7.अपस्मारप्रतिषेधाध्यायः
अथातोऽपस्मारप्रतिषेधं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः।
स्मृत्यपायो ह्यपोस्मारः स धीसत्त्वाभिसंप्लवात्।
जायतेऽभिहते चित्ते चिन्ताशोकभयादिभिः॥१॥
उन्मादवत्प्रकुपितैश्चित्तदेहगतैर्मलैः।
हते सत्त्वे हृदि व्याप्ते संज्ञावाहिषु खेषु च॥२॥
तमो विशन् मूढमतिर्बीभत्साः कुरुते क्रियाः।
दन्तान् खादन् वमन् फेनं हस्तौ पादौ च विक्षिपन्॥३॥
पश्यन्नसन्ति रूपाणि प्रस्खलन् पतति क्षितौ।
विजिह्यक्षिभ्रुवो दोषवेगेऽतीते विबुध्यते॥४॥
कालान्तरेण स पुनश्चैवमेव विचेष्टते।
अपस्मारश्चतुर्भेदो वाताद्यैर्निचयेन च॥५॥
रूपमुत्पत्स्यमानेऽस्मिन् हृत्कम्पः शून्यता भ्रमः।
तमसो दर्शनं ध्यानं भ्रूव्युदासोऽक्षिवैकृतम्॥६॥
अशब्दश्रवणं स्वेदो लालासिङ्घाणकस्रुतिः।
अविपाकोऽरुचिर्मूर्च्छा कुक्ष्याटोपो बलक्षयः॥७॥
निद्रानाशोऽङ्गमर्दस्तृट् स्वप्ने गानं सनर्तनम्।
पानं तैलस्य मद्यस्य तयोरेव च मेहनम्॥८॥
तत्र वातात्स्फुरत्सक्थिः प्रपतंश्च मुहुर्मुहुः।
अपस्मरति संज्ञां च लभते विस्वरं रुदन्॥९॥
उत्पिण्डिताक्षः श्वसिति फेनं वमति कम्पते।
आविध्यति शिरोदन्तान् दशत्याध्मातकन्धरः॥१०॥
परितो विक्षिपत्यङ्गं विषमं विनताङ्गुलिः।
रूक्ष्श्यावारुणाक्षित्वङ्नखास्यः कृष्णमीक्षते॥११॥
चपलं परुषं रूपं विरूपं विकृताननम्।
अपस्मरति पित्तेन मुहुः संज्ञा च विन्दति॥१२॥
पीतफेनाक्षिवक्त्रत्वगास्पालयति मेदिनीम्।
भैरवादीप्तरुषितरूपदर्शी तृषान्वितः॥१३॥
कफाच्चिरेण ग्रहणं चिरेणैव विबोधनम्।
चेष्टाऽल्पा भूयसी लाला शुक्लनेत्रनखास्यता॥१४॥
शुक्लाभरूपदर्शित्वं सर्वलिङ्गं तु वर्जयेत्।
अथाऽऽवृतानां धीचित्तहृत्खानां प्राक्प्रबोधनम्॥१५॥
तीक्ष्णैः कुर्यादिअपस्मारे कर्मभिर्वमनादिभिः।
वातिकं बस्तिभूयिष्ठैः, पैत्तं प्रायो विरेचनैः॥१६॥
श्लैष्मिकं वमनप्रायैरपस्मारमुपाचरेत्।
सर्वतः सुविशुद्धस्य सम्यगाश्वासितस्य च॥१७॥
अपस्मारविमोक्षार्थं योगान् संशमनान् शृणु।
गोमयस्वरसक्षीरदधिमूत्रैः शृतं हविः॥१८॥
अपस्मारज्वरोन्मादकामलान्तकरं पिबेत्।
द्विपञ्चमूलत्रिफलाद्विनिशाकुटजत्वचः॥१९॥
सप्तपर्णमपामार्गं नीलिनीं कटुरोहिणीम्।
शम्याकपुष्करजटाफल्गुमूलदुरालभाः॥२०॥
द्विपलाः सलिलद्रोणे पक्त्वा पादावशेषिते।
भार्गीपाठाढकीकुम्भनिकुम्भव्योषरोहिषैः॥२१॥
मूर्वाभूतीकभूनिम्बश्रेयसीसारिवाद्वयैः।
मदयन्त्यग्निनिचुलैरक्षांशैः सर्पिषः पचेत्॥२२॥
प्रस्थं तद्वद् द्रवैः पूर्वैः पञ्चगन्यमिदं महत्।
ज्वरापस्मारजठरभगन्दरहरं परम्॥२३॥
शोफार्शःकामलापाण्डुगुल्मकासग्रहापहम्।
ब्राह्मीरसवचाकुष्ठशङ्खपुष्पीशृतं घृतम्॥२४॥
पुराणं मेध्यमुन्मादालक्ष्म्यपस्मारपाओमजित्।
तैलप्रस्थं घृतप्रस्थं जीवनीयैः पलोन्मितैः॥२५॥
क्षीरद्रोणे पचेत्सिद्धमपस्मारविमोक्षणम्।
कंसे क्षीरेक्षुरसयोः काश्मर्येऽष्टगुणे रसे॥२६॥
काऱ्षिकैर्जीवनीयैश्च सर्पिःप्रस्थं विपाचयेत्।
वातपित्तोद्भवं क्षिप्रमपस्मारं निहन्ति तत्॥२७॥
तद्वत् काशविदारीक्षुकुशक्वाथशृतं पयः।
कूष्माण्डस्वरसे सर्पिरष्टादशगुणे शृतम्॥२८॥
यष्टीकल्कमपस्मारहरं धीवाक्स्वरप्रदम्।
कपिलानां गवां पित्तं नावने परमं हितम्॥२९॥
श्वशृगालबिडालानं सिंहादीनां च पूजितम्।
गोधानकुलनागानां पृषतर्क्षगवमपि॥३०॥
पित्तेषु साधितं तैलं नस्येऽभ्यङ्गे च शस्यते।
त्रिफलाब्योषपीतद्रुयवक्षारफणिज्जकैः॥३१॥
श्र्याह्वापामार्गकारञ्जबीजैस्तैलं विपाचितम्।
बस्तमूत्रे हितं नस्यं चूर्णं वा ध्मापयेद्भिषक्॥३२॥
नकुलोलूकमार्जारगृध्रकीटाहिकाकजैः।
तुण्डैः पक्षैः पुरीषैश्च धूपमस्य प्रयोजयेत्॥३३॥
शीलयेत्तैललशुनं पयस वा शतावरीम्।
ब्राह्मीरसं कुष्ठरसं वचां वा मधुसंयुताम्॥३४॥
समं क्रुद्धैरपस्मारो दोषैः शारीरमानसैः।
यज्जायते यतश्चैष महामर्मसमाश्रयः॥३५॥
तस्माद्रसायनैरेनं दुश्चिकित्स्यमुपाचरेन्।
तदार्तं चाग्नितोयादेर्विषमात्पालयेत्सदा॥३६॥
मुक्तं मनो विकारेण त्वमित्थं कृतवानिति।
न ब्रूयाद्विषयैरिष्टैः क्लिष्टं चेतोऽस्य बृंहयेत्॥३७॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्ग हृदयसंहितायां षष्ठे उत्तरस्थानेऽपस्मारप्रतिषेधो नाम सप्तमोऽध्यायः॥७॥