7.मदात्ययादिचिकित्सिताध्यायः
आथातो मदात्ययादिचिकित्सितं व्याख़्यास्यामः।
इति स्माहुरात्रेयादयो महर्षयः।
यं दोषमधिकं पश्येत्तस्यादौ प्रतिकारयेत्।
कफस्थानानुपूर्व्या तुल्यदोषे मदात्यये॥१॥
पित्तमारुतपर्यन्तः प्रायेण हि मदात्ययः।
हीनमिथ्यातिपीतेन यो व्याधिरुपजायते॥२॥
समपीतेन तेनैव मद्येनोपशाम्यति।
मद्यस्य विषसादृश्यात् विषं तूत्कर्षवृत्तिभिः॥३॥
तीक्ष्णादिभिर्गुणैर्योगाद्विषान्तरमपेक्षते।
तीक्ष्णोष्णेनातिमात्रेण पीतेनाम्लविदाहिना॥४॥
मद्येनान्नरसक्लेदो विदग्धः क्षारतां गतः।
यान् कुर्यान्मदतृण्मोहज्वरान्तर्दाहविभ्रमान्॥५॥
मद्योत्क्लिष्टेन दोषेण रुद्धः स्रोतःसु मारुतः।
सुतीव्रा वेदना याश्च शिरस्यस्थिषु सन्धिषु॥६॥
जीर्णाममद्यदोषस्य प्रकाङ्क्षालाघवे सति।
यौगिकं विधिवद्युक्तं मद्यमेव निहन्ति तान्॥७॥
क्षारो हि याति माधुर्यं शीघ्रमम्लोपसंहितः।
मद्यमम्लेषु श्रेष्ठं दोषविष्यन्दनादलम्॥८॥
तीक्ष्णोष्णाद्यैः पुरा प्रोक्तैर्दीपनाद्यैस्तथा गुणैः।
सात्म्यत्वाच्च तदेवास्य धातुसाम्यकरं परम्॥९॥
सप्ताहमष्टरात्रं वा कुर्यात्पानात्ययौषधम्।
जीर्यत्येतावता पानं कालेन विपथाश्रितम्॥१०॥
परं ततोऽनुबध्नाति यो रोगस्तस्य भेषजम्।
यथायथं प्रयुञ्जीत कृतपानात्ययौषधः॥११॥
तत्र वातोल्बणे मद्यं दधातिपिष्टकृतं युतम्।
बीजपूरकव्रुक्षाम्लकोलदाडिमदीप्यकैः॥१२॥
यवानीहपुषाजाजीव्योषत्रिलवणार्द्रकैः।
शुल्यिर्मांसैर्हरितकैः स्नेहवद्भिश्च सकुभिः॥१३॥
उष्णस्निग्धाम्ललवणा मेद्यमांसरसा हिताः।
आम्राम्रातकपेशीभिः संस्कृता रागषाडवाः॥१४॥
गोधूममाषविकृतिर्मृदुश्चित्रा मुखप्रिया।
आर्द्रिकार्द्रककुल्माषसुक्तमांसादिगर्भिणी॥१५॥
सुरभिर्लवणा शीता निर्गदा वाऽच्छवारुणी।
सरसो दाडिमात् क्वाथः पञ्चमूलात्कनीयसः॥१६॥
शुण्ठीधान्यात्तथा मुस्तुसुक्ताम्भोच्छाम्लकाञ्जिकम्
अभ्यङ्गोद्वर्तनस्नानमुष्णं प्रावरणं घनम्॥१७॥
घनश्चागुरुजो धूपः पङ्कश्चागुरुकुङ्कुमः।
कुचोरुश्रोणिशालिन्यो यौवनोष्णाङ्गयष्टयः॥१८॥
हर्षेणालिङ्गने युक्ताः प्रियाः संवाहनेषु च।
पित्तोल्बणे बहुजलं शार्करं मधु वा युतम्॥१९॥
रसैर्दाडिमख़र्जूरभव्यद्राक्षापरूषजैः।
सुशीतं ससितासक्तु योज्यं तादृक् पानकम्॥२०॥
स्वादुवर्गकषायैर्वा युक्तं मद्यं समाक्षिकम्।
शालिषष्टिकमश्नीयाच्छशाजैणकपिञ्जलैः॥२१॥
सतीनमुद्गामलकपटोलीदाडिमै रसैः।
कफपित्तं समुक्त्लिष्टमुल्लिखेत्तृड्विदाहवान्॥२२॥
पीत्वाऽम्बु शीतं मद्यं वा भूरीक्षुरससंयुतम्।
द्राक्षारसं वा संसर्गी तर्पणादिः परं हितः॥२३॥
तथाऽग्निर्दीप्यते तस्य दोषशेषान्नपाचनः।
कासे सरक्तनिष्ठीवे पार्श्वस्तनरुजासु च॥२४॥
तृष्णायां सविदाहायां सोत्क्लेशे हृदयोरसि।
गुडूचीभद्रमुस्तानां पटोलस्याथव रसम्॥२५॥
सशृङ्गबेरं युञ्जीत तित्तिरिप्रतिभोजनम्।
तृष्यते चाति बलवद्वातपित्ते समुद्धते॥२६॥
दद्याद् द्राक्षारसं पानं शीतं दोषानुलोमनम्।
जीर्णेऽद्यान्मधुराम्लेन छागमांसरसेन च॥२७॥
तृष्यल्पशः पिबेन्मद्यं मदं रक्षन् बहूदकम्।
मुस्तदाडिमलाजाम्बु जलं वा पर्णिनीशृतम्॥२८॥
पाटल्युत्पलकन्दैर्वा स्वभावादेव वा हिमम्।
मद्यातिपानादब्धातौ क्षीणे तेजसि चोद्धते॥२९॥
यः शुष्कगलतालोव्ष्ठो जिह्वां निष्कृष्य चेष्टते।
पाययेत्कामतोऽम्भस्तं निशीथपवनाहतम्॥३०॥
कोलदाडिमवृक्षाम्लचुक्रीकाचुक्रिकारसः।
पञ्चाम्लको मुख़ालेपः सद्यस्तृष्णं नियच्छति॥३१॥
त्वचं प्राप्तश्च पानोष्मा पित्तरक्ताभिमूर्च्छितः।
दाहं प्रकुरुते घोरं तत्रातिशिशिरो विधिः॥३२॥
अशाम्यति रसैस्तृप्ते रोहिणीं व्यधयेच्छिराम्।
उल्लेख़नोपवासाभ्यां जयेच्छ्लेष्मोल्बणं पिबेत्॥३३॥
शीतं शुण्ठीस्थिरोदीच्यदुःस्पर्शान्यतमोदकम्।
निरामं क्षुधितं काले पाययेद्वहुमाक्षिकम्॥३४॥
शार्करं मधु वा जीर्णमरिष्टं सीधुमेव वा।
रूक्षतर्पणसंयुक्तं यवानीनागरान्वितम्॥३५॥
यूषेण यवगोधूमं तनुनाऽल्पेन भोजयेत्।
उष्णाम्लकटुतिक्तेन कौलत्थेनाल्पसर्पिषा॥३६॥
शुष्कमूलकजैश्च्छागै रसैर्वा धन्वचारिणाम्।
साम्लवेतसवृक्षाम्लपटोलीव्योषदाडिमैः॥३७॥
प्रभूतशुण्ठीमरिचहरितार्द्रकपेशिकम्।
बीजपूररसाद्यम्लभृष्टनीरसर्वतितम्॥३८॥
करीरकरमर्दादि रोचिष्णु बहुशालनम्।
प्रव्यक्ताष्टाङ्गलवणं विकल्पितनिमर्दकम्॥३९॥
यथाग्नि भक्षयन् मांसं माधवं निगदं पिबेत्।
सितासौवर्चलाजाजीतित्तिडीकाम्लवेतसम्॥४०॥
त्वगेलामरिचार्धांशमष्टाङ्गलवणं हितम्।
स्रोतोविशुद्ध्यग्निकरं कफप्राये मदात्यये॥४१॥
रूक्षोष्णोद्वर्तनोद्धर्षस्नानभोजनलङ्घनैः।
सकामाभिः सह स्त्रीभिर्युक्त्या जागरणेन च॥४२॥
मदात्ययः कफप्रायः शीघ्रं समुपशाम्यति।
यदिदं कर्म निर्दिष्टं पृथग्दोषबलं प्रति॥४३॥
सन्निपाते दशविधे तच्छ्हेषेऽपि विकल्पयेत्।
त्वङ्नागपुष्पमगधामरिचाजाजिधान्यकैः॥४४॥
परुषकमधूकैलासुराह्वैश्च सितान्वितैः।
सकपित्थरसं हृद्यं पानकं शशिबोवितम्॥४५॥
मदात्ययेषु सर्वेषु पेयं रुच्यग्निदीपनम्।
नाविक्षोभ्य मनो मद्यं शरीरमविहन्य वा॥४६॥
कुर्यान्मदात्ययं तस्मादिष्यत हर्षणी क्रिया।
संशुद्धिशमनाद्येषु मददोषः कृतेष्वपि॥४७॥
चेच्छाम्येत्कफे क्षीणे जाते दौर्वल्यलाघवे।
तस्य मद्यविदग्धस्य वातपित्ताधिकस्य च॥४८॥
ग्रीष्मोपतप्तस्य तरोर्यथा वर्षं तथा पयः।
मद्यक्षीणस्य हि क्षीणं क्षीरमाश्वेव पुष्यति॥४९॥
ओजस्तुल्यं गुणैः सर्वैर्विपरीतं मद्यतः।
पयसा विहते रोगे बले जाते निवर्तयेत्॥५०॥
क्षीरप्रयोगं, मद्यं क्रमेणाल्पाल्पमाचरेत्।
विक्षयध्वंसकोत्थैः स्पृशेतोपद्रवैर्यथा॥५१॥
तयोस्तु स्याद्धृ क्षीरं बस्तयो बृंहणाः शिवाः।
अभ्यङ्गोद्वर्तनस्नानान्यन्नपानं वातजित्॥५२॥
युक्तमद्यस्य मद्योत्थो व्याधिरुपाजायते।
अतोऽस्य वक्ष्यते योगो यः सुख़ायैव केवलम्॥५३॥
आश्विनं या महत्तेजो बलं सारस्वतं या।
दधात्यैन्द्रं या वीर्यं प्रभावं वैष्णवं या॥५४॥
अस्त्रं मकरकेतोर्या पुरुषार्थो बलस्य या।
सौत्रामण्यां द्विजमुख़े या हुताशे हूयते॥५५॥
या सर्वौषधिसम्पूर्णान्मथ्यमानात्सुरासुरैः।
महोदधेः समुद्भूता श्रीशशाङ्कामृतैः सह॥५६॥
मधुमाधवमैरेयसीधुगौडासवादिभिः।
मदशक्तिमनुज्ज़न्ती या रूपैर्बहुभिः स्थिता॥५७॥
यामास्वाद्य विलासिन्यो यथार्थं नाम बिभ्रति।
कुलाङ्गनाऽपि यां पीत्वा नयत्युद्धतमानसा॥५८॥
अनङ्गालिङ्गितैरङ्गैः क्वापि चेतो मुनेरपि।
तरङ्गभङ्गभ्रुकुटीतर्जनैर्मानिनीमनः॥५९॥
एकं प्रसाद्य कुरुते या द्वयोरपि निर्वृतिम्।
यथाकामं भटावाप्तिपरिहृष्टाप्सरोगणे॥६०॥
तृणवत्पुरुषा युद्धे यामास्वाद्य त्यजन्त्यसून्।
यां शीलयित्वाऽपि चिरं बहुधा बहुविग्रहाम्॥६१॥
नित्यं हर्षातिवेगेन तत्पूर्वमिव सेवते।
शोकोद्वेगारतिभयैर्यां दृष्ट्वा नाभिभूयते॥६२॥
गोष्ठीमहोत्सवोद्यानं यस्याः शोभते विना।
स्मृत्वा स्मृत्वा बहुशो वियुक्तः शोचते यया॥६३॥
अप्रसन्नाऽपि या प्रीत्यै प्रसन्ना स्वर्ग एव या।
अपीन्द्रं मन्यते दुःस्थं हृदयस्थितया यया॥६४॥
अनिर्देश्यसुख़ास्वादा स्वयंवेद्यैव या परम्।
इति चित्रास्ववस्थासु प्रियामनुकरोति या॥६५॥
प्रियाऽतिप्रियतां याति यत्प्रियस्य विशेषतः।
या प्रीतिर्या रतिर्वा वाग्या पुष्टिरिति स्तुता॥६६॥
देवदानवगन्धर्वयक्षराक्षसमानुषैः।
पानप्रवृत्तौ सत्यां तु तां सुरां विधिना पिबेत्॥६७॥
सम्भवन्ति ते रोगा मेदोनिलकफोद्भवाः।
विधियुक्तादृते मद्याद्ये सिध्यन्ति दारुणाः॥६८॥
अस्ति देहस्य साऽवस्था यस्यां पानं निर्वायते।
अन्यत्र मद्यान्निगदाद्विविधौषधसंस्कृतात्॥६९॥
आनूपं जाङ्गलं मांसं विधिनाऽप्युपकल्पितम्।
मद्यं सहायमप्राप्य सम्यक् परिणमेत्कथम्॥७०॥
सुतीव्रमारुतव्याधिघातिनो लशुनस्य च।
मद्यमांसवियुक्तस्य प्रयोगे स्यात्कियान् गुणः॥७१॥
निगूढशल्याहरणे शस्त्रक्षाराग्निकर्मणि।
पीतमद्यो विषहते सुख़ं वैद्यविकत्थनाम्॥७२॥
अनलोत्तेजनं रुच्यं शोकश्रमविनोदकम्।
चातः परमस्त्यन्यदारोग्यबलपुष्टिकृत्॥७३॥
रक्षता जीवितं तस्मात्पेयमात्मबता सदा।
आश्रितोपाश्रितहितं परमं धर्मसाधनम्॥७४॥
स्रातः प्रणम्य सुरविप्रगुरून् यथास्वं वृत्तिं विधाय समस्तपरिग्रहस्य।
आपानभूमिमथ गन्धजलाभिषीक्तामाहारमण्डपसमीपगतां श्रयेत॥७५॥
स्वास्त्रूतेऽथ शयने कमनीये मित्रभृत्यरमणीसमवेतः।
स्वं यशः कथकचारणसङ्घै रुद्धतं निशमयन्नतिलोकम्॥७६॥
विलासिनीनां विलासशोभिगीतं सनृत्यं कलतूर्यघोषैः।
काञ्चीकलापैश्चलकिङ्किणीकैः क्रीडाविहङ्गैश्च कृतानुनादम्॥७७॥
मणिकनकसमुत्थैरावनेयैर्विचित्रैः सजलविविधलेखक्षो-मवस्त्रावृताङ्गैः।
अपि मुनिजनचित्तक्षोभसम्पादिनीभिश्चकितहरिणलोलप्रेक्षणीभिः प्रियाभिः॥७८॥
स्तननितम्बकृतादतिगौरवादलसमाकुलमीश्वरसम्भ्रमात्।
इति गतं दधतीभिरसंस्थितं तरुणचित्तविलोभनकार्मणम्॥७९॥
यौवनासवमत्ताभिर्विलासाधिष्ठितात्मभिः।
सञ्चार्यमाणं युगपत्तन्वङ्गीभिरितस्ततः॥८०॥
तालवृन्तनलिनीदलानिलैः शीतलीकृतमतीब शीतलैः।
दर्शनेऽपि विदधद्वशानुगं स्वादितं किमुत चित्तजन्मनः॥८१॥
चूतरसेन्दुमृगैः कृतवासं मल्लिकयोज्ज्वलया सनाथम्।
स्फाटिकशुक्तिगतं सतरङ्गं कान्तमनङ्गमिवोद्वहदङ्गम्॥८२॥
तालीसाद्यं चूर्णमेलादिकं वा हृद्यं प्राश्य प्राग्वयःस्थापनं वा।
तत्प्रार्थिभ्यो भूमिभागे सुमृष्टे तोयोन्मिश्रं दापयित्वा ततश्च॥८३॥
घृतिमान् स्मृतिमान्नित्यमनूनाधिकमाचरन्।
उचितेनोपचारेण सर्वमेवोपपादयन्॥८४॥
जितविकसितासितसरो जनयनसङ्क्रान्तिवर्धितश्रीकम्।
कान्टमुखमिव सौरभहृतमधुपगणं पिबेन्मद्यम्॥८५॥
पीत्वैवं चषकद्वयं परिजनं सन्मान्य सर्वं ततो
गत्वाऽऽहारभुवं पुरः सुभिषजो भुञ्जीत भूयोऽत्र च।
मांसापूपघृतार्द्रकादिहरितैर्युक्तं ससौवर्चलै-
र्द्विस्त्रिर्वा निशि चाल्पमेव वनितासंवल्गनार्थं पिबेत्॥८६॥
रहसि दयितामङ्के कृत्वा भुजान्तरपीडना-
त्पुलकिततनुं जातस्वेदां सकम्पपयोधराम्।
यदि सरभसं शीधोर्वारं पाययते कृती
किमनुभवति क्लेशप्ऱ्यं ततो गृहतन्त्रताम्॥८७॥
वरतनुवक्रसङ्गतिसुगन्धितरं सरकं
द्रुतमिव पद्मरागमणिमासवरूपधरम्।
भवति रतिश्रमेण मदः पिबतोऽल्पमपि
क्षयमत ओजसः परिहरन् शयीत परम्॥८८॥
इत्थं युक्त्या पिबन्मद्यं त्रिवर्गाद्विहीयते।
असारसंसारसुख़ं परमं चाधिगच्छति॥८९॥
एश्वर्यस्योपभोगोऽयं स्पृहणीयः सुरैरपि।
अन्यथा हि विपत्सु स्यात्पश्चात्तापेन्धनं धनम्॥९०॥
उपभोगेन रहितो भोगावानिति निन्द्यते।
निर्मितोऽतिकदर्योऽयं विधिना निधिपालकः॥९१॥
तस्माह्यवस्थया पानं पानस्य सततं हितम्।
जित्वा विषयलुब्धानामिन्द्रियाणां स्वतन्त्रताम्॥९२॥
विधिर्वसुमतामेष भविष्यद्वसवस्तु ये।
यथोपपत्ति तैर्मद्यं पातव्यं मात्रया हितम्॥९३॥
यावद् दृष्टेर्न सम्भ्रान्तिर्यावन्न क्षोभते मनः।
तावदेव विरन्तव्यं मद्यादात्मवता सदा॥९४॥
अभ्यङ्गोद्वर्तनस्नानवासधूपानुलेपनैः।
स्निग्धोष्णैर्भावितश्चान्नैः पानं वातोत्तरः पिबेत्॥९५॥
शीतोपचारैर्विविधैर्मधुरस्निग्धशीतलैः।
पैत्तिको भवितश्चान्नैः पिबन्मद्यं सीदति॥९६॥
उपचारैरशिशिरैर्यवगोधूमभुक् पिबेत्।
ष्लैष्मिको धन्वजैर्मांसैर्मद्यं मारिचिकैः सह॥९७॥
तत्र वाते हितं मद्यं प्रायः पैष्टिकगौडिकम्।
पित्ते साम्भोमधु, काफे मार्द्वीकारिष्टमधवम्॥९८॥
प्राक् पिबेच्छ्लैष्मिको मद्यं, भुक्तस्योपरि पैत्तिकः।
वातिकस्तु पिबेन्मध्ये, समदोषो यथेच्छया॥१९॥
इति मदात्ययचिकित्सितम्॥२॥
अथ मदमूर्च्छायचिकित्सितम्।
मदेषु वातपित्तघ्नं प्रायो मूर्च्छासु चेष्यते।
सर्वत्रापि विशेषेण पित्तमेवोपलक्षयेत्॥१००॥
शीताः प्रदेहा मणयः सेका व्यजनमारुताः।
सिता द्राक्षेक्षुखर्जूरकाश्मर्यस्वरसाः पयः॥१०१॥
सिद्धं मधुरवर्गेण रसा यूषाः सदाडिमाः।
षष्टिकाः शालयो रक्ता यवाः सर्पिश्च जीवनम्॥१०२॥
कल्याणकं महातिक्तं षट्पलं पयसाऽग्निकः।
पिप्पल्यो वा शिलाह्वं वा रसायनविधानतः॥१०३॥
त्रिफला वा प्रयोक्तव्या सऋतक्षौद्रशर्करा।
प्रसक्तवेगेषु हितं मुखनासावरोधनम्॥१०४॥
पिबेद्वा मानुषीक्षीरं तेन दद्याच्च नावनम्।
मृणालबिसकृष्णा वा लिह्यात्खौद्रेण साभयाः॥१०५॥
दुरालभां वा मुस्तं वा शीतेन सलिलेन वा।
पिबेन्मरिचकोलास्थिमज्जोशीराहिकेसरम्॥१०६॥
धात्रीफलरसे सिद्धं पथ्याक्वाथेन वा घृतम्।
कुर्यात्क्रियां यथोक्तां यथादोषबलोदयम्॥१०७॥
पञ्चकर्माणि चेष्टानि सेचनं शोणितस्य च।
सत्त्वस्यालम्बनं ज्ञानमगृद्धिर्विषयेषु च॥१०८॥
मदेष्वतिप्रवृद्धेषु मूर्च्छायेषु योजयेत्।
तीक्ष्णं सन्न्यासविहितं विषघ्नं विषजेषु च॥१०९॥
इति मदमूर्च्छायचिकित्सितम्।
अथ सन्न्यासचिकित्सितम्।
आशु प्रयोज्यं सन्न्यासे सुतीक्ष्णं नस्यमञ्जनम्।
धूमः प्रधमनं तोदः सूचीभिश्च नखान्तरे॥११०॥
केशानां लुञ्चनं दाहो दंशो दशनवृश्चिकैः।
कट्वम्लगालनं वक्रे कपिकच्छ्ववघर्षणम्॥१११॥
उत्थितो लब्धसंज्ञश्च लशुनस्वरसं पिबेत्।
खादेत्सव्योषलवणं बीजपूरककेसरम्॥११२॥
लघ्वन्नप्रति तीक्ष्णोष्णमद्यात्स्रोतोविशुद्धये।
विस्मापनैः संस्मरणैः प्रियश्रवणदर्शनैः॥११३॥
पटुभिर्गीतवादित्रशब्दैर्व्यायामशीलनैः।
स्रंसनोल्लेख़नैर्धूमैः शोणितस्यावसेचनैः॥११४॥
उपाचरेत्तं प्रततमनुबन्धभयात्पुनः।
तस्य संरक्षितव्यं मनः प्रलयहेतुतः॥११५॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्ग हृदयसईहितायां चतुर्थे चिकित्सितस्थाने मदात्ययादिचिकित्सितं नाम सप्तमोऽध्यायः॥७॥