9.द्रव्यादिविज्ञानीयाध्यायः
अथातो द्रव्यादिविज्ञानीयमध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः।
द्रव्यमेव रसादीनां श्रेष्ठं, ते हि तदाश्रयाः।
पञ्चभूतात्मकं तत्तु क्ष्मामधिष्ठाय जायते॥१॥
अम्बुयोन्यग्निपवननभसां समवायतः।
तन्निर्वृत्तिर्विशेषश्च व्यपदेशस्तु भूयसा॥२॥
तस्मान्नैकरसं द्रव्यं भूतसङ्घातसम्भवात्।
नैकदोषास्ततो रोगास्तत्र व्यक्तो रसः स्मृतः॥३॥
अव्यक्तोऽनुरसः किञ्चिदन्ते व्यक्तोऽपि चेष्यते।
गुर्वादयो गुणा द्रव्ये पृथिव्यादौ रसाश्रये॥४॥
रसेषु व्यपदिश्यन्ते साहचर्योपचारतः।
तत्र द्रव्यं गुरुस्थूलस्थिरगन्धगुणोल्बणम्॥५॥
पार्थिवं गौरवस्थैर्यसङ्घातोपचयावहम्।
द्रवशीतगुरुस्निग्धमन्दसान्द्ररसोल्बणम्॥६॥
आप्यं स्नेहनविष्यन्दक्लेदप्रह्लादबन्धकृत्।
रूक्षतीक्ष्णोष्णविशदसूक्ष्मरूपगुणोल्बणम्॥७॥
आग्नेयं दाहभावर्णप्रकाशपचनात्मकम्।
वायव्यं रूक्षविशदलग़ुस्पर्शगुणोल्बणम्॥८॥
रौक्ष्यलाग़ववैशद्यविचारग्लानिकारकम्।
नाभसं सूक्ष्मविशदलघुशब्दगुणोल्बणम्॥९॥
सौषिर्यलाघवकरम् जगत्येवमनौषधम्।
न किञ्चिद्विद्यते द्रव्यं वशान्नानार्थयोगयोः॥१०॥
द्रव्यमूर्ध्वगमं तत्र प्रायोऽग्निपवनोत्कटम्।
अधोगामि च भूयिष्ठं भूमितोयगुणाधिकम्॥११॥
इति द्रव्यम् रसान् भेदैरुत्तरत्रोपदेक्ष्यते।
वीर्यं पुनर्वदन्त्येके गुरु स्निग्धं हिमं मृदु॥१२॥
लघु रूक्षोष्णतीक्ष्णं च तदेवं मतमष्टधा।
चरकस्त्वाह वीर्यं तत् क्रियते येन या क्रिया॥१३॥
नावीर्यं कुरुते किञ्चित्सर्वा वीर्यकृता हि सा।
गुर्वादिष्वेव वीर्याख्या तेनान्वर्थेति वर्ण्यते॥१४॥
समग्रगुणसारेषु शक्त्युत्कर्षविवर्तिषु।
व्यवहाराय मुख्यत्वाद्बह्वग्रग्रहणादपि॥१५॥
अतश्च विपरीतत्वात्सम्भवत्यपि नैव सा।
विवक्ष्यते रसाद्येषु, वीर्यं गुर्वादयो ह्यतः॥१६॥
उष्णं शीतं द्विधैवान्ये वीर्यमाचक्षते
अपि च।
नानात्मकमपि द्रव्यमग्निषोमौ महाबलौ॥१७॥
व्यक्ताव्यक्तं जगदिव नातिक्रामति जातुचित्।
तत्रोष्णं भ्रमतृड्ग्लानिस्वेददाहाशुपाकिताः॥१८॥
शमं च वातकफयोः करोति, शिशिरं पुनः।
ह्लादनं जीवनं स्तम्भं प्रसादं रक्तपित्तयोः॥१९॥
जाठरेणाग्निना योगाद्यदुदेति रसान्तरम्।
रसानां परिणामान्ते स विपाक इति स्मृतः॥२०॥
स्वादुः पटुश्च मधुरमम्लोऽम्लं पच्यते रसः।
तिक्तोषणकषायाणां विपाकः प्रायशः कटुः॥२१॥
रसैरसौ तुल्यफलस्तत्र द्रव्यं शुभाशुभम्।
किञ्चिद्रसेन कुरुते कर्म पाकेन चापरम्॥२२॥
गुणान्तरेण वीर्येण प्रभावेणैव किञ्चिन।
यद्यद्द्रव्ये रसादीनां बलवत्त्वेन वर्तते॥२३॥
अभिभूयेतरांस्तत्तत्कारणत्वं प्रपद्यते।
विरुद्धगुणसंयोगे भूयसाऽल्पं हि जीयते॥२४॥
रसं विपाकस्तौ वीर्यं प्रभावस्तान्यपोहति।
बलसाम्ये रसादीनामिति नैसर्गिकं बलम्॥२५॥
रसादिसाम्ये यत् कर्म विशिष्टं तत् प्रभावजम्।
दन्ती रसाद्यैस्तुल्याऽपि चित्रकस्य विरेचनी॥२६॥
मधुकस्य च मृद्वीका, घृतं क्षीरस्य दीपनम्।
इति सामान्यतः कर्म द्रव्यादीनां, पुनश्च तत्॥२७॥
विचित्रप्रत्ययारब्धद्रव्यभेदेन भिद्यते।
स्वादुर्गुरुश्च गोधूमो वातजिद्वातकृद्यवः॥२८॥
उष्णा मत्स्याः पयः शीतं कटुः सिंहो न शूकरः॥२८१/२॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने द्रव्यादिविज्ञानीयो नाम नवमोऽध्यायः॥९॥