15.वातव्याधिनिदानाध्यायः
अथातो वातव्याधिनिदानं व्याख्यास्यामः।
इति स्माहुरात्रेयादयो महर्षयः।
सर्वार्थानर्थकरणे विश्वस्यास्यैककारणम्।
अदुष्टदुष्टः पवनः, शरीरस्य विशेषतः॥१॥
विश्वकर्मा विश्वात्मा विश्वरूपः प्रजापतिः।
स्रष्टा धाता विभुर्विष्णुः संहर्ता मृत्युरन्तकः॥२॥
तददुष्टौ प्रयत्नेन यतितव्यमतः सदा।
तस्योक्तं दोषविज्ञाने कर्म प्राकृतवैकृतम्॥३॥
समासाद्व्यासतो दोषभेदीये नाम धाम च।
प्रत्येकं पञ्चधा चारो व्यापारश्च इह वैकृतम्॥४॥
तस्योच्यते विभागेन सनिदानं सलक्षणम्।
[
असङ्ख्यमपि सङ्ख्याय यदशीत्या पुरेरितम्॥१॥]
धातुक्षयकरैर्वायुः कुप्यत्यतिनिषेवितैः॥५॥
चरन् स्रोतःसु रिक्तेषु भृशं तान्येव पूरयन्।
तेभ्योऽन्यदोषपूर्णेभ्यः प्राप्य वाऽऽवरणं बली॥६॥
तत्र पक्वाशये क्रुद्धः शूलानाहान्त्रकूजनम्।
मलरोधाश्मवर्ध्मार्शस्त्रिकपृष्ठकटीग्रहम्॥७॥
करोत्यधरकाये तांस्तान् कृच्छ्रानुपद्रवान्।
आमाशये तृड्वमथुश्वासकासविसूचिकाः॥८॥
कण्ठोपरोधमुद्गारान् व्याधीनूर्ध्वं नाभितः।
श्रोत्रादिष्विन्द्रियवधं त्वचि स्फुटनरूक्षते॥९॥
रक्ते तीव्रा रुजः स्वापं तापं रागं विवर्णताम्।
अरूंष्यन्नस्य विष्टम्भरुचिं कृशतां भ्रमम्॥१०॥
मांसमेदोगतो ग्रन्थींस्तोदाढ्यान् कर्कशान् श्रमम्।
गुर्वङ्गं चातिरुक्स्तब्धं मुष्टिदण्डहतोपमम्॥११॥
अस्थिस्थः सक्थिसन्ध्यास्थिशूलं तीव्रं बलक्षयम्।
मज्जस्थोऽस्थिषु सौषिर्यमस्वप्नं सन्ततां रुजम्॥१२॥
शुक्रस्य शीघ्रमुत्सर्गं सङ्गं विकृतिमेव वा।
तद्वद्गर्भस्य शुक्रस्थः सिरास्वाध्मानरिक्तते॥१३॥
तत्स्थः स्नावस्थितः कुर्याद्गृध्रस्यायामकुब्जताः।
वातपूर्णदृतिस्पर्शं शोफं सन्धिगतोऽनिलः॥१४॥
प्रसारणाकुञ्चनयोः प्रवृत्तिं सवेदनाम्।
सर्वाङ्गसंश्रयस्तोदभेदस्फुरणभञ्जनम्॥१५॥
स्तम्भनाक्षेपणस्वापसन्ध्याकुञ्चनकम्पनम्।
यदा तु धमनीः सर्वाः क्रुद्धोऽभ्येति मुहुर्मुहुः॥१६॥
तदाऽङ्गमाक्षिपत्येष व्याधिराक्षेपकः स्मृतः।
अधः प्रतिहतो वायुर्व्रजन्नूर्ध्वं हृदाश्रिताः॥१७॥
नाडीः प्रविश्य हृदयं शिरः शङ्खौ पीडयन्।
आक्षिपेत्परितो गात्रं धनुर्वच्चास्य नामयेत्॥१८॥
कृच्छ्रादुच्छ्वसिति स्तब्धस्रस्तमीलितदृक्ततः।
कपोत इव कृजेच्च निःसंज्ञः सोऽपतन्त्रकः॥१९॥
एव चापतानाख्यो मुक्ते तु मरुता हृदि।
अश्र्नुवीत मुहुः स्वास्थ्यं मुहुरस्वास्थ्यमावृते॥२०॥
गर्भपातसमुत्पन्नः शोणितातिस्रवोत्थितः।
अभिघातसमुत्थश्च दुश्चिकित्स्यतमो हि सः॥२१॥
मन्ये संस्तभ्य वातोऽन्तरायच्छन् धमनीर्यदा।
व्याप्नोति सकलं देहं जत्रुरायम्यते तदा॥२२॥
अन्तर्धनुरिवाङ्गं वेगैः स्तम्भं नेत्रयोः।
करोति जृम्भां दशनं दशनानां कफोद्वमम्॥२३॥
पार्श्वयोर्वेदनां वाक्यहनुपृष्ठशिरोग्रहम्।
अन्तरायाम इत्येष बाह्यायामश्च तद्विधः॥२४॥
देहस्य बहिरायामात् पृष्ठतो नीयते शिरः।
उरश्चोत्क्षिप्यते तत्र कन्धरा चावमृद्यते॥२५॥
दन्तेष्वास्ये वैवर्ण्यं प्रस्वेदः स्रस्तगात्रता।
बाह्यायामं धनुष्कम्भं ब्रुवते वेगिनं तम्॥२६॥
व्रणं मर्माश्रितं प्राप्य समीरणसमीरणात्।
व्यायच्छन्ति तनुं दोषाः सर्वामापादमस्तकम्॥२७॥
तृष्यतः पाण्डुगात्रस्य व्रणायामः वर्जितः।
गते वेगे भवेत्स्वास्थ्यं सर्वेष्वाक्षेपकेषु च॥२८॥
जिह्वातिलेखनाच्छुष्कभक्षणादभिघाततः।
कुपितो हनुमूलस्थः स्रंसयित्वाऽनिलो हनू॥२९॥
करोति विवृतास्यत्वमथवा संवृतास्यताम्।
हनुस्रंसः तेन स्यात्कृच्छ्राच्चर्वणभाषणाम्॥३०॥
वाग्वाहिनीसिरासंस्थो जिह्वां स्तम्भयतेऽनिलः।
जिह्वास्तम्भः तेनान्नपानवाक्येष्वनीशता॥३१॥
शिरसा भारहरणादतिहास्यप्रभाषणात्।
उत्त्रासवक्त्रक्षवथोः खरकार्मुककर्षणात्॥३२॥
विषमादुपधानाच्च कठिनानां चर्वणात्।
वायुर्विवृद्धस्तैस्तैश्च वातलैरूर्ध्वमास्थितः॥३३॥
वक्रीकरोति वक्त्रार्धमुक्तं हसितमीक्षितम्।
ततोऽस्य कम्पते मूर्द्धा वाक्सङ्गः स्तब्धनेत्रता॥३४॥
दन्तचालः स्वरभ्रंशः श्रुतिहानिः क्षवग्रहः।
गन्धाज्ञानं स्मृतेर्मोहस्त्रासः सुप्तस्य जायते॥३५॥
निष्ठीवः पार्श्वतो यायादेकस्याक्ष्णो निमीलनम्।
जत्रोरूर्ध्वं रुजा तीव्रा शरीरार्धेऽधरेऽपि वा॥३६॥
तमाहुरर्दितं केचिदेकायाममथापरे।
रक्तमाश्रित्य पवनः कुर्यान्मूर्द्धधराः सिराः॥३७॥
रूक्षाः सवेदनाः कृष्णाः सोऽसाध्यः स्यात्सिराग्रहः।
गृहीत्वाऽर्धं तनोर्वायुः सिराः स्नायूर्विशोष्य च॥३८॥
पक्षमन्यतरं हन्ति सन्धिबन्धान् विमोक्षयन्।
कृत्स्नोऽर्धकायस्तस्य स्यादकर्मण्यो विचेतनः॥३९॥
एकाङ्गरोगं तं केचिदन्ये पक्षवधं विदुः।
सर्वाङ्गरोगं तद्वच्च सर्वकायाश्रितेऽनिले॥४०॥
शुद्धवातहतः पक्षः कृच्छ्रसाध्यतमो मतः।
कृच्छ्रस्त्वन्येन संसृष्टो विवर्ज्यः क्षयहेतुकः॥४१॥
आमबद्धायनः कुर्यात्संस्तभ्याङ्गं कफान्वितः।
असाध्यं हतसर्वेहं दण्डवद्दण्डकं मरुत्॥४२॥
अंसमूलस्थितो वायुः सिराः सङ्कोच्य तत्रगाः।
बाहुप्रस्पन्दितहरं जनयत्यवबाहुकम्॥४३॥
तलं प्रत्यङ्गुलीनां या कण्डरा बाहुपृष्ठतः।
बाहुचेष्टापहरणी विश्वाची नाम सा स्मृता॥४४॥
वायुः कट्यां स्थितः सक्थ्नः कण्डरामाक्षिपेद्यदा।
तदा खञ्जो भवेज्जन्तुः पङ्गुः सक्थ्नोर्द्वयोरपि॥४५॥
कम्पते गमनारम्भे खञ्जन्निव याति यः।
कलायखञ्जं तं विद्यान्मुक्तसन्धिप्रबन्धनम्॥४६॥
शीतोष्णद्रवसंशुष्कगुरुस्निग्धैर्निषेवितैः।
जीर्णाजीर्णे तथाऽऽयाससङ्क्षोभस्वप्नजागरैः॥४७॥
सश्लेष्ममेदःपवनमाममत्यर्थसञ्चितम्।
अभिभूयेतरं दोषमूरु चेत्प्रतिपद्यते॥४८॥
सक्थ्यस्थीनि प्रपूर्यान्तः श्लेष्मणा स्तिमितेन तत्।
तदा स्कभ्नाति तेनोरू स्तब्धौ शीतावचेतनौ॥४९॥
परकीयाविव गुरू स्यातामतिभृशव्यथौ।
ध्यानाङ्गमर्दस्तैमित्यतन्द्राच्छर्द्यरुचिज्वरैः॥५०॥
संयुतौ पादसदनकृच्छ्रोद्धरणसुप्तिभिः।
तमूरुस्तम्भमित्याहुराढ्यवातमथापरे॥५१॥
वातशोणितजः शोफो जानुमध्ये महारुजः।
ज्ञेयः क्रोष्टुकशीर्षश्च स्थूलः क्रोष्टुकशीर्षवत्॥५२॥
रुक् पादे विषमन्यस्ते श्रमाद्वा जायते यदा।
वातेन गुल्फमाश्रित्य तमाहुर्वातकण्टकम्॥५३॥
पार्ष्णिं प्रत्यङ्गुलीनां या कण्डरा मारुतार्दिता।
सक्थ्युत्क्षेपं निगृह्णाति गृध्रसीं तां प्रचक्षते॥५४॥
विश्वाची गृध्रसी चोक्ता खल्ली तीव्ररुजान्विते।
हृष्येते चरणौ यस्य भवेतां प्रसुप्तवत्॥५५॥
पादहर्षः विज्ञेयः कफमारुतकोपजः।
पादयोः कुरुते दाहं पित्तासृक्सहितोऽनिलः॥५६॥
विशेषतश्चङ्क्रमिते पाददाहं तमादिशेत्॥५६ /२॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्ग हृदयसंहितायां तृतीये निदानस्थाने वातव्याधिनिदानं नाम पञ्चदशोऽध्यायः॥१५॥