14.कुष्ठश्वित्रकृमिनिदानाध्यायः
अथातः कुष्ठश्वित्रकृमिनिदानं व्याख्यास्यामः।
इति स्माहुरात्रेयादयो महर्षयः।
मिथ्याहारविहारेण विशेषेण विरोधिना।
साधुनिन्दावधान्यस्वहरणाद्यैश्च सेवितैः॥१॥
पाप्मभिः कर्मभिः सद्यः प्राक्तनैर्वोरिता मलाः।
सिराः प्रपद्य तिर्यग्गास्त्वग्लसीकासृगामिषम्॥२॥
दूषयन्ति श्लथीकृत्य निश्चरन्तस्ततो बहिः।
त्वचः कुर्वन्ति वैवर्ण्यं दुष्टाः कुष्ठमुशन्ति तत्॥३॥
कालेनोपेक्षितं यस्मात्सर्वं कुष्णाति तद्वपुः।
प्रपद्य धातून्व्याप्यान्तः सर्वान् संक्लेद्य चावहेत्॥४॥
सस्वेदक्लेदसङ्कोथान् कृमीन् सूक्ष्मान् सुदारुणान्।
लोमत्वक्स्नायुधमनीतरुणास्थीनि यैः क्रमात्॥५॥
भक्षयेच्छ्वित्रमस्माच्च कुष्ठबाह्यमुदाहृतम्।
कुष्ठानि सप्तधा दोषैः पृथङ्मिश्रैः समागतैः॥६॥
सर्वेष्वपि त्रिदोषेषु व्यपदेशोऽधिकत्वतः।
वातेन कुष्ठं कापालं, पित्तादौदुम्बरं, कफात्॥७॥
मण्डलाख्यं विचर्ची , ऋक्षाख्यं वातपित्तजम्।
चर्मैककुष्ठकिटिभसिध्मालसविपादिकाः॥८॥
वातश्लेष्मोद्भवाः, श्लेष्मपित्ताद्दद्रुशतारुषी।
पुण्डरीकं सविस्फोटं पामा चर्मदलं तथा॥९॥
सर्वैः स्यात्काकणं पूर्वं त्रिकं दद्रु सकाकणम्।
पुण्डरीकर्क्षजिह्वे महाकुष्ठानि सप्त तु॥१०॥
अतिश्लक्ष्णखरस्पर्शखेदास्वेदविवर्णताः।
दाहः कण्डूस्त्वचि स्वापस्तोदः कोठोन्नतिः श्रमः॥११॥
व्रणानामधिकं शूलं शीघ्रोत्पत्तिश्चिरस्थितिः।
रूढानामपि रूक्षत्वं निमित्तेऽल्पेऽपि कोपनम्॥१२॥
रोमहर्षोऽसृजः कार्ष्ण्यं कुष्ठलक्षणमग्रजम्।
कृष्णारुणकपालाभं रूक्षं सुप्तं खरं तनु॥१३॥
विस्तृतासमपर्यन्तं हृषितैर्लोमभिश्चितम्।
तोदढ्यमल्पकण्डूकं कापालं शीघ्रसर्पि च॥१४॥
पक्वोदुम्बरताम्रत्वग्रोम गौरसिराचितम्।
बहलं बहलक्लेदरक्तं दाहरुजाधिकम्॥१५॥
आशूत्थानावदरणकृमि विद्यादुदुम्बरम्।
स्थिरं स्त्यानं गुरु स्निग्धं श्वेतरक्तमनाशुगम्॥१६॥
अन्योन्यसक्तमुत्सन्नं बहुकण्डूस्रुतिक्रिमि।
श्लक्ष्णपीताभपर्यन्तं मण्डलं परिमण्डलम्॥१७॥
सकण्डूपिटिका श्यावा लसीकाढ्या विचर्चिका।
परुषं तनु रक्तान्तमन्तःश्यावं समुन्नतम्॥१८॥
सतोददाहरुक्क्लेदं कर्कशैः पिटिकैश्चितम्।
ऋक्षजिह्वाकृति प्रोक्तमृक्षजिह्वं बहुक्रिमि॥१९॥
हस्तिचर्मखरस्पर्शं चर्म एकाख्यं महाश्रयम्।
अस्वेदं मत्स्यशकलसन्निभम् किटिभं पुनः॥२०॥
रूक्षं किणखरस्पर्शं कण्डूमत्परुषासितम्।
सिध्मं रूक्षं बहिः स्निग्धमन्तर्घृष्टं रजः किरेत्॥२१॥
श्लक्ष्णस्पर्शं तनु श्वेतताम्रं दौग्धिकपुष्पवत्।
प्रायेण चोर्ध्वकाये स्यात् गण्डैः कण्डूयुतैश्चितम्॥२२॥
रक्तैरलसकम् पाणिपाददार्यो विपादिकाः।
तीव्रार्त्यो मन्दकण्ड्वश्च सरागपिटिकाचिताः॥२३॥
दीर्घप्रताना दूर्वावदतसीकुसुमच्छविः।
उत्सन्नमण्डला दद्रूः कण्डूमत्यनुषङ्गिणी॥२४॥
स्थूलमूलं सदाहार्ति रक्तश्यावं बहुव्रणम्।
शतारुः क्लेदजन्त्वाढ्यं प्रायशः पर्वजन्म च॥२५॥
रक्तान्तमन्तरा पाण्डु कण्डूदाहरुजान्वितम्।
सोत्सेधमाचितं रक्तैः पद्मपत्रमिवांशुभिः॥२६॥
घनभूरिलसीकासृक्प्रायमाशु विभेदि च।
पुण्डरीकम् तनुत्वग्भिश्चितं स्फोटैः सितारुणैः॥२७॥
विस्फोटम् पिटिकाः पामा कण्डूक्लेदरुजाधिकाः।
सूक्ष्माः श्यावारुणा बह्व्यः प्रायः स्फिक्पणिकूर्परे॥२८॥
सस्फोटमस्पर्शसहं कण्डूषातोददाहवत्।
रक्तं दलच्चर्मदलम् काकणं तीव्रदाहरुक्॥२९॥
पूर्वं रक्तं कृष्णं काकणन्तीफलोपमम्।
कुष्ठलिङ्गैर्युतं सर्वैर्नैकवर्णं ततो भवेत्॥३०॥
दोषभेदीयविहितैरादिशेल्लिङ्गकर्मभिः।
कुष्ठेषु दोषोल्बणताम् सर्वदोषोल्बणं त्यजेत्॥३१॥
रिष्टोक्तं यच्च यच्चास्थिमज्जशुक्रसमाश्रयम्।
याप्यं मेदोगतम् कृच्छ्रं पित्तद्वन्द्वास्रमांसगम्॥३२॥
अकृच्छ्रं कफवाताढ्यं त्वक्स्थमेकमलं यत्।
तत्र त्वचि स्थिते कुष्ठे तोदवैवर्ण्यरूक्षताः॥३३॥
स्वेदस्वापश्वयथवः शोणिते, पिशिते पुनः।
पाणिपादाश्रिताः स्फोटाः क्लेदः सन्धिषु चाधिकम्॥३४॥
कौण्यं गतिक्षयोऽङ्गानां दलनं स्याच्च मेदसि।
नासाभङ्गोऽस्थिमज्जस्थे नेत्ररागः स्वरक्षयः॥३५॥
क्षते कृमयः, शुक्रे स्वदारापत्यबाधनम्।
यथापूर्वं सर्वाणि स्युर्लिङ्गान्यसृगादिषु॥३६॥
इति कुष्ठनिदानम्।
अथ श्वित्रनिदानम्।
कुष्ठैकसम्भवं श्वित्रं किलासं दारुणं तत्।
निर्दिष्टमपरिस्रावि त्रिधातूद्भवसंश्रयम्॥३७॥
वाताद्रूक्षारुणं, पित्तात्ताम्रं कमलपत्रवत्।
सदाहं रोमविध्वंसि, कफाच्छ्वेतं घनं गुरु॥३८॥
सकण्डु , क्रमाद्रक्तमांसमेदःसु चादिशेत्।
वर्णेनैवेदृगुभयं कृच्छ्रं तच्चोत्तरोत्तरम्॥३९॥
अशुक्लरोमाबहलमसंसृष्टं मिथो नवम्।
अनग्निदग्धजं साध्यं श्वित्रं, वर्ज्यमतोऽन्यथा॥४०॥
गुह्यपाणितलौष्ठेषु जातमप्यचिरन्तनम्।
स्पर्शैकाहारशय्यादिसेवनात् प्रायशो गदाः॥४१॥
सर्वे सञ्चारिणो, नेत्रत्वग्विकारा विशेषतः।
इति श्वित्रनिदानम्।
अथ कृमिनिदानम्।
कृमयस्तु द्विधा प्रोक्ता बाह्याभ्यन्तरभेदतः॥४२॥
बहिर्मलकफासृग्विड्जन्मभेदाच्चतुर्विधाः।
नामतो विंशतिविधाः बाह्यास्तत्रामृजोद्भवाः॥४३॥
तिलप्रमाणसंस्थानवर्णाः केशाम्बराश्रयाः।
बहुपादाश्च सूक्ष्माश्च यूका लिक्षाश्च नामतः॥४४॥
द्विधा ते कोठपिटिकाकण्डूगण्डान् प्रकुर्वते।
कुष्ठैकहेतवोऽन्तर्जाः श्लेष्मजास्तेषु चाधिकम्॥४५॥
मधुरान्नगुडक्षीरदधिसक्तुनवौदनैः।
शकृज्जा बहुविड्धान्यपर्णशाकोलकादिभिः॥४६॥
कफादामाशये जाता वृद्धाः सर्पन्ति सर्वतः।
पृथुब्रध्ननिभाः केचित् केचिद्गण्डूपदोपमाः॥४७॥
रूढधान्याङ्कुराकारास्तनुदीर्घास्तथाऽणवः।
श्वेतास्ताम्रावभासाश्च नामतः सप्तधा तु ते॥४८॥
अन्त्रादा उदरावेष्टा हृदयादा महाकुहाः।
कुरवो दर्भकुसुमाः सुगन्धास्ते कुर्वते॥४९॥
हृल्लासमास्यस्रवणमविपाकमरोचकम्।
मूर्च्छाच्छर्दिज्वरानाहकार्श्यक्षवथुपीनसान्॥५०॥
रक्तवाहिसिरोत्थाना रक्तजा जन्तवोऽणवः।
अपादा वृत्तताम्राश्च सौक्ष्म्यात्केचिददर्शनाः॥५१॥
केशादा लोमविध्वंसा लोमद्वीपा उदुम्बराः।
षट् ते कुष्ठैककर्माणः सहसौरसमातरः॥५२॥
पक्वाशये पुरीषोत्था जायन्तेऽधोविसर्पिणः।
वृद्धाः सन्तो भवेयुश्च ते यदाऽऽमाशयोन्मुखाः॥५३॥
तदाऽस्योद्गारनिःश्वासा विड्गन्धानुविधायिनः।
पृथुवृत्ततनुस्थूलाः श्यावपीतसितासिताः॥५४॥
ते पञ्च नाम्ना कृमयः ककेरुकमकेरुकाः।
सौसुरादाः सुलूनाख्या लेलिहा जनयन्ति च॥५५॥
विड्भेदशूलविष्टम्भकार्श्यपारुष्यपाण्डुताः।
रोमहर्षाग्निसदनगुदकण्डूर्विनिर्गमात्॥५६॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्ग हृदयसंहितायां तृतीये निदानस्थाने कुष्ठश्वित्रकृमिनिदानं
नाम चतुर्दशोऽध्यायः॥१४॥