वचाप्रतिविषाभ्यां वा मुस्तापपर्टकेन वा॥८॥
ह्नीबेरनागराभ्यां वा विपक्वं पाययेज्जलम्।
युक्तेऽन्नकाले क्षुत्क्षामं लघ्वन्नप्रति भोजयेत्॥९॥
तथा स शीघ्रं प्राप्नोति रुचिमग्निबलं बलम्।
तक्रेणावन्तिसोमेन यवाग्वा तर्पणेन वा॥१०॥
सुरया मधुना वाऽथ यथासात्म्यमुपाचरेत्।
भोज्यानि कल्पयेदूर्ध्वं ग्राहिदीपनपाचनैः॥११॥
बालबिल्वशठीधान्यहिङ्गुवृक्षाम्लदाडिमैः।
पलाशहपुषाजाजीयवानीबिडसैन्धवैः॥१२॥
लघुना पञ्चमूलेन पञ्चकोलेन पाठया।
शालिपर्णीबलाबिल्वैः पृश्निपर्ण्या च साधिता॥१३॥
दाडिमाम्ला हिता पेया कफपित्ते समुल्बणे।
अभयापिप्पलीमूलबिल्वैर्वातानुलोमनी॥१४॥
विबद्धं दोषबहुलो दीप्ताग्निर्योऽतिसार्यते।
कृष्णाविडङ्गत्रिफलाकषायैस्तं विरेचयेत्॥१५॥
पेयां युञ्जयाद्विरिक्तस्य वातघ्नैर्दीपनैः कृताम्।
आमे परिणते यस्तु दीप्तेऽग्नावुपवेश्यते॥१६॥
सफेनपिच्छं सरुजं सविबन्धं पुनः पुनः।
अल्पाल्पमल्पशमलं निर्विड्वा सप्रवाहिकम्॥१७॥
दधितैलघृतक्षीरैः स शुण्ठीं सगुडां पिबेत्।
स्विन्नानि गुडतैलेन भक्षयेद्बदराणि वा॥१८॥
गाढविड्विहितैः शाकैर्बहुस्नेहैस्तथा रसैः।
क्षुधितं भोजयेदेनं दधिदाडिमसाधितैः॥१९॥
शाल्योदनं तिलैर्माषैर्मुद्गैर्वा साधु साधितम्।
शठ्या मूलकपोतायाः पाठायाः स्वस्तिकस्य वा॥२०॥
सूषायवानीकर्कारुक्षीरिणीचिर्भटस्य वा।
उपोदकाया जीवन्त्या बाकुच्या वास्तुकस्य वा॥२१॥
सुवर्चलायाश्चुञ्चोर्वा लोणीकाया रसैरपि।
कूर्मवर्तकलोपाकशिखितित्तिरिकौक्कुटैः॥२२॥
बिल्वमुस्ताक्षिभैषज्यधाकीपुष्पनागरैः।
पक्वातीसारजित्तक्रे यवागूर्दाधिकी तथा॥२३॥
कपित्थकच्छुराफञ्जीयूथिकावटशोलुजैः।
दाडिमीशणकार्पासीशाल्मलीनां च पल्लवैः॥२४॥
कल्को बिल्वशलाटूनां तिलकल्कश्च तत्समः।
दध्नः सरोऽम्लः सस्नेहः ख़लो हन्ति प्रवाहिकाम्॥२५॥
मरिचं धनिकाऽजाजी तित्तिडीकं शठी बिडम्।
दाडिमं धातकी पाठा त्रिफला पञ्चकोलकम्॥२६॥
यावशूकं कपित्थाम्रजम्बूमध्यं सदीप्यकम्।
पिष्टैः षङ्गुणबिल्वैस्तैर्दध्नि मुद्गरसे गुडे॥२७॥
स्नेहे च यमके सिद्धः ख़लोऽयमपराजितः।
दीपनः पाचनो ग्राही रुच्यो बिम्बिशिनाशनः॥२८॥
कोलानां बालबिल्वानां कल्कैः शालियवस्य च।
मुद्गमाषतिलानां च धान्ययूषं प्रकल्पयेत्॥२९॥
एकध्यं यमके भृष्टं दधिदाडिमसारिकम्।
वर्चःक्षये शुष्कमुखं शाल्यन्नं तेन भोजयेत्॥३०॥
दध्नः सरं वा यमके भृष्टं सगुडनागरम्।
सुरां वा यमके भृष्टां व्यञ्जनार्थं प्रयोजयेत्॥३१॥
फलाम्लं यमके भृष्टं यूषं गृञ्जनकस्य वा।
भृष्टान्वा यमके सक्तुन् स्वादेह्योषावचूर्णितान्॥३२॥
माषान् सुसिद्धांस्तद्वद्वा ऋतमण्डोपसेवनान्।
रसं सुसिद्धपूतं वा छागमेषान्तराधिजम्॥३३॥
पचेद्दाडिमसाराम्लं सधान्यस्नेहनागरम्।
रक्तशाल्योदनं तेन भुञ्जानः प्रपिबंश्च तम्॥३४॥
वर्चःक्षयकृतैराशु विकारैः परिमुच्यते।
बालबिल्वं गुडं तैलं पिप्पलीं विश्वभेषजम्॥३५॥
लिह्याद्वाते प्रतिहते सशूलः सप्रवाहिकः।
वल्कलं शाबरं पुष्पं धातक्याबदरीदलम्॥३६॥
पिबेद्दधिसरक्षौद्रकपित्थस्वरसाप्लुतम्।
विबद्धवातवर्चास्तु बहुशूलप्रवाहिकः॥३७॥
सरक्तपिच्छस्तृष्णार्तः क्षीरसौहित्यमर्हति।
यमकस्योपरि क्षीरं धारोष्णं वा प्रयोजयेत्॥३८॥
शृतमेरण्डमूलेन बालबिल्वेन वा पुनः।
पयस्युत्क्वाथ्य मुस्तानां विंशतिं त्रिगुणेऽम्भसि॥३९॥
क्षीरावशिष्टं तत्पीतं हन्यादामं सवेदनम्।
पिप्पल्याः पिबतः सूक्ष्मं रजो मरिचजन्म वा॥४०॥
चिरकालानुषक्ताऽपि नश्यत्याशु प्रवाहिका।
निरामरूपं शूलार्तं लङ्घनाद्यैश्च कर्षितम्॥४१॥
रूक्षकोष्ठमपेक्ष्याग्निं सक्षारं पाययेद् घृतम्।
सिद्धं दधिसुरामण्डे दशमूलस्य चाम्भसि॥४२॥
सिन्धूत्थपञ्चकोलाभ्यां तैलं सद्योर्तिनाशनम्।
षड्भिः शुण्ठ्याः पलैर्द्वाभ्यां द्वाभ्यां ग्रन्थ्यग्निसैन्धवात्॥४३॥
तैलप्रस्थं पचेद्दध्ना निःसारकरुजापहम्।
एकतो मांसदुग्धाज्यं पुरीषग्रहशूलजित्॥४४॥
पानानुवासनाभ्यङ्गप्रयुक्तं तैलमेकतः।
तद्धि वातजितामग्र्यं शूलं च विगुणोऽनिलः॥४५॥
धात्वन्तरोपमर्देद्धश्चलो व्यापी स्वधामगः।
तैलं मन्दानलस्यापि युक्त्या शर्मकरं परम्॥४६॥
वाय्वाशये सतैले हि बिम्बिसी नावतिष्ठते।
क्षीणे मले स्वायतनच्युतेषु दोषान्तरेष्वीरण एकवीरे।
को निष्टनन्प्राणिति कोष्ठशूली नान्तर्बहिस्तैलपरो यदि स्यात्॥४७॥
गुदरुग्भ्रंशयोर्युञ्ज्यात्सक्षीरं साधितं हविः॥४८॥
रसे कोलाम्लचाङ्गेर्योर्दध्नि पिष्टे च नागरे।
तैरेव चाम्लैः संयोज्य सिद्धं सुश्लक्ष्णकल्कितैः॥४९॥
धान्योषणबिडाजाजीपञ्चकोलकदाडिमैः।
योजयेत्स्नेहबस्तिं वा दशमूलेन साधितम्॥५०॥
शठीशताह्वाकुष्ठैर्वा वचया चित्रकेण वा।
प्रवाहणे गुदभ्रंशे मूत्राघाते कटिग्रहे॥५१॥
मधुराम्लैः शृतं तैलं घृतं वाऽप्यनुवासनम्।
प्रवेशयेह्गुदं ध्वस्तमभ्यक्तं स्वेदितं मृदु॥५२॥
कुर्याच्च गोःफणाबन्धं मध्यच्छिद्रेण चर्मणा।
पञ्चमूलस्य महतः क्वाथं क्षीरे विपाचयेत्॥५३॥
उन्दुरं चान्त्ररहितं तेन वातघ्नकल्कवत्।
तैलं पचेद्गुदभ्रंशं पानाभ्यङ्गेन तज्जयेत्॥५४॥
पैत्ते तु सामे तीक्ष्णोष्णवर्ज्यं प्रागिव लङ्घनम्।
तृड्वान् पिबेत् षडङ्गाम्बु सभूनिम्बं ससारिवम्॥५५॥
पेयादि क्षुधितस्यान्नमग्निसन्धुक्षणं हितम्।
बृहत्यादिगणाभीरुद्विबलाशूर्पपर्णिभिः॥५६॥
पाययेदनुबन्धे तु सक्षौद्रं तण्डुलाम्भसा।
कटुजस्य फलं पिष्टं सवल्कं सघुणप्रियम्॥५७॥
पाठावत्सकबीजत्वग्दार्वीग्रन्थिकशुण्ठि वा।
क्वाथं वाऽतिविषाबिल्ववत्सकोदीच्यमुस्तजम्॥५८॥
अथवाऽतिविषामूर्वानिशेन्द्रयवतार्क्ष्यजम्।
समध्वतिविषाशुण्ठीमुस्तेन्द्रयवकट्फलम्॥५९॥
पलं वत्सकबीजस्य श्रपयित्वा रसं पिबेत्।
यो रसाशी जयेच्छीघ्रं स पैत्तं जठरामयम्॥६०॥
मुस्ताकषायमेवं वा पिबेन्मधुसमायुतम्।
सक्षौद्रं शाल्मलीवृन्तकषायं वा हिमाह्वयम्॥६१॥
किराततिक्तकं मुस्तं वत्सकं सरसाञ्जनम्।
कटङ्कटेरी ह्रीबेरं बिल्वमध्यं दुरालभा॥६२॥
तिला मोचरसं रोध्नं समङ्गा कमलोत्पलम्।
नागरं धातकीपुष्पं दाडिमस्य त्वगुत्पलम्॥६३॥
अर्धश्लोकैः स्मृता योगाः सक्षौद्रास्तण्डुलाम्बुना।
निशेन्द्रयवरोध्नैलाक्वाथः पक्वातिसारजित्॥६४॥
रोध्राम्बष्ठाप्रियङ्ग्वादिगणांस्तद्वत् पृथक् पिबेत्।
कट्वङ्गवल्कयष्ट्याह्वफलिनीदाडिमङ्कुरैः॥६५॥
पेयाविलेपीख़लकान् कुर्यात्सदधिदाडिमान्।
तद्वद्दधित्थबिल्वाम्रजम्बुमध्यैः प्रकल्पयेत्॥६६॥
अजापयः प्रयोक्तव्यं निरामे, तेन चेच्छमः।
दोषाधिक्यान्न जायेत बलिनं तं विरेचयेत्॥६७॥
व्यत्यासेन शकृद्रक्तमुपवेश्येत योऽपि वा।
पलाशफलनिर्यूहं युक्तं वा पयसा पिबेत्॥६८॥
ततोऽनु कोष्णं पातव्यं क्षीरमेव यथाबलम्।
प्रवाहिते तेन मले प्रशाम्यत्युदरमयः॥६९॥
पलाशवत्प्रयोज्या वा त्रायमाणा विशोधनी।
संसर्ग्यां क्रियमाणायां शूलं यद्यनुवर्तते॥७०॥
स्रुतदोषस्य तं शीघ्रं यथावह्न्यनुवासयेत्।
शतपुष्पावरीभ्यां च बिल्वेन मधुकेन च॥७१॥
तैलपादं पयोयुक्तं पक्वमन्वासनं घृतम्।
अशान्तावित्यतीसारे पिच्छाबस्तिः परं हितः॥७२॥
परिवेष्ट्य कुशैराद्रैरार्द्रवृन्तानि शाल्मलेः।
कृष्णमृत्तिकयाऽऽलिप्य स्वेदयेद्गोमयाग्निना॥७३॥
मृच्छोषे तानि सङ्क्षुद्य तत्पिण्डं मुष्टिसम्मितम्।
मर्दयेत्पयसः प्रस्थे पूतेनास्थापयेत्ततः॥७४॥
नतयष्ट्याह्वकल्काज्यक्षौद्रतैलवताऽनु च।
स्नातो भुञ्जीत पयसा जाङ्गलेन रसेन वा॥७५॥
पित्तातिसारज्वरशोफगुल्म समीरणास्रग्रहणीविकारान्।
जयत्ययं शीघ्रमतिप्रवृत्तिं विरेचनास्थापनयोश्च बस्तिः॥७६॥
फाणितं कुटजोत्थं च सर्वातीसारनाशनम्।
वत्सकादिसमायुक्तं साम्बष्ठादि समाक्षिकम्॥७७॥
नीरुङ्निरामं दीप्ताग्नेरपि सास्रं चिरोत्थितम्।
नानावर्णमतीसारं पुटपाकैरुपाचरेत्॥७८॥
त्वक्पिण्डाद्दीर्घवृन्तस्य श्रीपर्णीपत्रसंवृतात्।
मृल्लिप्तादग्निना स्विन्नाद्रसं निष्पीडितं हिमम्॥७९॥
अतीसारी पिबेद्युक्तं मधुना सितयाऽथवा।
एवं क्षीरिद्रुमत्वग्भिस्तत्प्ररोहैश्च कल्पयेत्॥८०॥
कट्वङ्गत्वग्घृतयुता स्वेदिता सलिलोष्मणा।
सक्षौद्रा हन्त्यतीसारं बलवन्तमपि द्रुतम्॥८१॥
पित्तातिसारी सेवेत पित्तलान्येव यः पुनः।
रक्तातिसारं कुरुते तस्य पित्तं सतृड्ज्वरम्॥८२॥
दारुणं गुदपाकं च तत्र छागं पयो हितम्।
पद्मोत्पलसमङ्गाभिः शृतं मोचरसेन च॥८३॥
सारिवायष्टिरोध्रैर्वा प्रसवैर्वा वटादिजैः।
सक्षौद्रशर्करं पाने भोजने गुदसेचने॥८४॥
तद्वद्रसादयोऽनम्लाः साज्याः पानान्नयोर्हिताः।
काश्मर्यफलयूषश्च किञ्चिदम्लः सशर्करः॥८५॥
पयस्यर्धोदके छागे ह्रीबेरोत्पलनागरैः।
पेया रक्तातिसारघ्नी पृश्निपर्णीरसान्विता॥८६॥
प्राग्भक्तं नवनीतं वा लिह्यान्मधुसितायुतम्।
बलिन्यस्रेऽस्रमेवाजं मार्गं वा घृतभर्जितम्॥८७॥
क्षीरानुपानं क्षीराशी त्र्यहं क्षीरोद्भवं घृतम्।
कपिञ्जलरसाशी वा लिहन्नारोग्यमश्रुते॥८८॥
पीत्वा शतावरीकल्कं क्षीरेण क्षीरभोजनः।
रक्तातिसारं हन्त्याशु तया वा साधितं घृतम्॥८९॥
लाक्षानागरवैदेहीकटुकादार्विवल्कलैः।
सर्पिः सेन्द्रयवैः सिद्धं पेयामण्डावचारितम्॥९०॥
अतीसारं जयेच्छीघ्रं त्रिदोषमपि दारुणम्।
कृष्णमृच्छङ्ख़यष्ट्याह्वक्षौद्रासृक्तण्डुलोदकम्॥९१॥
जयत्यस्रं प्रियङ्गुश्च तण्डुलाम्बुमधुप्लुता।
कल्कस्तिलानां कृष्णानां शर्करापाञ्चभागिकः॥९२॥
ओजेन पयसा पीतः सद्यो रक्तं नियच्छति।
पीत्वा सशर्कराक्षौद्रं चन्दनं तण्डुलाम्बुना॥९३॥
दाहतृष्णाप्रमोहेभ्यो रक्तस्रावाच्च मुच्यते।
गुदस्य दाहे पाके वा सेकलेपा हिता हिमाः॥९४॥
अल्पाल्पं बहुशो रक्तं सशूलमुपवेश्यते।
यदा विबद्धो वायुश्च कृच्छ्राच्चरति वा न वा॥९५॥
पिच्छाबस्तिं तदा तस्य पूर्वोक्तमुपकल्पयेत्।
पल्लवान् जर्जरीकृत्य शिंशिपाकोविदारयोः॥९६॥
पचेद्यवांश्च स क्वाथो घृतक्षीरसमन्वितः।
पिच्छास्रुतौ गुदभ्रंशे प्रवाहणरुजासु च॥९७॥
पिच्छाबस्तिः प्रयोक्तव्यः क्षतक्षीणबलावहः।
प्रपौण्डरीकसिद्धेन सर्पिषा चानुवासनम्॥९८॥
रक्तं विट्सहितं पूर्वं पश्चाद्वा योऽतिसार्यते।
शतावरीघृतं तस्य लेहार्थमुपकल्पयेत्॥९९॥
शर्करार्धांशकं लीढं नवनीतं नवोद्धृतम्।
क्षौद्रपादं जयेच्छीघ्रं तं विकारं हिताशिनः॥१००॥
न्यग्रोधोदुम्बराश्वत्थशुङ्गानापोथ्य वासयेत्।
अहोरात्रं जले तप्ते घृतं तेनाम्भसा पचेत्॥१०१॥
तदर्धशर्करायुक्तं लेहयेत्क्षौद्रपादिकम्।
अधो वा यदि वाऽयूर्ध्वं यस्य रक्तं प्रवर्तते॥१०२॥
श्लेष्मातिसारे वातोक्तं विशेषादामपाचनम्।
कर्तव्यमनुबन्धेऽस्य पिबेत्पक्त्वाऽग्निदीपनम्॥१०३॥
बिल्वकर्कटिकामुस्तप्राणदाविश्वभेषजम्।
वचाविडङ्गभूतीकधानकामरदारु वा॥१०४॥
अथवा पिप्पलीमूलपिप्पलीद्वयचित्रकम्।
पाठाग्निवत्सकग्रन्थितिक्ताशुण्ठीवचाभयाः॥१०५॥
क्वथिता यदि वा पिष्टाः श्लेष्मातीसारभेषजम्।
सौवर्चलवचाव्योषहिङ्गुप्रतिविषाभयाः॥१०६॥
पिबेच्छ्लेष्मातिसारार्तश्चूर्णिताः कोष्णवारिणा।
मध्यं लीढ्वा कपित्थस्य सव्योषक्षौद्रशर्करम्॥१०७॥
कट्फलं मधुयुक्तं वा मुच्यते जठरामयात्।
कणां मधुयुतां लीढ्वा तक्रं पीत्वा सचित्रकम्॥१०८॥
भुक्त्वा वा बालबिल्वानि व्यपोहत्युदरामयम्।
पाठामोचरसाम्भोदधातकीबिल्वनागरम्॥१०९॥
सुकृच्छ्रमप्यतीसारं गुडतक्रेण नाशयेत्।
यवानीपिप्पलीमूलचातुर्जातकनागरैः॥११०॥
मरीचाग्निजलाजाजीधान्यसौवर्चलैः समैः।
वृषाम्लधातकीकृष्णाबिल्वदाडिमदीप्यकैः॥१११॥
त्रिगुणैः षड्गुणसितैः कपित्थाष्टगुणैः कृतः।
चूर्णोऽतीसारग्रहणीक्षयगुल्मगलामयान्॥११२॥
कासश्वासाग्निसादार्शःपीनसारोचकान् जयेत्।
कर्षोन्मिता तवक्षीरी चातुर्जातं द्विकार्षिकम्॥११३॥
यवानीधान्यकाजाजीग्रन्थिव्योषं पलांशकम्।
पलानि दाडिमादष्टौ सितायाश्चैकतः कृतः॥११४॥
गुणैः कपित्थाष्टकवच्चूर्णोऽयं दाडिमाष्टकः।
भोज्यो वातातिसारोक्तैर्यथावस्थं ख़लादिभिः॥११५॥
सविडङ्गः समरिचः सकपित्थः सनागरः।
चाङ्गेरीतक्रकोलाम्लः ख़लः श्लेष्मातिसारजित्॥११६॥
क्षीणे श्लेष्मणि पूर्वोक्तमम्लं लाक्षादि षट्पलम्।
पुराणं वा घृतं दद्याद्यवागूमण्डमिश्रितम्॥११७॥
वातश्लेष्मविबन्धे वा स्रवत्यति कफेऽपि वा।
शूले प्रवाहिकायां वा पिच्छाबस्तिः प्रशस्यते॥११८॥
वचाबिल्वकणाकुष्ठशताह्वलवणान्वितः।
बिल्वतैलेन तैलेन वचाद्यैः साधितेन वा॥११९॥
बहुशः कफवातार्ते कोष्णेनान्वासनं हितम्।
क्षीणे कफे गुदे दीर्घकालातीसारदुर्बले॥१२०॥
अनिलः प्रबलोऽवश्यं स्वस्थानस्थः प्रजायते।
स बली सहसा हन्यात्तस्मात्तं त्वरया जयेत्॥१२१॥
वायोरनन्तरं पित्तं पित्तस्यानन्तरं कफम्।
जयेत्पूर्वं त्रयाणां वा भवेद्यो बलवत्तमः॥१२२॥
भीशोकाभ्यामपि चलः शीघ्ऱं कुप्यत्यतस्तयोः।
कार्या क्रिया वातहरा हर्षणाश्वासनानि च॥१२३॥
यस्योच्चाराद्विना मूत्रं पवनो वा प्रवर्तते।
दीप्ताग्नेर्लघुकोष्ठस्य शान्तस्तस्योदरामयः॥१२४॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्ग हृदयसंहितायां चतुर्थे चिकित्सितस्थानेऽतीसारचिकित्सितं नाम नवमोऽध्यायः॥९॥