14.द्विविधोपक्रमणीयाध्यायः
अथातो द्विविधोपक्रमणीयमध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः।
उपक्रम्यस्य हि द्वित्वाद्द्विधैवोपक्रमो मतः।
एकः सन्तर्पणस्तत्र द्वितीयश्चापतर्पणः॥१॥
बृंहणो लङ्घनश्चेति तत्पर्यायावुदाहृतौ।
बृंहणं यद्बृहत्वाय लङ्घनं लाघवाय यत्॥२॥
देहस्य भवतः प्रायो भौमापमितरच्च ते।
स्नेहनं रूक्षणं कर्म स्वेदनं स्तम्भनं च यत्॥३॥
भूतानां तदपि द्वैध्याद्द्वितयं नातिवर्तते।
शोधनं शमनं चेति द्विधा तत्रापि लङ्घनम्॥४॥
यदीरयेद्वहिर्दोषान् पञ्चधा शोधनं च तत्।
निरूहो वमनं कायशिरोरेकोऽस्रविस्रुतिः॥५॥
न शोधयति यद्दोषान् समान्नोदीरयत्यपि।
समीकरोति विषमान् शमनं तच्च सप्तधा॥६॥
पाचनं दीपनं क्षुत्तृड्व्यायामातपमारुताः।
बृंहणं शमनं त्वेव वायोः पित्तानिलस्य च॥७॥
बृंहयेद्व्याधिभैषज्यमद्यस्त्रीशोककर्शितान्।
भाराध्वोरःक्षतक्षीणरूक्षदुर्बलवातलान्॥८॥
गर्भिणीसूतिकाबालवृद्धान् ग्रीष्मेऽपरानपि।
मांसक्षीरसितासर्पिर्मधुरस्निग्धबस्तिभिः॥९॥
स्वप्नशय्यासुखाभ्यङ्गस्नाननिर्वृतिहर्षणैः।
मेहामदोषातिस्निग्धज्वरोरुस्तम्भकुष्ठिनः॥१०॥
विसर्पविद्राधिप्लीहशिरःकण्ठाक्षिरोगिणः।
स्थूलांश्च लङ्घयेन्नित्यं शिशिरे त्वपरानपि॥११॥
तत्र संशोधनैः स्थौल्यबलपित्तकफाधिकान्।
आमदोषज्वरच्छर्दिरतीसारहृदामयैः॥१२॥
विबन्धगौरवोद्गारहृल्लासादिभिरातुरान्।
मध्यस्थौल्यादिकान् प्रायः पूर्वं पाचनदीपनैः॥१३॥
एभिरेवामयैरार्तान् हीनस्थौल्यबलादिकान्।
क्षुत्तृष्णानिग्रहैर्दोषैस्त्वार्तान् मध्यबलैर्दृढान्॥१४॥
समीरणातपायासैः किमुताल्पबलैर्नरान्।
न बृंहयेल्लङ्घनीयान् बृंह्यांस्तु मृदु लङ्घयेत्॥१५॥
युक्त्या वा देशकालादिबलतस्तानुपाचरेत्।
बॄंहिते स्याद्बलं पुष्टिस्तत्साध्यामयसङ्क्षयः॥१६॥
विमलेन्द्रियता सर्गो मलानां लाघवं रुचिः।
क्षुत्तृट्सहोदयः शुद्धहृदयोद्गारकण्ठता॥१७॥
व्याधिमार्दवमुत्साहस्तन्द्रानाशश्च लङ्घिते।
अनपेक्षितमात्रादिसेविते कुरुतस्तु ते॥१८॥
अतिस्थौल्यातिकार्श्यादीन्, वक्ष्यन्ते च सौषधाः।
रूपं तैरेव च ज्ञेयमतिबृंहितलङ्घिते॥१९॥
अतिस्थौल्यापचीमेहज्वरोदरभगन्दरान्।
काससन्न्यासकृच्छ्रामकुष्ठादीनतिदारुणान्॥२०॥
तत्र मेदोनिलश्लेष्मनाशनं सर्वमिष्यते।
कुलत्थजूर्नश्यामाकयवमुद्गमधूदकम्॥२१॥
मस्तुदण्डाहतारिष्टचिन्ताशोधनजागरम्।
मधुना त्रिफलां लिह्याद्गुडूचीमभयां धनम्॥२२॥
रसाञ्जनस्य महतः पञ्चमूलस्य गुग्गुलोः।
शिलाजतुप्रयोगश्च साग्निमन्थरसो हितः॥२३॥
विडड्गं नागरं क्षारः काललोहरजो मधु।
यवामलकचूर्णं च योगोऽस्थौल्यदोषजित्॥२४॥
व्योषकट्वीवराशिग्रुविडङ्गातिविषास्थिराः।
हिड्गुसौवर्चलाजाजीयवानीधान्यचित्रकाः॥२५॥
निशे बृहत्यौ हपुषा पाठा मूलं च केम्बुकात्।
एषां चूर्णं मधु घृतं तैलं च सदृशांशकम्॥२६॥
सक्तुभिः षोडशगुणैर्युक्तं पीतं निहन्ति तत्।
अतिस्थौल्यादिकान् सर्वान् रोगानान्यांश्च तद्द्विधान्॥२७॥
हृद्रोगकामलाश्वित्रश्वासकासगलग्रहान्।
बुद्धिमेधास्मृतिकरं सन्नस्याग्नेश्च दीपनम्॥२८॥
अतिकार्श्यं भ्रमः कासस्तृष्णाधिक्यमरोचकः।
स्नेहाग्निनिद्रादृक्श्रोत्रशुक्रौजःक्षुत्स्वरक्षयः॥२९॥
बस्तिहृन्मूर्धजङ्घोरुत्रिकपार्श्वरुजा ज्वरः।
प्रलापोर्ध्वानिलग्लानिच्छर्दिपर्वास्थिभेदनम्॥३०॥
वर्चोमूत्रग्रहाद्याश्च जायन्तेऽतिविलङ्घनात्।
कार्श्यमेव वरं स्थौल्यात् न हि स्थूलस्य भेषजम्॥३१॥
बृंहणं लङ्घनं वाऽलमतिमेदोग्निवातजित्।
मधुरस्निग्धसौहित्यैर्यत्सौख्येन च नश्यति॥३२॥
क्रशिमा स्थविमाऽत्यन्तविपरीतनिषेवणैः।
योजयेद्धृंहणं तत्र सर्वं पानान्नभेषजम्॥३३॥
अचिन्तया हर्षणेन ध्रुवं सन्तर्पणेन च।
स्वप्नप्रसङ्गाच्च कृशो वराह इव पुष्यति॥३४॥
न हि मांससमं किञ्चिदन्यद्देहबृहत्त्वकृत्।
मांसादमांसं मांसेन सम्भृतत्वाद्विशेषतः॥३५॥
गुरु चातर्पणं स्थूले विपरीतं हितं कृशे।
यवगोधूममुभयोस्तद्योग्याहितकल्पनम्॥३६॥
दोषगत्याऽतिरिच्यन्ते ग्राहिभेद्यादिभेदतः।
उपक्रमा न ते द्वित्वाद्भिन्ना अपि गदा इव॥३७॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने द्विविधोपक्रमणीयो नाम चतुर्दशोऽध्यायः॥१४॥