15.शोधनादिगणसङ्ग्रहो अध्यायः
अथातःशोधनादिगणसङ्ग्रहमध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः।
मदनमधुकलम्बानिम्बबिम्बीविशाला त्रपुसकुटजमूर्वादेवदालीकृमिघ्नम्।
विदुलदहनचित्राः कोशवत्यौ करञ्जः कणलवणवचैलासर्षपाश्र्छर्दनानि॥१॥
निकुम्भकुम्भत्रिफलागवाक्षी स्रुक्शङ्खिनीनीलिनितिल्वकानि।
शम्याककम्पिल्लकहेमदुग्धा दुग्धं च मूत्रं च विरेचनानि॥२॥
मदनकुटजकुष्ठदेवदाली मधुकवचादशमूलदारुरास्नाः।
यवमिशिकृतवेधनं कुलत्था मधु लवणं त्रिवृता निरूहणानि॥३॥
वेल्लापामार्गव्योषदार्वीसुराला बीजं शैरीषं बार्हतं शैग्रवं च।
सारो माधूकः सैन्धवं तार्क्ष्यशैलं त्रुट्यौ पृथ्वीका शोधयन्त्युत्तमाङ्गम्॥४॥
भद्रदारु नतं कुष्ठं दशमूलं बलाद्वयम्।
वायुं वीरतरादिश्च विदार्यादिश्च नाशयेत्॥५॥
दूर्वाऽनन्ता निम्बवासाऽऽत्मगुप्ता गुन्द्राऽभीरुः शीतपाकी प्रियङ्गुः।
न्यग्रोधादिः पद्मकादिः स्थिरे द्वे पद्मं वन्यं सारिवादिश्च पित्तम्॥६॥
आरग्वधादिरर्कादिर्मुष्ककाद्योऽसनादिकः।
सुरसादिः समुस्तादिर्वत्सकादिर्बलासजित्॥७॥
जीवन्ति काकोल्यौ मेदे द्वे मुद्गमाषपर्ण्यौ च।
ॠषभकजीवकमधुकं चेति गणो जीवनीयाख्यः॥८॥
विदारिपञ्चाङ्गुलवृश्चिकाली वृश्चीवदेवाह्वयशूर्पपर्ण्यः।
कण्डूकरी जीवनह्रस्वसंज्ञे द्वे पञ्चके गोपसुता त्रिपादी॥९॥
विदार्यादिरयं हृद्यो ब्रूंहणो वातपित्तहा।
शोषगुल्माङ्गमर्दोर्ध्वश्वासकासहरो गणः॥१०॥
सारिवोशीरकाश्मर्यमधूकशिशिरद्वयम्।
यष्टी परूषकं हन्ति दाहपित्तास्रतृड्ज्वरान्॥११॥
पद्मकपुण्ड्रौ वृद्धितुगर्द्य्धः शृङ्ग्यमृता दश जीवनसंज्ञाः।
स्तन्यकरा घ्नन्तीरणपित्तं प्रीणनजीवनबृंहणवृष्याः॥१२॥
परूषकं वरा द्राक्षा कट्फलं कतकात् फलम्।
राजाह्वं दाडिमं शाकं तृण्मूत्रामयवातजित्॥१३॥
अञ्जनं फलिनी मांसी पद्मोत्पलरसाञ्जनम्।
सैलामधुकनागाह्वं विषान्तर्दाहपित्तनुत्॥१४॥
पटोलकटुरोहिणीचन्दनं मधुस्रवगुडूचिपाठान्वितम्।
निहन्ति कफपित्तकुष्ठज्वरान् विषं वमिमरोचकं कामलाम्॥१५॥
गुडूचीपद्मकारिष्टधानकारक्तचन्दनम्।
पित्तश्लेष्मज्वरच्छर्दिदाहतृष्णाघ्नमग्निकृत्॥१६॥
आरग्वधेन्द्रयवपाटलिकाकतिक्ता निम्बामृतामधुरसास्रुववृक्षपाठाः।
भूनिम्बसैर्यक्रपतोलकरञ्जयुग्म सप्तच्छदाग्निसुषवीफलबाणघोण्टाः॥१७॥
आरग्वधादिर्जयति छर्दिकुष्ठविषज्वरान्।
कफं कण्डूं प्रमेहं च दुष्टव्रणविशोधनः॥१८॥
असनतिनिशभूर्जश्वेतवाहप्रकीर्याः खदिरकदरभण्डीशिंशिपामेषशृङ्ग्यः।
त्रिहिमतलपलाशा जोङ्गकः शाकशालौ क्रमुकधवकलिङ्गच्छापकर्णाश्वकर्णाः॥१९॥
असनादिर्विजयते श्वित्रकुष्ठकफक्रिमीन्।
पाण्डुरोगं प्रमेहं च मेदोदोषनिबर्हणः॥२०॥
वरुणसैर्यकयुग्मशतावरी दहनमोरटबिल्वविषाणिकाः।
द्विबृहतीद्विकरञ्जजयाद्वयं बहलपल्लवदर्भरुजाकराः॥२१॥
वरुणादिः कफं मेदो मन्दाग्नित्वं नियच्छति।
आढ्यवातं शिरःशूलं गुल्मं चान्तः सविद्रधिम्॥२२॥
ऊषकस्तुत्थकं हिङ्गु कासीसद्वयसैन्धवम्।
सशिलाजतु कृच्छ्राश्मगुल्ममेदःकफापहम्॥२३॥
वेल्लन्तरारणिकबूकवृषाश्मभेद गोकण्टकेत्कटसहाचरबाणकाशाः।
वृक्षादनीनलकुशद्वयगुण्ठगुन्द्रा भल्लूकमोरटकुरण्टकरम्भपार्थाः॥२४॥
वर्गो वीरतराद्योऽयं हन्ति वातकृतान् गदान्।
अश्मरीशर्करामूत्रकृच्छ्राघातरुजाहरः॥२५॥
रोध्रशाबरकरोध्रपलाशा जिङ्गिणीसरलकट्फलयुक्ताः।
कुत्सिताम्बकदलीगतशोकाः सैलवालुपरिपेलवमोचाः॥२६॥
एष रोध्रादिको नाम मेदः कफहरो गणः।
योनिदोषहरः स्तम्भी वर्ण्यो विषविनाशनः॥२७॥
अर्कालर्कौ नागदन्ती विशल्या भार्ङ्गी रास्ना वृश्चिकाली प्रकीर्या।
प्रत्यक्पुष्पी पीततैलोदकीर्या श्वेतायुग्मं तापसानां च वृक्षः॥२८॥
अयमर्कादिको वर्गः कफमेदोविषापहः।
कृमिकुष्ठप्रशमनो विशेषाद्व्रणशोधनः॥२९॥
सुरसयुगफणिज्जं कालमाला विडङ्गं खरबुसवृषकर्णीकट्फलं कासमर्दः।
क्षवकसरसिभाङ्गीकार्मुकाः काकमाची कुलहलविषमुष्टीभूस्तृणो भूतकेशी॥३०॥
सुरसादिर्गणः श्लेष्ममेदःकृमिनिषूदनः।
प्रतिश्यायारुचिश्वासकासघ्नो व्रणशोधनः॥३१॥
मुष्ककस्नुग्वराद्वीपिपलाशधवशिंशिपाः।
गुल्ममेहाश्मरीपाण्डुमेदोर्शःकफशुक्रजित्॥३२॥
वत्सकमूर्वाभार्ङ्गी कटुका मरीचं घुणप्रिया च गण्डीरम्।
एला पाठाऽजाजी कट्वङ्गफलाजमोदसिद्धार्थवचाः॥३३॥
जीरकहिङ्गुविडङ्गं पशुगन्धा पञ्चकोलकं हन्ति।
चलकफमेदःपीनसगुल्मज्वरशूलदुर्नाम्नः॥३४॥
वचाजलददेवाह्वनागरातिविषाभयाः।
हरिद्राद्वययष्ट्याह्वकलशीकुटजोद्भवाः॥३५॥
वचाहरिद्रादिगणावामातीसारनाशनौ।
मेदःकफाढ्यपवनस्तन्यदोषनिबर्हणौ॥३६॥
प्रियङ्गुपुष्पाञ्जनयुग्मपद्माः पद्माद्रजो योजनवल्ल्यनन्ता।
मानद्रुमो मोचरसः समङ्गा पुन्नागशीतं मदनीयहेतुः॥३७॥
अम्बष्ठा मधुकं नमस्करी नन्दीवृक्षपलाशकच्छुराः।
रोध्रं धातकिबिल्वपेशिके कट्वङ्गः कमलोद्भवं रजः॥३८॥
गणौ प्रियड्ग्वम्बष्ठादी पक्वातीसारनाशनौ।
सन्धानीयौ हितौ पित्ते व्रणानामपि रोपणौ॥३९॥
मुस्तावचाग्निद्विनिशाद्वितिक्ता भल्लातपाठात्रिफलाविषाख्याः।
कुष्ठं त्रुटी हैमवती च योनि स्तन्यामयघ्ना मलपाचनाश्च॥४०॥
न्यग्रोधपिप्पलसदाफलरोध्रयुग्मं जम्बूद्वयार्जुनकपीतनसोमवल्काः।
प्लक्षाम्रवञ्जुलपियालपलाशनन्दी कोलीकदम्बविरलामधुकं मधूकम्॥४१॥
न्यग्रोधादिर्गणो व्रण्यः सङ्ग्राही भग्नसाधनः।
मेदःपित्तास्रतृड्दाहयोनिरोगनिबर्हणः॥४२॥
एलायुग्मतुरुष्ककुष्ठफलिनीमांसीजलध्यामकं
स्पृक्काचोरकचोचपत्रतगरस्थौणेयजातीरसाः।
शुक्तिर्व्याघ्रनखोऽमराह्वमगुरुः श्रीवासकः कुङ्कुमं
चण्डागुग्गुलुदेवधूपखपुराः पुन्नागनागाह्वयम्॥४३॥
एलादिको वातकफौ विषं च विनियच्छति।
वर्णप्रसादनः कण्डूपिटिकाकोठनाशनः॥४४॥
श्यामादन्तीद्रवन्तीक्रमुककुटरणा शङ्खिनीचर्मसाह्वा-
स्वर्णक्षीरीगवाक्षीशिखरिरजनक च्छिन्नरोहाकरञ्जाः।
बस्तान्त्री व्याधिघातो बहलबहुरस क्ष्णवृक्षात् फलानि
श्यामाद्यो हन्ति गुल्मं विषमरुचिकफौ हृद्रुजं मूत्रकृच्छ्रम्॥४५॥
त्रयस्त्रिंशदिति प्रोक्ता वर्गास्तेषु त्वलाभतः।
युञ्ज्यात्तद्विधमन्यच्च द्रव्यं जह्यादयौगिकम्॥४६॥
एते वर्गा दोषदूष्याद्यपेक्ष्य कल्कक्काथस्नेहलेहादियुक्ताः।
पाने नस्येऽन्वासनेऽन्तर्बहिर्वा लेपाभ्यङ्गैर्घ्नन्ति रोगान् सुकृच्छ्रान्॥४७॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने शोधनादिगणसङ्ग्रहो नाम पञ्चदशोऽध्यायः॥१५॥