39.रसायनविधिरध्यायः
अथातो रसायनविधिमध्यायं व्याख्यास्यामः।
इति स्माहुरात्रेयादयो महर्षयः।
दीर्घमायुः स्मृतिं मेधामारोग्यं तरुणं वयः।
प्रभावर्णस्वरौदार्यं देहेन्द्रियबलोदयम्॥१॥
वाक्सिद्धिं वृषतां कान्तिमवाप्नोति रसायनात्।
लाभोपायो हि शस्तानां रसादीनां रसायनम्॥२॥
पूर्वे वयसि मध्ये वा तत्प्रयोज्यं जितात्मनः।
स्निग्धस्य स्रुतरक्तस्य विशुद्धस्य सर्वथा॥३॥
अविशुद्धे शरीरे हि युक्तो रासायनो विधिः।
वाजीकरो वा मलिने वस्त्रे रङ्ग इवाफलः॥४॥
रसायनानां द्विविधं प्रयोगमृषयो विदुः।
कुटीप्रावेशिकं मुख्यं वातातपिकमन्यथा॥५॥
पुरे प्राप्योपकरणे हर्म्यनिर्वातनिर्भये।
दिश्युदीच्यां शुभे देशे त्रिगर्भां सूक्ष्मलोचनाम्॥६॥
धूमातपरजोव्यालस्त्रीमूर्खाद्यविलङ्घिताम्।
सज्जवैद्योपकरणां सुमृष्टां कारयेत्कुटीम्॥७॥
अथ पुण्येऽह्नि सम्पूज्य पूज्यांस्तां प्रविशेच्छुचिः।
तत्र संशोधनैः शुद्धः सुखी जातबलः पुनः॥८॥
ब्रह्मचारी धृतियुतः श्रद्दधानो जितेन्द्रियः।
दानशीलदयासत्यव्रतधर्मपरायणः॥९॥
देवतानुस्मृतौ युक्तो युक्तस्वप्नप्रजागरः।
प्रियौषधः पेशलवागारभेत रसायनम्॥१०॥
हरीतकीमामलकं सैन्धवं नागरं वचाम्।
हरिद्रां पिप्पलीं वेल्लं गुडं चोष्णाम्बुना पिबेत्॥११॥
स्निग्धस्विन्नो नरः पूर्वं, तेन साधु विरिच्यते।
ततः शुद्धशरीराय कृतसंसर्जनाय च॥१२॥
त्रिरात्रं पञ्चरात्रं वा सप्ताहं वा घृतान्वितम्।
दद्याद्यावकमाशुद्धेः पुराणशकृतोऽथवा॥१३॥
इत्थं संस्कृतकोष्ठस्य रसायनमुपाहरेत्।
यस्य यद्यौगिकं पश्येत्सर्वमालोच्य सात्म्यवित्॥१४॥
पथ्यासहस्रं त्रिगुणधात्रीफलसमन्वितम्।
पञ्चानां पञ्चमूलानां सार्धं पलशतद्वयम्॥१५॥
जले दशगुणे पक्त्वा दशभागस्थिते रसे।
आपोथ्य कृत्वा व्यस्थीनि विजयामलकान्यथा॥१६॥
विनीय तस्मिन्निर्यूहे योजयेत्कुडवांशकम्।
त्वगेलामुस्तरजनीपिप्पल्यगुरुचन्दनम्॥१७॥
मण्डूकपर्णीकनकशङ्खपुष्पीवचाप्लवम्।
यष्ट्याह्वयं विडङ्गं चूर्णितं तुलयाऽधिकम्॥१८॥
सितोपलार्धभारं पात्राणि त्रीणि सर्पिषः।
द्वे तैलात् पचेत्सर्वं तदग्नौ लेहतां गतम्॥१९॥
अवतीर्णं हिमं युञ्ज्याद्विंशैः क्षौद्रशतैस्त्रिभिः।
ततः खजेन मथितं निदध्याद् घृतभाजने॥२०॥
या नोपरुन्ध्यादाहारमेकं मात्राऽस्य सा स्मृता।
षष्टिकः पयस चात्र जीर्णे भोजनमिष्यते॥२१॥
वैखानसा वालखिल्यास्तथा चान्ये तपोधनाः।
ब्रह्मणा विहितं धन्यमिदं प्रश्य रसायनम्॥२२॥
तन्द्राश्रमाक्लमवलीपलितामयवर्जिताः।
मेघास्मृतिबलोपेता बभूवुरमितायुषः॥२३॥
अभयामलकसहस्रं निरामयं पिप्पलीसहस्रयुतम्।
तरुणपलाशक्षरद्रवीकृतं स्थापयेद्भाण्डे॥२४॥
उपयुक्ते क्षारे छायासंशुष्कचूर्णितं योज्यम्।
पादांशेन सितायाश्चतुर्गुणाभ्यां मधुघृताभ्याम्॥२५॥
तद्घृतकुम्भे भूमौ निधाय षण्माससंस्थमुद्धृत्य।
प्राह्णे प्राश्य यथानलमुचिताहारो भवेत्सततम्॥२६॥
इत्युपयुञ्ज्याशेषं वर्षशतमनामयो जरारहितः।
जीवति बलपुष्टिवपुःस्मृतिमेधाद्यन्वितो विशेषेण॥२७॥
नीरुजार्द्रपलाशस्य छिन्ने शिरसि तत्क्षतम्।
अन्तर्द्विहस्तं गम्भीरं पूर्यमामलकैर्नवैः॥२८॥
आमूलं वेष्टितं दर्भैः पद्मिनीपङ्कलेपितम्।
आदीप्य गोमयैर्वन्यैर्निर्वाते स्वेदयेत्ततः॥२९॥
स्विन्नानि तान्यामलकानि तृप्त्या खदेन्नरः क्षौद्रघृतान्वितानि।
क्षीरं शृतं चानु पिबेत्प्रकामं तेनैव वर्तेत मासमेकम्॥३०॥
वर्ज्यानि वर्ज्यानि तत्र यत्नात् स्पृश्यं शीताम्बु पाणिनाऽपि।
एकादशाहेऽस्य ततो व्यतीते पतन्ति केशा दशना नखाश्च॥३१॥
अथाल्पकैरेव दिनैः सुरूपः स्त्रीष्वक्षयः कुञ्जरतुल्यवीर्यः।
विशिष्टमेधाबलबुद्धिसत्त्वो भवत्यसौ वर्षसहस्रजीवी॥३२॥
दशमूलबलामुस्तजीवकर्षभकोत्पलम्।
पर्णिन्यौ पिप्पली शृङ्गी मेदा तामलकी त्रुटिः॥३३॥
जीवन्ती जोङ्गकं द्राक्षा पौष्करं चन्दनं शठी।
पुनर्नवर्द्धिकाकोलीकाकनासामृताद्वयम्॥३४॥
विदारी वृषमूलं तदैकध्यं पलोन्मितम्।
जलद्रोणे पचेत्पञ्च धात्रीफलशतानि च॥३५॥
पादशेषं रसं तस्माद्व्यस्थीन्यामलकानि च।
गृहीत्वा भर्जयेत्तैलघृताद् द्वादशभिः पलैः॥३६॥
मत्स्यण्डिकातुलार्धेन युक्तं तल्लेहवत् पचेत्।
स्नेहार्धं मधु सिद्धे तु तवक्षीर्याश्चतुष्पलम्॥३७॥
पिप्पल्या द्विपलं दद्याच्चतुर्जातं कणार्धितम्।
अतोऽवलेहयेन्मात्रां कुटीस्थः पथ्यभोजनः॥३८॥
इत्येष च्यवनप्राशो यं प्राश्य च्यवनो मुनिः।
जराजर्जरितोऽप्यासीन्नारीनयनन्दनः॥३९॥
कासं श्वासं ज्वरं शोषं हृद्रोगं वातशोणितम्।
मूत्रशुक्राश्रयान् दोषान् वैस्वर्यं व्यपोहति॥४०॥
बालवृद्धक्षतक्षीणकृशानामङ्गवर्धनः।
मेधां स्मृतिं कान्तिमनामत्वमायुःप्रकर्षं पवनानुलोम्यम्।
स्त्रीषु प्रहर्षं बलमिन्द्रियाणामग्नेश्च कुर्याद्विधिनोपयुक्तः॥४१॥
मधुकेन तवक्षीर्या पिप्पल्या सिन्धुजन्मना।
पृथग्लोहैः सुवर्णेन वचया मधुसर्पिषा॥४२॥
सितया वा समा युक्ता समायुक्ता रसायनम्।
त्रिफला सर्वरोगघ्नी मेधायुःस्मृतिबुद्धिदा॥४३॥
मण्डूकपर्ण्याः स्वरसं यथाग्नि क्षीरेण यष्टीमधुकस्य चूर्णम्।
रसं गुडूच्याः सहमूलपुष्प्याः कल्कं प्रयुञ्जीत शङ्खपुष्प्याः॥४४॥
अयुष्प्रदान्यामयनाशनानि बलाग्निवर्णस्वरवर्धनानि।
मेध्यानि चैतानि रसायनानि मेध्या विशेषेण तु शङ्खपुष्पी॥४५॥
नलदं कटुरोहिणी पयस्या मधुकं चन्दनसारिवोग्रगन्धाः।
त्रिफला कटुकत्रयं हरिद्रे सपटोलं लवणं तैः सुपिष्टैः॥४६॥
त्रिगुणेन रसेन शङ्खपुष्प्याः सपयस्कं घृतनल्वणं विपक्वम्।
उपयुज्य भवेज्जडोऽपि वाग्मी श्रुतधारी प्रतिभानवानरोगः॥४७॥
पैष्यैर्मृणालबिसकेसरपत्रबीजैः सिद्धं सहेमशकलं पयसा सर्पिः।
पञ्चारविन्दमिति तत्प्रथितं पृथिव्यां प्रभ्रष्टपौरुषबलप्रतिभैर्निषेव्यम्॥४८॥
यन्नालकन्ददलकेसरवद्विपक्वं नीलोत्पलस्य तदपि प्रथितं द्वितीयम्।
सर्पिश्चतुष्कुवलयं सहरिण्यपत्रं मेध्यं गवामपि भवेत् किमु मानुषाणाम्॥४९॥
ब्राह्मीवचासैन्धवशङ्खपुष्पी-मत्स्याक्षकब्रह्मसुवर्चलैन्द्र्यः।
वैदेहिका त्रियवाः पृथक्स्युर्यवौ सुवर्णस्य तिलो विषस्य॥५०॥
सर्पिषश्च पलमेकत एतद्योजयेत्परिणते घृताढ्यम्।
भोजनं समधु वत्सरमेवं शीलयन्नधिकधीस्मृतिमेधः॥५१॥
अतिक्रान्तजराव्याधितन्द्रालस्यश्रमक्लमः।
जीवत्यब्दशतं पूर्णं श्रीतेजःकान्तिदीप्तिमान्॥५२॥
विशेषतः कुष्ठकिलासगुल्म विषजवरोन्मादगरोदराणि।
अथर्वमन्त्रादिकृताश्च कृत्याः शाम्यन्त्यनेनातिबलाश्च वाताः॥५३॥
शरन्मुखे नागबलां पुष्ययोगे समुद्धरेत्।
अक्षमात्रं ततो मूलाच्चूर्णितात्पयसा पिबेत्॥५४॥
लिह्यान्मधुघृताभ्यां क्षीरवृत्तिरनन्नभुक्।
एवं वर्षप्रयोगेण जीवेद्वर्षशतं बली॥५५॥
फलोन्मुख़ो गोक्षुरकः समूलश्छायाविशुष्कः सुविचूर्णिताङ्गः।
सुभवितः स्वेन रसेन तस्मान्मात्रां परां प्रासृतिकीं पिवेद्यः॥५६॥
क्षीरेण तेनैव शालिमश्नन् जीर्णे भवेत्स द्वितुलोपयोगात्।
शक्तः सुरूपः सुभगः शतायुः कामी कुकुद्मानिव गोकुलस्थः॥५७॥
वाराहीकन्दमाऱ्द्राद्रं क्षीरेण क्षीरपः पिबेत्।
मासं निरन्नो मासं क्षीरान्नादो जरां जयेत्॥५८॥
तत्कन्दश्लक्ष्णचूर्णं वा स्वरसेन सुभावितम्।
घृतक्षौद्रप्लुतं लिह्यात्तत्पक्वं वा घृतं पिबेत्॥५९॥
तद्वद्विदार्यतिबलाबलामधुकवायसीः।
श्रेयसीश्रेयसीयुक्तापथ्याधात्रीस्थिरामृताः॥६०॥
मण्डूकीशङ्खकुसुमावाजिगन्धाशतावरीः।
उपयुञ्जीत मेधाधीवयः स्थैर्यबलप्रदाः॥६१॥
यथास्वं चित्रकः पुष्पैर्ज्ञेयः पीतसितासितैः।
यथोत्तरं गुणवान् विधिना रसायनम्॥६२॥
छायाशुष्कं ततो मूलं मासं चूर्णीकृतं लिहन्।
सर्पिषा मधुसर्पिर्भ्यां पिबन् वा पयसा यतिः॥६३॥
अम्भसा वा हितान्नाशी शतं जीवति नीरुजः।
मेधावी बलवान् कान्तो वपुष्मान् दीप्तपावकः॥६४॥
तैलेन लीढो मासेन वातान् हन्ति सुदुस्तरान्।
मूत्रेण श्वित्रकुष्ठानि पीतस्तक्रेण पायुजान्॥६५॥
भल्लातकानि पुष्टानि धान्यराशौ निधापयेत्।
ग्रीष्मे संगृह्य हेमन्ते स्वादुस्निग्धहिमैर्वपुः॥६६॥
संस्कृत्य तान्यष्टगुणे सलिलेऽष्टौ विपाचयेत्।
अष्टांशशिष्टं तत्क्वाथं सक्षीरं शीतलं पिबेत्॥६७॥
वर्धयेत्प्रत्यहं चानु तत्रैकैकमरुष्करम्।
सप्तरात्रत्रयं यावत् त्रीणि त्रीणि ततः परम्॥६८॥
आचत्वारिंशतस्तानि ह्रासयेद्द्वृद्धिवत्ततः।
सहस्रमुपयुञ्जीत सप्ताहैरिति सप्तभिः॥६९॥
यन्त्रितात्मा ग़ृतक्षीरशालिषष्टीकभोजनः।
तद्वत्त्रिगुणितं कालं प्रयोगान्तेऽपि चाचरेत्॥७०॥
आशेषो लभतेऽपूर्वा वह्नेर्दीप्तिं विशेषतः।
प्रमेहकृमिकुष्ठार्शोमेदोदोषविवर्जितः॥७१॥
पिष्टस्वेदनमरुजैः पूर्णं भल्लातकैर्विजर्जरितैः।
भूमिनिखाते कुम्भे प्रतिष्ठितं कृष्णमृल्लिप्तम्॥७२॥
परिवारितं समन्तात्पचेत्ततो गोमयाग्निना मृदुना।
तत्स्वरसो यश्च्यवते गृह्णीयात्तं दिनेऽन्यस्मिन्॥७३॥
अमुमुपयुज्य स्वरसं मध्वष्टमभागिकं द्विगुणसर्पिः।
पूर्वविधियन्त्रितात्मा प्राप्नोति गुणान् तानेव॥७४॥
पुष्टानि पाकेन परिच्युतानि भल्लातकान्याढकसम्मितानि।
घृष्ट्वेष्टिकाचूर्णकणैर्जलेन प्रक्षाल्य संशोष्य मारुतेन॥७५॥
जर्जराणि विपचेज्जलकुम्भे पादशेषधृतगालितशीतम्।
तद्रसं पुनरपि श्रपयेत क्षीरकुम्भसहितं चरणस्थे॥७६॥
सर्पिः पक्वं तत्र तुल्यप्रमाणं युञ्ज्यात्स्वेच्छं शर्कराया रजोभिः।
एकीभूतं तत्खजक्षोभणेन स्थाप्यं धान्ये सप्तरात्रं सुगुप्तम्॥७७॥
तममृतरसपाकं यः प्रगे प्राशमश्नन् अनु पिबति यथेष्टं वारि दुग्धं रसं वा।
स्मृतिमतिबलमेधासत्त्वसारैरुपेतः कनकनिचयगौरः सोऽश्नुते दीर्घमायुः॥७८॥
द्रोणेऽम्भसो व्रणकृतां त्रिशताद्विपक्वात्
क्वाथाढके पलसमैस्तिलतैलपात्रम्।
तिक्ताविषाद्वयवरागिरिजन्मतार्क्ष्यैः
सिद्धं परं निखिलकुष्ठनिबर्हणाय॥७९॥
सहामलकशुक्तिभिर्दधिसरेण तैलेन वा
गुडेन पयसा घृतेन यवसक्तुभिर्वा सह।
तिलेन सह माक्षिकेण पललेन सूपेन वा
वपुष्करमरुष्करं परममेध्यमायुष्करम्॥८०॥
भल्लातकानि तीक्ष्णानि पाकीन्यग्निसमानि च।
भवन्त्यमृतकल्पानि प्रयुक्तानि यथाविधि॥८१॥
कफजो रोगोऽस्ति विबन्धोऽस्ति कश्चन।
यं भल्लातकं हन्याच्छीघ्रमग्निबलप्रदम्॥८२॥
वातातपविधानेऽपि विशेषेण विवर्जयेत्।
कुलत्थदधिशुक्तानि तैलाभ्यङ्गाग्निसेवनम्॥८३॥
वृक्षास्तुवरका नाम पश्चिमार्णवतीरजाः।
वीचीतरङ्गविक्षोभमारुतोद्धूतपल्लवाः॥८४॥
तेभ्यः फलान्याददीत सुपक्वान्यम्बुदागमे।
मज्ज्ञः फलेभ्यश्चादाय शोषयित्वाऽवचूर्ण्य च॥८५॥
तिलवत् पीडयेद् द्रोण्यां, क्वाथयेद्वा कुसुम्भवत्।
तत्तैलं सम्भृतं भूयः पचेदासलिलक्षयात्॥८६॥
अवतार्य करीषे पक्षमात्रं निधापयेत्।
स्निग्धस्विन्नो हृतमलः पक्षादुद्धृत्य तत्ततः॥८७॥
चतुर्थभक्तान्तरितः प्रातः पाणितलं पिबेत्।
मन्त्रेणानेन पूतस्य तैलस्य दिवसे शुभे॥८८॥
"
मज्जसार महावीर्य सर्वान् धातून् विशोधय।
शङ्खचक्रगदापाणिस्त्वामाज्ञापयतेऽच्युतः॥८९॥
तेनास्योर्ध्वमधस्ताच्च दोषा यान्त्यसकृत्ततः।
सायमस्नेहलवणां यवागूं शीतलां पिबेत्॥९०॥
पञ्चाहानि पिबेत्तैलमित्थं वर्ज्यान् विवर्जयन्।
पक्षं मुद्गरसान्नाशी सर्वकुष्ठैर्विमुच्यते॥९१॥
तदेव खदिरक्वाथे त्रिगुणे साधु साधितम्।
निहितं पूर्ववत्पक्षं पिबेन्मासं सुयन्त्रितः॥९२॥
तेनाभ्यक्तशरीरश्च कुर्वन्नाहारमीरितम्।
[
भिन्नस्वरं रक्तनेत्रं शीर्णाङ्गं कृमिभक्षितम्। ]
अनेनाशु प्रयोगेण साधयेत्कुष्ठिनं नरम्॥९३॥
सर्पिर्मधुयुतं पीतं तदेव खदिराद्विना।
पक्षं मांसरसाहारं करोति द्विशतायुषम्॥९४॥
तदेव नस्ये पञ्चाशद्दिवसानुपयोजितम्।
[
वलीपलितनिर्मुक्तं स्थिरस्मृतिकचद्विजम्। ]
वपुष्मतं श्रुतधरं करोति त्रिशतायुषम्॥९५॥
पञ्चाष्टौ सप्त दश वा पिप्पलीर्मधुसर्पिषा।
रसायनगुणान्वेषी समामेकां प्रयोजयेत्॥९६॥
तिस्रस्तिस्रस्तु पूर्वाह्णे भुक्त्वाऽग्रे भोजनस्य च।
पिप्पल्यः किंशुकक्षारभाविता घृतभर्जिताः॥९७॥
प्रयोज्या मधुसम्मिश्रा रसायनगुणैषिणा।
क्रमवृद्ध्या दशाहानि दशपैप्पलिकं दिनम्॥९८॥
वर्धयेत्पयसा सार्धं तथैवापनयेत्पुनः।
जीर्णौषधश्च भुञ्जीत षष्टिकं क्षीरसर्पिषा॥९९॥
पिप्पलीनां सहस्रस्य प्रयोगोऽयं रसायनम्।
पिष्टास्ता बलिभिः पेयाः शृता मध्यबलैर्नरैः॥१००॥
[
शीतीकृता हीनबलैर्वीक्ष्य दोषामयान् प्रति। ]
तद्वच्च छागदुग्धेन द्वे सहस्रे प्रयोजयेत्।
एभिः प्रयोगैः पिप्पल्यः कासश्वासगलग्रहान्॥१०१॥
यक्ष्ममेहग्रहण्यर्शःपाण्डुत्वविषमज्वरान्।
घ्नन्ति शोफं वमिं हिध्मां प्लीहानं वातशोणितम्॥१०२॥
बिल्वार्धमात्रेण पिप्पलीनां पात्रं प्रलिम्पेदयसो निशायाम्।
प्रातः पिबेत्तत्सलिलाञ्जलिभ्यां वर्षं यथेष्टाशनपानचेष्टः॥१०३॥
शुण्ठीविडङ्गत्रिफलागुडूचीयष्टीहरिद्रातिबलाबलाश्च।
मुस्तासुराह्वागुरुचित्रकाश्च सौगन्धिकं पङ्कजमुत्पलानि॥१०४॥
धवाश्वकर्णासनबालपत्रसारास्तथा पिप्पलिवत् प्रयोज्याः।
लोहोपलिप्ताः पृथगेव जीवेत्समाः शतं व्याधिजराविमुक्तः॥१०५॥
क्षीराञ्जलिभ्यां रसायनानि युक्तान्यमून्यायसलेपनानि।
कुर्वन्ति पूर्वोक्तगुणप्रकर्षमायुःप्रकर्षं द्विगुणं ततश्च॥१०६॥
असनखदिरयूषैर्भावितां सोमराजीं मधुघृतशिखिपथ्यालोहचूर्णैरुपेतां।
शरदमवलिहानः पारिणामान् विकारांस्त्यजति मितहिताशी तद्वदाहारजातान्॥१०७॥
तीव्रेण कुष्ठेन परीतमूर्तिर्यः सोमराजीं नियमेन खादेत्।
संवत्सरं कृष्णतिलद्वितीयां सोमराजीं वपुषाऽतिशेते॥१०८॥
ये सोमराज्या वितुषीकृतायाश्चूर्णैरूपेतात् पयसः सुजातात्।
उद्धृत्य सारं मधुना लिहन्ति तक्रं तदेवानु पिबन्ति चान्ते॥१०९॥
कुष्ठिनः शीर्यमाणाङ्गास्ते जाताङ्गुलिनासिकाः।
भान्ति वृक्षा इव पुनः प्ररूढनवपल्लवाः॥११०॥
[
शीतवातहिमदग्धतनूनां स्तब्धभग्नकुटिलव्यथितास्थ्नाम्।
भेषजस्य पवनोपहतानां वक्ष्यते विधिरतो लशुनस्य॥१॥ ]
राहोरमृतचौर्येण लूनाद्ये पतिता गलात्।
अमृतस्य कणा भूमौ ते रसोनत्वमागताः॥१११॥
द्विजा नाश्नन्ति तमतो दैत्यदेहसमुद्भवम्।
साक्षादमृतसम्भूतेर्ग्रामणीः रसायनम्॥११२॥
शीलयेल्लशुनं शीते, वसन्तेऽपि कफोल्बणः।
घनोदयेऽपि वार्तातः, सदा वा ग्रीष्मलीलया॥११३॥
स्निग्धशुद्धतनुः शीतमधुरोपस्कृताशयः।
तदुत्तंसावतंसाभ्यां चर्चितानुचराजितः॥११४॥
तस्य कन्दान् वसन्तान्ते हिमवच्छकदेशजान्।
अपनीतत्वचो रात्रौ तिमयेन्मदिरादिभिः॥११५॥
तत्कल्कस्वरसं प्रातः शुचितान्तवपीडितम्।
मदिरायाः सूरूढायास्त्रिभागेन समन्वितम्॥११६॥
मद्यस्यान्यस्य तक्रस्य मस्तुनः काञ्जिकस्य वा।
तत्काल एव वा युक्तं युक्तमालोच्य मात्रया॥११७॥
तैलसर्पिर्वसामज्जक्षीरमांसरसैः पृथक्।
क्वाथेन वा यथाव्याधि रसं केवलमेव वा॥११८॥
पिबेद्गण्डूषमात्रं प्राक् कण्ठनाडीविशुद्धये।
प्रततं स्वेदनं चानु वेदनायां प्रशस्यते॥११९॥
शीताम्बुसेकः सहसा वमिमूर्च्छाययोर्मुखे।
शेषं पिबेत् क्लमापाये स्थिरतां गत ओजसि॥१२०॥
विदाहपरिहाराय परं शीतानुलेपनः।
धारयेत्साम्बुकणिका मुक्ताकर्पूरमालिकाः॥१२१॥
कुडवोऽस्य पर मात्रा तदर्धं केवलस्य तु।
पलं पिष्टस्य तन्मज्ज्ञः सभक्तं प्राक् शीलयेत्॥१२२॥
जीर्णशाल्योदनं जीर्णे शङ्खकुन्देन्दुपाण्डुरम्।
भुञ्जीत यूषैः पयसा रसैर्वा धन्वचारिणाम्॥१२३॥
मद्यमेकं पिबेत्तत्र तृट्प्रबन्धे जलान्वितम्।
अमद्यपस्त्वारनालं फलाम्बु परिसिक्थकाम्॥१२४॥
तत्कल्कं वा समघृतं घृतपात्रे खजाहतम्।
स्थितं दशाहादश्नीयात्तद्वद्वा वसया समम्॥१२५॥
विकञ्चुकप्राज्यरसोनगर्भान् सशूल्यमांसान् विविधोपदंशान्।
निमर्दकान् वा घृतशुक्तयुक्तान् प्रकाममद्याल्लघु तुच्छमश्नन्॥१२६॥
पित्तरक्तविनिर्मुक्तसमस्तावरणावृते।
शुद्धे वा विद्यते वायौ द्रव्यं लशुनात्परम्॥१२७॥
प्रियाम्बुगुडदुग्धस्य मांसमद्याम्लविद्विषः।
अतितिक्षोरजीर्णं रसोनो व्यापदे ध्रुवम्॥१२८॥
पित्तकोपभयादन्ते युञ्ज्यान्मृदु विरेचनम्।
रसायनगुणानेवं परिपूर्णान् समश्रुते॥१२९॥
ग्रीष्मेऽर्कतप्ता गिरयो जतुतुल्यं वमन्ति यत्।
हेमादिषड्धातुरसं प्रोच्यते तच्छिलाजतु॥१३०॥
सर्वं तिक्तकटुकं नात्युष्णं कटु पाकतः।
छेदनं विशेषेण लौहं तत्र प्रशस्यते॥१३१॥
गोमूत्रगन्धि कृष्णं गुग्गुल्वाभं विशर्करं मृत्स्नम्।
स्निग्धमनम्लकषायं मृदु गुरु शिलाजतु श्रेष्ठम्॥१३२॥
व्याधिव्याधितसात्म्यं समनुस्मरन् भावयेदयःपात्रे।
प्राक् केवलजलधौतं शुष्कं क्वाथैस्ततो भाव्यम्॥१३३॥
समगिरिजमष्टगुणिते निःक्वाथ्यं भावनौषधं तोये।
तन्निर्यूहेऽष्टांशे पूतोष्णे प्रक्षिपेद् गिरिजम्॥१३४॥
तत्समरसतां यातं संशुष्कं प्रक्षिपेद्रसे भूयः।
स्वैः स्वैरेवं क्वाथैर्भाव्यं वारान् भवेत्सप्त॥१३५॥
अथ स्निग्धस्य शुद्धस्य घृतं तिक्तकसाधितम्।
त्र्यहं युञ्जीत गिरिजमेकैकेन तथा त्र्यहम्॥१३६॥
फलत्रयस्य यूषेण पटोल्या मधुकस्य च।
योगं योग्यं ततस्तस्य कालापेक्षं प्रयोजयेत्॥१३७॥
शिलाजमेवं देहस्य भवत्यत्युपकारम्।
गुणान् समग्रान् कुरुते सहसा व्यापदं च॥१३८॥
एकत्रिसप्तसप्ताहं कर्षमर्धपलं पलम्।
हीनमध्योत्तमो योगः शिलाजस्य क्रमान्मतः॥१३९॥
संस्कृतं संस्कृते देहे प्रयुक्तं गिरिजाह्वयम्।
युक्तं व्यस्तैः समस्तैर्वा ताम्रायोरूप्यहेमभिः॥१४०॥
क्षीरेणालोडितं कुर्याच्छीघ्रं रासायनं फलम्।
कुलत्थान् काकमाचीं कपोतांश्च सदात्यजेत्॥१४१॥
सोऽस्ति रोगो भुवि साध्यरूपो जत्वश्मजं यं जयेत् प्रसह्य।
तत् कालयोगैर्विधिवत् प्रयुक्तं स्वस्थस्य चोर्जां विपुलां दधाति॥१४२॥
कुटीप्रवेशः क्षणिनां परिच्छदवतां हितः।
अतोऽन्यथा तु ये तेषां सौर्यमारुतिको विधिः॥१४३॥
वातातपसहा योगा वक्ष्यन्तेऽतो विशेषतः।
सुखोपचारा भ्रंशेऽपि ये देहस्य बाधकाः॥१४४॥
शीतोदकं पयः क्षौद्रं घृतमेकैकशो द्विशः।
त्रिशः समस्तमथवा प्राक् पीतं स्थापयेद्वयः॥१४५॥
गुडेन मधुना शुण्ठ्या कृष्णया लवणेन वा।
द्वे द्वे खादन् सदा पथ्ये जीवेद्वर्षशतं सुखी॥१४६॥
हरीतकीं सर्पिषि सम्प्रताप्य समश्नतस्तत् पिबेतो घृतं च।
भवेच्चिरस्थायि बलं शरीरे सकृत् कृतं साधु यथा कृतज्ञे॥१४७॥
धात्रीरसक्षौद्रसिताघृतानि हिताशनानां लिहतां नराणाम्।
प्रणाशमायान्ति जराविकारा ग्रन्था विशाला इव दुर्गृहीताः॥१४८॥
धात्रीकृमिघ्नासनसारचूर्णं सतैलसर्पिर्मधुलोहरेणु।
निषेवमाणस्य भवेन्नरस्य तारुण्यलावण्यमविप्रणष्टम्॥१४९॥
लौहं रजो वेल्लभवं सर्पिःक्षौद्रद्रुतं स्थापितमब्दमात्रम्।
समुद्गके बीजकसारक्लृप्ते लिहन् बली जीवति कृष्णकेशः॥१५०॥
विडङ्गभल्लातकनागराणि येऽश्नति सर्पिर्मधुसंयुतानि।
जरानदीं रोगतरङ्गिणीं ते लावण्ययुक्ताः पुरुषास्तरन्ति॥१५१॥
खदिरासनयूषभावितायास्त्रिफलाया घृतमाक्षिकप्लुतायाः।
नियमेन नरा निषेवितारो यदि जीवन्त्यरुजः किमत्र चित्रम्।१५२।
बीजकस्य रसमङ्गुलिहार्यं शर्करां मधु घृतं त्रिफलां च।
शीलयत्सु पुरुषेषु जरत्ता स्वागताऽपि विनिवर्तत एव॥१५३॥
पुनर्नवस्यार्धपलं नवस्य पिष्टं पिबेद्यः पयसाऽर्धमासम्।
मासद्वयं तत्त्रिगुणं समां वा जीर्णोऽपि भूयः पुनर्नवः स्यात्॥१५४॥
मूर्वाबृहत्यंशुमतीबलानामुशीरपाठासनसारिवाणाम्।
कालानुसार्यागुरुचन्दनानां वदन्ति पौनर्नवमेव कल्पम्॥१५५॥
शतावरीकल्ककषायसिद्धं ये सर्पिरश्नन्ति सिताद्वितीयम्।
तान् जीविताध्वानमभिप्रपन्नान्न विप्रलुम्पन्ति विकारचौराः॥१५६॥
पीताऽश्वगन्धा पयसाऽर्धमासं घृतेन तैलेन सुखाम्बुना वा।
कृशस्य पुष्टिं वपुषो विधत्ते बालस्य सस्यस्य यथा सुवृष्टिः॥१५७॥
दिने दिने कृष्णतिलप्रकुञ्चं समश्नतां शीतजलानुपानम्।
पोषः शरीरस्य भवत्यनल्पो दृढीभवन्त्यामरणाच्च दन्ताः॥१५८॥
चूर्णं श्वदंष्ट्रामलकामृतानां लिहन् ससर्पिर्मधुभागमिश्रम्।
वृषः स्थिरः शान्तविकारदुःखः समाः शतं जीवति कृष्णकेशः॥१५९॥
सार्धं तिलैरामलकानि कृष्णैरक्षाणि संक्षुद्य हरीतकीर्वा।
येऽद्युर्मयुरा इव ते मनुष्या रम्यं परीणाममवाप्नुवन्ति॥१६०॥
शिलाजतुक्षौद्रविडङ्गसर्पिर्लोहाभयापारदताप्यभक्षः।
आपूर्यते दुर्बलदेहधातुस्त्रियपञ्चरात्रेण यथा शशाङ्कः॥१६१॥
ये मासमेकं स्वरसं पिबन्ति दिने दिने भृङ्गरजःसमुत्थम्।
क्षीराशिनस्ते बलवीर्ययुक्ताः समाः शतं जीवतमाप्नुवन्ति॥१६२॥
मासं वचामप्युपसेवमानाः क्षीरेण तैलेन घृतेन वाऽपि।
भवन्ति रक्षोभिरधृष्यरूपा, मेधाविनो निर्मलमृष्टवाक्याः॥१६३॥
मण्डूकपर्णीमपि भक्षयन्तो भृष्टां घृते मासमनन्नभक्षाः।
जीवन्ति कालं विपुलं प्रगल्भास्तारुण्यलावण्यगुणोदयस्थाः॥१६४॥
लाङ्गलीत्रिफलालोहपलपञ्चाशता कृतम्।
मार्कवस्वरसे षष्ट्या गुलिकानां शतत्रयम्॥१६५॥
छायाविशुष्कं गुलिकार्धमद्यात् पूर्वं समस्तामपि तां क्रमेण।
भजेद्विरिक्तः क्रमशश्च मण्डं पेयां विलेपीं रसकौदनं च॥१६६॥
सर्पिःस्निग्धं मासमेकं यतात्मा मासादूर्ध्वं सर्वथा स्वैरवृत्तिः।
वर्ज्यं यत्नात्सर्वकालं त्वजीर्णं वर्षेणैवं योगमेवोपयुञ्यात्॥१६७॥
भवति विगतरोगो योऽप्यसाध्यामयार्तः प्रबलपुरुषकारः शोभते योऽपि वृद्धः।
उपचितपृथुगात्रश्रोत्रनेत्रादियुक्तस्तरुण इव समानां पञ्च जीवेच्छतानि॥१६८॥
गायत्रीशिखिशिंशिपासनशिवावेल्लाक्षकारुष्करान्
पिष्ट्वाऽष्टादशसंगुणेऽम्भसि धृतान् खण्डैः सहायोमयैः।
पात्रे लोहमये त्र्यहं रविकरैरालोडयन् पाचये
दग्नौ चानु मृदौ सलोहशकलं पादस्थितं तत्पचेत्॥१६९॥
पूतस्यांशः क्षीरतोंऽशस्तथांऽशौ भार्ङ्गान्निर्यासाद् द्वौ वरायास्त्रयोंऽशाः।
अंशाश्चत्वारश्चेह हैयङ्गवीनादेकीकृत्यैतत्साधयेत्कृष्णलौहे॥१७०॥
विमलखण्डसितामधुभिः पृथक् युतमयुक्तमिदं यति वा घृतम्।
स्वरुचिभोजनपानविचेष्टितो भवति ना पलशः परिशीलयन्॥१७१॥
श्रीमान्निर्धूतपाप्मा वनमहिषबलो वाजिवेगः स्थिराङ्गः
केशैर्भृङ्गाङ्गनीलैर्मधुसुरभिमुखो नैकयोषिन्निषेवी।
वाङ्मोधाधीसमृद्धः सुपटुहुतवहो मासमात्रोपयोगाद्
धत्तेऽसौ नारसिंहं वपुरनलशिखातप्तचामीकराभम्॥१७२॥
अत्तारं नारसिंहस्य व्याधयो स्पृशन्त्यपि।
चक्रोज्वलभुजं भीता नारसिंहमिवासुराः॥१७३॥
भृङ्गप्रवालानमुनैव भृष्टान् घृतेन यः खादति यन्त्रितात्मा।
विशुद्धकोष्ठोऽसनसारसिद्धदुग्धानुपस्तत्कृत भोजनार्थः॥१७४॥

मासोपयोगात् सुखी जीवत्यब्दशतत्रयम्।
गृह्णाति सकृदप्युक्तमविलुप्तस्मृतीन्द्रियः॥१७५॥
अनेनैव कल्पेन यस्तैलमुपयोजयेत्।
तानेवाप्नोति गुणान् कृष्णकेशश्च जायते॥१७६॥
उक्तानि शक्यानि फलान्वितानि युगानुरूपाणि रसायनानि।
महानुशंसान्यपि चापराणि प्राप्त्यादिकष्टानि कीर्तितानि॥१७७॥
रसायनविधिभ्रंशाज्जायेरन् व्याधयो यदि।
यथास्वमौषधं तेषां कार्यं मुक्त्वा रसायनम्॥१७८॥
सत्यवादिनमक्रोधमध्यात्मप्रवणेन्दियम्।
शान्तं सद्दृत्तनिरतं विद्यान्नित्यरसायनम्॥१७९॥
गुणैरेभिः समुदितः सेवते यो रसायनम्।
निवृत्तात्मा दीर्घायुः परत्रेह मोदते॥१८०॥
शस्त्रानुसारिणी चर्या चित्तज्ञाः पार्श्ववर्तिनः।
बुद्धिरस्ख़लिताऽर्थेषु परिपूर्णं रसायनम्॥१८१॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्ग हृदयसंहितायां षष्ठे उत्तरस्थाने रसायनविधिर्नाम एकोनचत्वारिंशोऽध्यायः॥३९॥