10.रसभेदीयाध्यायः
अथातो रसभेदीयमध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः।
क्ष्माम्भोग्निक्ष्माम्बुतेजः खवाय्वग्न्यनिलगोनिलैः।
द्वयोल्बणैः क्रमाद्भूतैर्मधुरादिरसोद्भवः॥१॥
तेषां विद्याद्रसं स्वादु यो वक्त्रमनुलिम्पति।
आस्वाद्यमानो देहस्य ह्लादनोऽक्षप्रसादनः॥२॥
प्रियः पिपीलिकादीनाम् अम्लः क्षालयते मुखम्।
हर्षणो रोमदन्तानामक्षिभ्रुवनिकोचनः॥३॥
लवणः स्यन्दयत्यास्यं कपोलगलदाहकृत्।
तिक्तो विशदयत्यास्यं रसनं प्रतिहन्ति च॥४॥
उद्वेजयति जिह्वाग्रं कुर्वंश्चिमिचिमां कटुः।
स्रावयत्यक्षिनासास्य कपोलौ दहतीव च॥५॥
कषायो जडयेज्जिह्वां कण्ठस्रोतोविबन्धकृत्।
रसानामिति रूपाणि कर्माणि मधुरो रसः॥६॥
आजन्मसात्म्यात्कुरुते धातूनां प्रबलं बलम्।
बालवृद्धक्षतक्षीणवर्णकेशेन्द्रियौजसाम्॥७॥
प्रशस्तो बृंहणः कण्ठ्यः स्तन्यसन्धानकृद्गुरुः।
आयुष्यो जीवनः स्निग्धः पित्तानिलविषापहः॥८॥
कुरुतेऽप्युपयोगेन स मेदःश्लेष्मजान् गदान्।
स्थौल्याग्निसादसन्न्यासमेहगण्डार्बुदादिकान्॥९॥
अम्लोऽग्निदीप्तिकृत्स्निग्धो हृद्यः पाचनरोचनः।
उष्णवीर्यो हिमस्पर्शः प्रीणनः क्लेदनो लग़ुः॥१०॥
करोति कफपितास्रं मूढवातानुलोमनः।
सोऽत्यभ्यस्तस्तनोः कुर्याच्छैथिल्यं तिमिरं भ्रमम्॥११॥
कण्डुपाण्डुत्ववीसर्पशोफविस्फोटतृड्ज्वरान्।
लवणः स्तम्भसङ्ग़ातबन्धविध्मापनोऽग्निकृत्॥१२॥
स्नेहनः स्वेदनस्तीक्ष्णो रोचनश्छेदभेदकृत्।
सोऽतियुक्तोऽस्रपवनं ख़लतिं पलितं वलिम्॥१३॥
तृट्रकूष्ठविषवीसर्पान् जनयेत्क्षपयेद्धलम्।
तिक्तः स्वयमरोचिष्णुररुचिं कृमितृड्विषम्॥१४॥
कुष्ठमूर्च्छाज्वरोत्क्लेशदाहपित्तकफान् जयेत्।
क्लेदमेदोवसामज्जशकृन्मूत्रोपशोषणः॥१५॥
लघुर्मेध्यो हिमो रूक्षः स्तन्यकण्ठविशोधनः।
धातुक्षयानिलव्याधीनतियोगात्करोति सः॥१६॥
कटुर्गलामयोदर्दकुष्ठालसकशोफजित्।
व्रणावसादनः स्नेहमेदःक्लेदोपशोषणः॥१७॥
दीपनः पाचनो रुच्यः शोधनोऽन्नस्य शोषणः।
छिनत्ति बन्धान् स्रोतांसि विवृणोति कफापहः॥१८॥
कुरुते सोऽतियोगेन तृष्णां शुक्रबलक्षयम्।
मूर्च्छामाकुञ्चनं कम्पं कटिपृष्ठादिषु व्यथाम्॥१९॥
कषायः पित्तकफहा गुरुरस्रविशोधनः।
पीडनो रोपणः शीतः क्लेदमेदोविशोषणः॥२०॥
आमसंस्तम्भनो ग्राहि रूक्षोऽति त्वक्प्रसादनः।
करोति शीलितः सोऽति विष्टम्भाध्मानहृद्रुजः॥२१॥
तृट्कार्श्यपौरुषभ्रंशस्रोतोरोधमलग्रहान्।
घृतहेमगुडाक्षोडमोचचोचपरूषकम्॥२२॥
अभीरुवीरापनसराजादनबलात्रयम्।
मेदे चतस्रः पर्णिन्यो जीवन्ती जीवकर्षभौ॥२३॥
मधूकं मधुकं बिम्बी विदारी श्रावणीयुगम्।
क्षीरशुक्ला तुगाक्षीरी क्षीरिण्यौ काश्मरी सहे॥२४॥
क्षीरेक्षुगोक्षुरक्षौद्रद्राक्षादिर्मधुरो गणः।
अम्लो धात्रीफलाम्लीकामातुलुङ्गाम्लवेतसम्॥२५॥
दाडिमं रजतं तक्रं चुक्रं पालेवतं दधि।
आम्रमाम्रातकं भव्यं कपित्थं करमर्दकम्॥२६॥
वरं सौवर्चलं कृष्णं बिडं सामुद्रमौद्भिदम्।
रोमकं पांसुजं शीसं क्षारश्च लवणो गणः॥२७॥
तिक्तः पटोली त्रायन्ती वालकोशीरचन्दनम्।
भूनिम्बनिम्बकटुकातगरागुरुवत्सकम्॥२८॥
नक्तमालद्विरजनीमुस्तमूर्वाटरूषकम्।
पाठापामार्गकांस्यायोगुडूचीधन्वयासकम्॥२९॥
पञ्चमूलं महद्व्याघ्र्यौ विशालाऽतिविषा वचा।
कटुको हिड्गुमरिचकृमिजित्पञ्चकोलकम्॥३०॥
कुठेराद्या हरितकाः पित्तं मूत्रमरुष्करम्।
वर्गः कषायः पथ्याऽक्षं शिरीषः खदिरो मधु॥३१॥
कदम्बोदुम्बरं मुक्ताप्रवालाञ्जनगैरिकम्।
बालं कपित्थं खर्जूरं बिसपद्मोत्पलादि च॥३२॥
मधुरं श्लेष्मलं प्रायो जीर्णाच्छालियवादृते।
मुद्गाद्गोधूमतः क्षौद्रात्सिताया जाङ्गलामिषात्॥३३॥
प्रायोऽम्लं पित्तजननं दाडिमामलकादृते।
अपथ्यं लवणं प्रायश्चक्षुषोऽन्यत्र सैन्धवात्॥३४॥
तिक्तं कटु च भूयिष्ठमवृष्यं वातकोपनम्।
ऋतेऽमृतापटोलीभ्यां शुण्ठीकृष्णारसोनतः॥३५॥
कषायं प्रायशः शीतं स्तम्भनं चाभयां विना।
रसाः कट्वम्ललवणा वीर्येणोष्णा यथोत्तरम्॥३६॥
तिक्तः कषायो मधुरस्तद्वदेव च शीतलाः।
तिक्तः कटुः कषायश्च रूक्षा बद्धमलास्तथा॥३७॥
पट्वम्लमधुराः स्निग्धाः सृष्टविण्मूत्रमारुताः।
पटोः कषायस्तस्माच्च मधुरः परमं गुरुः॥३८॥
लघुरम्लः कटुस्तस्मात्तस्मादपि च तिक्तकः।
संयोगाः सप्तपञ्चाशत्कल्पना तु त्रिषष्टिधा॥३९॥
रसानां यौगिकत्वेन यथास्थूलं विभज्यते।
एकैकहीनास्तान् पञ्चदश यान्ति रसा द्विके॥४०॥
त्रिके स्वादुर्दशाम्लः षट् त्रीन् पटुस्तिक्त एककम्।
चतुष्केषु दश स्वादुश्चतुरोऽम्लः पटुः सकृत्॥४१॥
पञ्चकेष्वेकमेवाम्लो मधुरः पञ्च सेवते।
द्रव्यमेकं षडास्वादमसंयुक्ताश्च षड्रसाः॥४२॥
षट् पञ्चकाः, षट् च पृथग्रसाः स्युश्चतुर्द्विकौ पञ्चदशप्रकारौ।
भेदास्त्रिका विंशतिरेकमेव द्रव्यं षडास्वादमिति त्रिषष्टिः॥४३॥
ते रसानुरसतो रसभेदास्तारतम्यपरिकल्पनाय च।
सम्भवन्ति गणनां समतीता दोषभेषजवशादुपयोज्याः॥४४॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने रसभेदीयो नाम दशमोऽध्यायः॥१०॥