40.वाजीकरणविधिरध्यायः
अथातो वाजीकरणविधिमध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|(गद्यसूत्रे)||||
वाजीकरणमन्विच्छेत्सततं विषयी पुमान्||||
तुष्टिः पुष्टिरपत्यं च गुणवत्तत्र संश्रितम्||||
अपत्यसन्तानकरं यत्सद्यः संप्रहर्षणम्||||
वाजीवातिबलो येन यात्यप्रतिहतोऽङ्गनाः||||
भवत्यतिप्रियः स्त्रीणां येन येनोपचीयते|
तद्वाजीकरणं तद्धि देहस्योर्जस्करं परम्||||
धर्म्यं यशस्यमायुष्यं लोकद्वयरसायनम्|
अनुमोदामहे ब्रह्मचर्यमेकान्तनिर्मलम्||||
अल्पसर्वस्य तु क्लेशैर्बाध्यमानस्य रागिणः|
शरीरक्षयरक्षार्थं वाजीकरणमुच्यते||||
कल्यस्योदग्रवयसो वाजीकरणसेविनः|
सर्वेष्वृतुष्वहरहर्व्यवायो न निवार्यते||||
अथ स्निग्धविशुद्धानां निरूहान् सानुवासनान्|
घृततैलरसक्षीरशर्कराक्षौद्रसंयुतान्||||
योगविद्योजयेत्पूर्वं क्षीरमांसरसाशिनाम्|
ततो वाजीकरान् योगान् शुक्रापत्यबलप्रदान्||||
अच्छायः पूतिकुसुमः फलेन रहितो द्रुमः|
यथैकश्चैकशाखश्च निरपत्यस्तथा नरः||||
स्खलद्गमनमव्यक्तवचनं धूलिधूसरम्|
अपि लालाविलमुखं हृदयाह्लादकारकम्||१०||
अपत्यं तुल्यतां केन दर्शनस्पर्शनादिषु
किं पुनर्यद्यशोधर्ममानश्रीकुलवर्धनम्||११||
शुद्धकाये यथाशक्ति वृष्ययोगान् प्रयोजयेत्||१२|
शरेक्षुकुशकाशानां विदार्या वीरणस्य च||१२||
मूलानि कण्टकार्याश्च जीवकर्षभकौ बलाम्|
मेदे द्वे द्वे च काकोल्यौ शूर्पपर्ण्यौ शतावरीम्||१३||
अश्वगन्धामतिबलामात्मगुप्तां पुनर्नवाम्|
वीरां पयस्यां जीवन्तीमृद्धिं रास्नां त्रिकण्टकम्||१४||
मधुकं शालिपर्णी च भागांस्त्रिपलिकान् पृथक्|
माषाणामाढकं चैतद् द्विद्रोणे साधयेदपाम्||१५||
रसेनाढकशेषेण पचेत्तेन घृताढकम्|
दत्त्वा विदारीधात्रीक्षुरसानामाढकाढकम्||१६||
घृताच्चतुर्गुणं क्षीरं पेष्याणीमानि चावपेत्|
वीरां स्वगुप्तां काकोल्यौ यष्टिं फल्गूनि पिप्पलीम्||१७||
द्राक्षां विदारीं खर्जूरं मधुकानि शतावरीम्|
तत्सिद्धपूतं चूर्णस्य पृथक् प्रस्थेन योजयेत्||१८||
शर्करायास्तुगायाश्च पिप्पल्याः कुडवेन च|
मरिचस्य प्रकुञ्चेन पृथगर्धपलोन्मितैः||१९||
त्वगेलाकेसरैः श्लक्ष्णैः क्षौद्रद्विकुडवेन च|
पलमात्रं ततः खादेत् प्रत्यहं रसदुग्धभुक्||२०||
तेनारोहति वाजीव कुलिङ्ग इव हृष्यति||२१||
विदारीपिप्पलीशालिपियालेक्षुरकाद्रजः||२१||
पृथक् स्वगुप्तामूलच्च कुडवांशं तथा मधु|
तुलार्धं शर्कराचूर्णात् प्रस्थार्धं नवसर्पिषः||२२||
सोऽक्षमात्रमतः खादेत् यस्य रामाशतं गृहे||२३||
सात्मगुप्ताफलान् क्षीरे गोधूमान् साधितान् हिमान्||२३||
माषान् वा सघृतक्षौद्रान् खादन् गृष्टिपयोऽनुपः|
जागर्ति रात्रिं सकलामखिन्नः खेदयन् स्त्रियः||२४||
बस्ताण्डसिद्धे पयसि भावितानसकृत्तिलान्|
यः खादेत्ससितान् गच्छेत्स स्त्रीशतमपूर्ववत्||२५||
चूर्णं विदार्या बहुशः स्वरसेनैव भावितम्|
क्षौद्रसर्पिर्युतं लीढ्वा प्रमदाशतमृच्छति||२६||
कृष्णाधात्रीफलरजः स्वरसेन सुभावितम्|
शर्करामधुसर्पिर्भिर्लीढ्वा योऽनु पयः पिबेत्||२७||
स नरोऽशीतिवर्षोऽपि युवेव परिहृष्यति||२८||
कर्षं मधुकचूर्णस्य घृतक्षौद्रसमन्वितम्||२८||
पयोऽनुपानं यो लिह्यान्नित्यवेगः स ना भवेत्||२९||
कुलीरशृङ्ग्या यः कल्कमालोड्य पयसा पिबेत्||२९||
सिताघृतपयोन्नाशी स नारीषु वृषायते||३०||
यः पयस्यां पयःसिद्धां ख़ादेन्मधुग़ृतान्विताम्||३०||
पिबेद्बाष्कयणं चानु क्षीरं न क्षयमेति सः||३१||
स्वयंगुप्तेक्षुरकयोर्बीजचूर्णं सशर्करम्||३१||
धारोष्णेन नरः पीत्वा पयसा रासभायते||३२||
उच्चटाचूर्णमप्येवं शतावर्याश्च योजयेत्||३२||
चन्द्रशुभ्रम् दधिसरं ससिताषष्टिकौदनम्|
पटे सुमार्जितं भुक्त्वा वृद्धोऽपि तरुणायते||३३||
श्वदंष्ट्रेक्षुरमाषात्मगुप्ताबीजशतावरीः|
पिबन् क्षीरेण जीर्णोऽपि गच्छति प्रमदाशतम्||३४||
यत्किञ्चिन्मधुरं स्निग्धं बृंहणं बलवर्धनम्|
मनसो हर्षणं यच्च तत्सर्व वृष्यमुच्यते||३५||
द्रव्यैरेवंविधैस्तस्माद्दर्पितः प्रमदां व्रजेत्|
आत्मवेगेन चोदीर्णः स्त्रीगुणैश्च प्रहर्षितः||३६||
सेव्याः सर्वेन्द्रियसुखा धर्मकल्पद्रुमाङ्कुराः|
विषयातिशयाः पञ्च शराः कुसुमधन्वनः||३७||
इष्टा ह्येकैकशोऽप्यर्था हर्षप्रीतिकराः परम्|
किं पुनः स्त्रीशरीरे ये सङ्घातेन प्रतिष्ठिताः||३८||
नामापि यस्या हृदयोत्सवाय यां पश्यतां तृप्तिरनाप्तपूर्वा|
सर्वेन्द्रियाकर्षणपाशभूता काण्तानुवृत्तिव्रतदीक्षिता या||३९||
कलाविलासाङ्गवयोविभूषा शुचिः सलज्जा रहसि प्रगल्भा|
प्रियंवदा तुल्यमनःशया या सा स्त्री वृषत्वाय परं नरस्य||४०||
आचरेच्च सकलां रतिचर्या कामसूत्रविहितामनवद्याम्|
देशकालबलशक्त्यनुरोधाद्वैद्यतन्त्रसमयोक्त्य विरुद्धाम्||४१||
अभ्यञ्जनोद्वर्तनसेकगन्धस्रक्चित्रवस्त्राभरण प्रकाराः|
गान्धर्वकाव्यादिकथाप्रवीणाः समस्वभावा वशगा वयस्याः||४२||
दीर्घिका स्वभवनान्तनिविष्टा पद्मरेणुमधुमत्तविहङ्गा|
नीलसानुगिरीकूटनितम्बे काननानि पुरकण्ठगतानि||४३||
दृष्टिसुखा विविधा तरुजातिः श्रोत्रसुखः कलकोकिलनादः|
अङ्गसुखर्तुवशेन विभूषा चित्तसुखः सकलः परिवारः||४४||
ताम्बूलमच्छमदिरा कान्ता कान्ता निशा शशाङ्काङ्का|
यद्यच्च किञ्चिदिष्टं मनसो वाजीकरं तत्तत्||४५||
मधु मुखमिव सोत्पलं प्रियायाः कलरणना परिवादिनी प्रियेव|
कुसुमचयमनोरमा च शय्या किसलयिनी लतिकेव पुष्पिताग्रा||४६||
देशे शरीरे च न काचिदर्तिरर्थेषु नाल्पोऽपि मनोविघातः|
वाजीकराः सन्निहिताश्च योगाः कामस्य कामं परिपूरयन्ति||४७||
मुस्तापर्पटकं ज्वरे, तृषि जलं मृद्भृष्टलोष्टोद्भवं,
लाजाश्छर्दिषु, बस्तिजेषु गिरिजं, मेहेषु धात्रीनिशे|
पाण्डौ श्रेष्ठमयोऽभयाऽनिलकफे, प्लीहामये पिप्पली,
सन्धाने कृमिजा, विषे शुकतरुर्मेदोनिले गुग्गुलुः||४८||
वृषोऽस्रपित्ते, कुटजोऽतिसारे, भल्लातकोऽर्शःसु, गरेषु हेम|
स्थूलेषु तार्क्ष्यं, क्रिमिषु कृमिघ्नं, शोषे सुरा च्छागपयोऽथ मांसम्||४९||
अक्ष्यामयेषु त्रिफला, गुडूची वातास्ररोगे, मथितं ग्रहण्याम्|
कुष्ठेषु सेव्यः खदिरस्य सारः, सर्वेषु रोगेषु शिलाह्वयं च||५०||
उन्मादं घृतमनवं शोकं मद्यं, व्यपस्मृतिं ब्रह्मी|
निद्रानाशं क्षीरं जयति, रसाला प्रतिश्यायम्||५१||
मांसं कार्श्यं, लशुनः प्रभञ्जनं, स्तब्धगात्रतां स्वेदः|
गुडमञ्जर्याः खपुरो नस्यात् स्कन्धांसबाहुरुजम्||५२||
नवनीतखण्दमर्दितमौष्ट्रं मूत्रं पयश्च हन्त्युदरम्|
नस्यं मूर्धविकारान्, विद्रधिमचिरोत्थमस्रविस्रावः||५३||
नस्यं कवलो मुखजान्, नस्याञ्जनतर्पणानि नेत्ररुजः|
वृद्धत्वं क्षीरघृते, मूर्च्छां शीतम्बुमारुतच्छायाः||५४||
समशुक्तार्द्रकमात्रा मन्दे वह्नौ, श्रमे सुरा स्नानम्|
दुःखसहत्वे स्थैर्ये व्यायामो, गोक्षुरुर्हितः कृच्छ्रे||५५||
कासे निदिग्धिका, पार्श्वशूले पुष्करजा जटा|
वयसः स्थापने धात्री, त्रिफला गुग्गुलुर्व्रणे||५६||
बस्तिर्वातविकारान्, पैत्तान् रेकः, कफोद्भवान् वमनम्|
क्षौद्रं जयति बलासं, सर्पिः पित्तं, समीरणं तैलम्||५७||
इत्यग्र्यं यत्प्रोक्तं रोगाणामौषधं शमायालम्|
तद्देशकालबलतो विकल्पनीयं यथायोगम्||५८||
इत्यात्रेयादागमय्यार्थसूत्रं तत्सूक्तानां पेशलानामतृप्तः|
भेडादीनां सम्मतो भक्तिनम्रः पप्रच्छेदं संशयानोऽग्निवेशः||५९||
दृश्यन्ते भगवन् केचिदात्मवन्तोऽपि रोगिणः|
द्रव्योपस्थातृसम्पन्ना वृद्धवैद्यमतानुगाः||६०||
क्षीयमाणामयप्राणा विपरीतास्तथाऽपरे|
हिताहितविभागस्य फलं तस्मादनिश्चितम्||६१||
किं शास्ति शास्त्रमस्मिन् इति कल्पयतोऽग्निवेशमुख्यस्य|
शिष्यगणस्य पुनर्वसु राचख्यौ कार्त्स्न्यतस्तत्त्वम्||६२||
न चिकित्साऽचिकित्सा च तुल्या भवितुमर्हति|
विनाऽपि क्रियया स्वास्थ्यं गच्छतां षोडशांशया||६३||
आतङ्कपङ्कमग्नानां हस्तालम्बो भिषग्जितम्|
जीवितं म्रियमाणानां सर्वेषामेव नौषधात्||६४||
न ह्युपायमपेक्षन्ते सर्वे रोगा, न चान्यथा|
उपायसाध्याः सिध्यन्ति,नाहेतुर्हेतुमान् यतः||६५||
यदुक्तं सर्वसम्पत्तियुक्तयाऽपि चिकित्सया|
मृत्युर्भवति, तन्नैवं नोपायेऽस्त्यनुपायता||६६||
अपि चोपाययुक्तस्य धीमतो जातुचित् क्रिया|
न सिध्येद्दैववैगुण्यान्न त्वियं षोडशात्मिका||६७||
कस्यासिद्धोऽग्नितोयादिः स्वेदस्तम्भादिकर्मणि|
न प्रीणनं कर्षणं वा कस्य क्षीरं गवेधुकम्||६८||
कस्य माषात्मगुप्तादौ वृष्यत्वे नास्ति निश्चयः|
विण्मूत्रकरणाक्षेपौ कस्य संशयितौ यवे||६९||
विषं कस्य जरां याति मन्त्रतन्त्रविवर्जितम्|
कः प्राप्तः कल्यतां पथ्यादृते रोहिणिकादिषु||७०||
अपि चाकालमरणं सर्वसिद्धान्तनिश्चितम्|
महताऽपि प्रयत्नेन वार्यतां कथमन्यथा||७१||
न चाकालमृत्युरक्षैव प्रयोजनमस्य तन्त्रस्येत्याह
चन्दनाद्यपि दाहादौ रूढमागमपूर्वकम्|
शास्त्रादेव गतं सिद्धिं ज्वरे लङ्घनबृंहणम्||७२||
चतुष्पाद्गुणसम्पन्ने सम्यगालोच्य योजिते|
मा कृथा व्याधिनिर्घातं विचिकित्सां चिकित्सिते||७३||
एतद्धि मृत्युपाशानामकाण्डे छेदनं दृढम्|
रोगोन्त्रासितभीतानां रक्षासूत्रमसूत्रकम्||७४||
एतत्तदमृतं साक्षाज्जगदायासवर्जितम्|
याति हालाहलत्वं तु सद्यो दुर्भाजनस्थितम्||७५||
अज्ञातशास्त्रसद्भावान् शास्त्रमात्रपरायणान्|
त्यजेद्दूराद् भिषक्पाशान् पाशान् वैवस्वतानिव||७६||
भिषजां साधुवृत्तानां भद्रमागमशालिनाम्|
अभ्यस्तकर्मणां भद्रं भद्रं भद्राभिलाषिणाम्||७७||
इति तन्त्रगुणैर्युक्तं तन्त्रदोषैर्विवर्जितम्|
चिकित्साशास्त्रमखिलं व्याप्य यत् परितः स्थितम्||७८||
विपुलामलविज्ञानमहामुनिमतानुगम्|
महासागरगम्भीरसङ्ग्रहार्थोपलक्षणम्||७९||
अष्टाङ्गवैद्यकमहोदधिमन्थनेन
योऽष्टाङ्गसङ्ग्रहमहामृतराशिराप्तः|
तस्मादनल्पफलमल्पसमुद्यमानां
प्रीत्यर्थमेतदुदितं पृथगेव तन्त्रम्||८०||
इदमागमसिद्धत्वात्प्रत्यक्षफलदर्शनात्|
मन्त्रवत्संप्रयोक्तव्यं न मीमांस्यं कथञ्चन||८१||
दीर्ग़जीवितमारोग्यं धर्ममर्थं सुख़ं यशः|
पाठावबोधानुष्ठानैरधिगच्छत्यतो ध्रुवम्||८२||
एतत्पठन् सङ्ग्रहबोधशक्तः स्वभ्यस्तकर्मा भिषगप्रकम्प्यः|
आकम्पयत्यन्यविशालतन्त्रकृताभियोगान् यदि तन्न चित्रम्||८३||
यदि चरकमधीते तद् ध्रुवं सुश्रुतादि प्रणिगदितगदानां नाममात्रेऽपि बाह्यः|
अथ चरकविहीनः प्रक्रियायामखिन्नः किमिव खलु करोतु व्याधितानां वराकः||८४||
अभिनिवेशवशादभियुज्यते सुभणितेऽपि न यो दृढमूढकः|
पठतु यत्नपरः पुरुषायुषं स खलु वैद्यकमाद्यमनिर्विदः||८५||
वाते पित्ते श्लेष्मशान्तौ च पथ्यं तैलं सर्पिर्माक्षिकं च क्रमेण|
एतद् ब्रह्मा भाषतां ब्रहजो वा का निर्मन्त्रे वक्तृभेदोक्तिशक्तिः||८६||
अभिधातृवशात् किं वा द्रव्यशक्तिर्विशिष्यते|
अतो मत्सरमुत्सृज्य माध्यस्थ्यमवलम्ब्यताम्||८७||
ऋषिप्रणीते प्रीतिश्चेन्मुक्त्वा चरकसुश्रुतौ|
भेडाद्याः किं न पठ्यन्ते तस्माद्ग्राह्यं सुभाषितम्||८८||
हृदय हृदयमेतत्सर्वायुर्वेदवाङ्मयपयोधेः|
कृत्वा यच्छुभमाप्तं शुभमस्तु परं ततो जगतः|८९|
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने वाजीकरणविधिर्नाम चत्वारिंशोऽध्यायः|४०|