6.उन्मादप्रतिषेधाध्यायः
अथात उन्मादप्रतिषेधं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः।
उन्मादाः षट् पृथग्दोषनिचयाधिविषोद्भवाः।
उन्मादो नाम मनसो दोषैरुन्मार्गगैर्मदः॥१॥
शारीरमानसैर्दुष्टैरहितादन्नपानतः।
विकृतासात्म्यसमलाद्विषमादुपयोगतः॥२॥
विषण्णस्याल्पसत्त्वस्य व्याधिवेगसमुद्गमात्।
क्षीणस्य चेष्टावैषम्यात् पूज्यपूजाव्यतिक्रमात्॥३॥
आधिभिश्चित्तविभ्रंशाद् विषेणोपविषेण च।
एभिर्हि हीनसत्त्वस्य हृदि दोषाः प्रदूषिताः॥४॥
धियो विधाय कालुष्यं हत्व मार्गान् मनोवहान्।
उन्मादं कुर्वते, तेन धीविज्ञानस्मृतिभ्रमात्॥५॥
देहो दुःखसुखभ्रष्टो भ्रष्टसारथिवद्रथः।
भ्रमत्यचिन्तितारम्भः तत्र वातात्कृशाङ्गता॥६॥
अस्थाने रोदनाक्रोशहसितस्मितनर्तनम्।
गीतवादित्रवागङ्गविक्षेपास्फोटनानि च॥७॥
असाम्ना वेणुवीणादिशब्दानुकरणं मुहुः।
आस्यात्फेनागमोऽजस्रमटनं बहुभाषिता॥८॥
अलङ्कारोऽनलङ्कारैरयानैर्गमनोद्यमः।
गृद्धिरभ्यवहार्येषु तल्लाभे चावमानता॥९॥
उत्पिण्डितारुणाक्षित्वं जीर्णे चान्ने गदोद्भवः।
पित्तात्सन्तर्जनं क्रोधो मुष्टिलोष्टाद्यभिद्रवः॥१०॥
शीतच्छायोदकाकाङ्क्षा नग्नत्वं पीतवर्णता।
असत्यज्वलनज्वालातारकादीपदर्शनम्॥११॥
कफादरोचकश्छर्दिरल्पेहाहारवाक्यता।
स्त्रीकामता रहःप्रीतिर्लालासिङ्घाणकस्रुतिः॥१२॥
बैभत्स्यं शौचविद्वेषो निद्रा श्वयथुरानने।
उन्मादो बलवान् रात्रौ भुक्तमात्रे च जायते॥१३॥
सर्वायतनसंस्थानसन्निपाते तदात्मकम्।
उन्मादं दारुणं विद्यात् तं भिषक् परिवर्जयेत्॥१४॥
धनकान्तादिनाशेन दुःसहेनाभिषङ्गवान्।
पाण्डुर्दीनो मुहुर्मुह्यन् हाहेति परिदेवते॥१५॥
रोदित्यकस्मान्म्रियते तद्गुणान् बहु मन्यते।
शोकक्लिष्टमना ध्यायन् जागरूको विचेष्टते॥१६॥
विषेण श्याववदनो नष्टच्छायाबलेन्द्रियः।
वेगान्तरेऽपि सम्भ्रान्तो रक्ताक्षस्तं विवर्जयेत्॥१७॥
अथानिलज उन्मादे स्नेहपानं प्रयोजयेत्।
पूर्वमावृतमार्गे तु सस्नेहं मृदु शोधनम्॥१८॥
कफपित्तभवेऽप्यादौ वमनं सविरेचनम्।
सस्निग्धस्विन्नस्य बस्तिं च शिरसः सविरेचनम्॥१९॥
तथाऽस्य शुद्धदेहस्य प्रसादं लभते मनः।
इत्थमप्यनुवृत्तौ तु तीक्ष्णं नावनमञ्जनम्॥२०॥
हर्षणाश्वासनोत्त्रासभयताडनतर्जनम्।
अभ्यङ्गोद्वर्तनालेपधूपान् पानं च सर्पिषः॥२१॥
युञ्ज्यात्तानि हि शुद्धस्य नयन्ति प्रकृतिं मनः।
हिङ्गुसौवर्चलव्योषैर्द्विपलांशैर्घृताढकम्॥२२॥
सिद्धं समूत्रमुन्मादभूतापस्मारनुत्परम्।
द्वौ प्रस्थौ स्वरसाद् ब्राहया घृतप्रस्थं च साधितम्॥२३॥
व्योषश्यामात्रिवृद्दन्तीशङ्खपुष्पीनृपद्रुमैः।
ससप्तलाकृमिहरैः कल्कितैरक्षसम्मितैः॥२४॥
पलवृद्ध्या प्रयुञ्जीत परं मात्रा चतुष्पलम्।
उन्मादकुष्ठापस्मारहरं वन्ध्यासुतप्रदम्॥२५॥
वाक्स्वरस्मृतिमेधाकृद् धन्यं ब्राह्मीघृतं स्मृतम्।
वराविशालाभद्रैलादेवदार्वेलवालुकैः॥२६॥
द्विसारिवाद्विरजनीद्विस्थिराफलिनीनतैः।
बृहतीकुष्ठमञ्जिष्ठानागकेसरदाडिमैः॥२७॥
वेल्लतालीसपत्रैलामालतीमुकुलोत्पलैः।
सदन्तीपद्मकहिमैः कर्षांशैः सर्पिषः पचेत्॥२८॥
प्रस्थं भूतग्रहोन्मादकासापस्मारपाप्मसु।
पाण्डुकण्डूविषे शोषे मोहे मेहे गरे ज्वरे॥२९॥
अरेतस्यप्रजसि वा दैवोपहतचेतसि।
अमेधसि स्खलद्वाचि स्मृतिकामेऽल्पपावके॥३०॥
बल्यं मङ्गल्यमायुष्यं कान्तिसौभाग्यपुष्टिदम्।
कल्याणकमिदं सर्पिः श्रेष्ठं पुंसवनेषु च॥३१॥
एभ्यो द्विसारिवादीनि जले पक्त्वैकविंशतिम्।
रसे तस्मिन् पचेत्सर्पिर्गृष्टिक्षीरचतुर्गुणम्॥३२॥
वीराद्विमेदाकाकोलीकपिकच्छूविषाणिभिः।
शूर्पपर्णीयुतैरेतन्महाकल्याणकं परम्॥३३॥
बृंहणं सन्निपातघ्नं पूर्वस्मादधिकं गुणैः।
जटिला पूतना केशी चारटी मर्कटी वचा॥३४॥
त्रायमाणा जया वीरा चोरकः कटुरोहिणी।
वयःस्था शूकरी छत्रा सातिच्छत्रा पलङ्कषा॥३५॥
महापुरुषदन्ता च कायस्था नाकुलीद्वयम्।
कटम्भरा वृश्चिकाली शालिपर्णी च तैर्घृतम्॥३६॥
सिद्धं चातुर्थिकोन्मादग्रहापस्मारनाशनम्।
महापैशाचकं नाम घृतमेतद्यथाऽमृतम्॥३७॥
बुद्धिमेधास्मृतिकरं बालानं चाङ्गवर्धनम्।
ब्राह्मीमैन्द्रीं विडङ्गानि व्योषं हिङ्गु जटां मुराम्॥३८॥
रास्नां विषघ्नां लशुनं विशल्यां सुरसां वचाम्।
ज्योतिष्मतीं नागविन्नामनन्तां सहरीतकीम्॥३९॥
काङ्क्षीं च हस्तिमूत्रेण पिष्ट्वा छायाविशोषिता।
वर्तिर्नस्याञ्जनालेपधूपैरुन्मादसूदनी॥४०॥
अवपीडाश्च विविधाः सर्षापाः स्नेहसंयुताः।
कटुतैलेन चाभ्यङ्गो ध्मापयेच्चास्य तद्रजः॥४१॥
सहिङ्गुस्तीक्ष्णधूमश्च सूत्रस्थानोदितो हितः।
शृगालशल्यकोलूकजलौकावृषबस्तजैः॥४२॥
मूत्रपित्तशकृल्लोमनखचर्मभिराचरेत्।
धूपधूमाञ्जनाभ्यङ्गप्रदेहपरिषेचनम्॥४३॥
धूपयेत्सततं चैनं श्वगोमत्स्यैः सुपूतिभिः।
वातश्लेष्मात्मके प्रायः पैत्तिके तु प्रशस्यते॥४४॥
तिक्तकं जीवनीयं च सर्पिः स्नेहश्च मिश्रकः।
शीतानि चान्नपानानि मधुराणि लघूनि च॥४५॥
विध्येच्छिरां यथोक्तां वा तृप्तं मेद्यामिषस्य वा।
निवाते शाययेदेवं मुच्यते मतिविभ्रमात्॥४६॥
प्रक्षिप्यासलिले कूपे शोषयेद्वा बुभुक्षया।
आश्वासयेत्सुहृत्तं वा वाक्यैर्धर्मार्थसंहितैः॥४७॥
बृयादिष्टविनाशं वा दर्शयेदद्भुतानि वा।
बद्धं सर्षपतैलाक्तं न्यसेद्वोत्तानमातपे॥४८॥
कपिकच्छ्वाऽथवा तप्तैर्लोहतैलजलैः स्पृशेत्।
कशाभिस्ताडयित्वा वा बद्धं श्वभ्रे विनिःक्षिपेत्॥४९॥
अथवा वीतशस्त्राश्मजने संतमसे गृहे।
सर्पेणोद्धृतदंष्ट्रेण दान्तैः सिंहैर्गजैश्च तम्॥५०॥
(त्रासयेच्छस्त्रहस्तैर्वा किरातारातितस्करैः।)
अथवा राजपुरुषा बहिर्नीत्वा सुसंयतम्।
भापयेयुर्वधेनैनं तर्जयन्तो नृपाज्ञया॥५१॥
देहदुःखभयेभ्यो हि परं प्राणभयं मतम्।
तेन याति शमं तस्य सर्वतो विप्लुतं मनः॥५२॥
सिद्धा क्रिया प्रयोज्येयं देशकालाद्यपेक्षया।
इष्टद्रव्यविनाशात्तु मनो यस्योपहन्यते॥५३॥
तस्य तत्सदृशप्राप्तिसान्त्वाश्वासैः शमं नयेत्।
कामशोकभयक्रोधहर्षेर्ष्यालोभसम्भवान्॥५४॥
परस्परप्रतिद्वन्द्वैरेभिरेव शमं नयेत्।
भूतानुबन्धमीक्षेत प्रोक्तलिङ्गाधिकाकृतिम्॥५५॥
यद्युन्मादे ततः कुर्याद्भूतनिर्दिष्टमौषधम्।
बलिं च दद्यात्पललं यावकं सक्तुपिण्डिकाम्॥५६॥
स्निग्धं मधुरमाहारं तण्डुलान् रुधिरोक्षितान्।
पक्वामकानि मांसानि सुरां मैरेयमासवम्॥५७॥
अतिमुक्तस्य पुष्पाणि जात्याः सहचरस्य च।
चतुष्पथे गवां तीर्थे नदीनां सङ्गमेषु च॥५८॥
निवृत्तामिषमद्यो यो हिताशी प्रयतः शुचिः।
निजागन्तुभिरुन्मादैः सत्ववान्न स युज्यते॥५९॥
प्रसाद इन्द्रियार्थानां बुद्ध्यात्ममनसां तथा।
धातूनां प्रकृतिस्थत्वं विगतोन्मादलक्षणम्॥६०॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्ग हृदयसंहितायां षष्ठे उत्तरस्थाने उन्मादप्रतिषेधो नाम षष्ठोऽध्यायः॥६॥