36.सर्पविषप्रतिषेधाध्यायः
अथातः सर्पविषप्रतिषेधं व्याख्यास्यामः|
इति ह स्माहुरात्रयादयो महर्षयः|(गद्यसूत्रे||
दर्वीकरा मण्डलिनो राजीमन्तश्च पन्नगाः|
त्रिधा समासतो भौमाः, भिद्यन्ते ते त्वनेकधा||||
व्यासतो योनिभेदेन नोच्यन्तेऽनुपयोगिनः||||
विशेषाद्रूक्षकटुकमम्लोष्णं स्वादुशीतलम्||||
विषं दर्वीकरादीनां क्रमाद्वातादिकोपनम्||||
तरुण्यमध्यवृद्धत्वे वृष्टिशीतातपेषु च||||
विषोल्बणा भवन्त्येते व्यन्तरा ऋतुसन्धिषु||||
रथाङ्गलाङ्गलच्छत्रस्वस्तिकाङ्कुशधारिणः||||
फणिनः शीघ्रगतयः सर्पा दर्वीकराः स्मृताः||||
ज्ञेया मण्डलिनोऽभोगा मण्डलैर्विविधैश्चिताः||||
प्रांशवो मन्दगमनाः राजीमन्तस्तु राजिभिः|
स्निग्धा विचित्रवर्णाभिस्तिर्यगूर्ध्वं च चित्रिताः||||
गोधासुतस्तु गौधेरो विषे दर्वीकरैः समः|
चतुष्पाद्व्यन्तरान् विद्यादेतेषामेव सङ्करात्||||
व्यामिश्रलक्षणास्ते हि सन्निपातप्रकोपनाः||||
आहारार्थं भयात् पादस्पर्शादतिविषात् क्रुधः||||
पापवृत्तितया वैराद्देवर्षियमचोदनात्|
दशन्ति सर्पास्तेषूक्तं विषाधिक्यं यथोत्तरम्||||
आदिष्टात् कारणं ज्ञात्वा प्रतिकुर्याद्यथायथम्||१०||
व्यन्तरः पापशीलत्वान्मार्गमाश्रित्य तिष्ठति||१०||
यत्र लालापरिक्लेदमात्रं गात्रे प्रदृश्यते|
न तु दंष्ट्राकृतं दंशं तत्तुण्डाहतमादिशेत्||११||
एकं दंष्ट्रापदं द्वे वा व्यालीढाख्यमशोणितम्|
दंष्ट्रापदे सरक्ते द्वे व्यालुप्तं, त्रीणि तानि तु||१२||
मांसच्छेदादविच्छिन्नरक्तवाहीनि दष्टकम्|
दंष्ट्रापदानि चत्वारि तद्वद्दष्टनिपीडितम्||१३||
निर्विषं द्वयमत्राद्यमसाध्यं पश्चिमं वदेत्||१४||
विषं नाहेयमप्राप्य रक्तं दूषयते वपुः||१४||
रक्तमण्वपि तु प्राप्तं वर्धते तैलमम्बुवत्||१५||
भीरोस्तु सर्पसंस्पर्शाद्भयेन कुपितोऽनिलः||१५||
कदाचित्कुरुते शोफं सर्पाङ्गाभिहतं तु तत्||१६||
दुर्गान्धकारे विद्धस्य केनचिद्दष्टशङ्कया||१६||
विषोद्वेगो ज्वरश्चर्दिर्मूर्च्छा दाहोऽपि वा भवेत्|
ग्लानिर्मोहोऽतिसारो वा तच्छङ्काविषमुच्यते||१७||
तुद्यते सविषो दंशः कण्डूशोफरुजन्वितः|
दह्यते ग्रथितः किञ्चिद्विपरीतस्तु निर्विषः||१८||
पूर्वे दर्वीकृतां वेगे दुष्टं श्यावीभवत्यसृक्|
श्यावता तेन वक्त्रादौ सर्पन्तीव च कीटकाः||१९||
द्वितीये ग्रन्थयो वेगे, तृतीये मूर्ध्नि गौरवम्|
दृग्रोधो दंशविक्लेदश्चतुर्थे ष्ठीवनं वमिः||२०||
सन्धिविश्लेषणं तन्द्रा पञ्चमे पर्वभेदनम्|
दाहो हिध्मा च, षष्ठे तु हृत्पीडा गात्रगौरवम्||२१||
मूर्च्छा विपाकोऽतीसारः, प्राप्य शुक्रं तु सप्तमे|
स्कन्धपृष्ठकटीभङ्गः सर्वचेष्टानिवर्तनम्||२२||
अथ मण्डलिदष्टस्य दुष्टं पीतीभवत्यसृक्|
तेन पीताङ्गता दाहो, द्वितीये श्वयथूद्भवः||२३||
तृतीये दंशविक्लेदः स्वेदस्तृष्णा च जायते|
चतुर्थे ज्वर्यते, दाहः पञ्चमे सर्वगात्रगः||२४||
दष्टस्य राजिलैर्दुष्टं पाण्डुतां याति शोणितम्|
पाण्डुता तेन गात्राणां, द्वितीये गुरुताऽति च||२५||
तृतीये दंशविक्लेदो नासिकाक्षिमुखस्रवाः|
चतुर्थे गरिमा मूर्ध्नो मन्यास्तम्भश्च, पञ्चमे||२६||
गात्रभङ्गो ज्वरः शीतः शेषयोः पूर्ववद्वदेत्||२७||
कुर्यात्पञ्चसु वेगेषु चिकित्सां, न ततः परम्||२७||
जलाप्लुता रतिक्षीणा भीता नकुलनिर्जिताः|
शीतवातातपव्याधिक्षुत्तृष्णाश्रमपीडिताः||२८||
तूर्णं देशान्तरायाता विमुक्तविषकञ्चुकाः|
कुषौषधीकण्टकवद्ये चरन्ति च काननम्||२९||
देशं च दिव्याध्युषितं सर्पास्तेऽल्पविषा मताः||३०||
श्मशानचितिचैत्यादौ पञ्चमीपक्षसन्धिषु||३०||
अष्टमीनवमीसन्ध्यामध्यरात्रिदिनेषु च|
याम्याग्नेयमघाश्लेषाविशाखापूर्वनैःऋते||३१||
नैः-ऋताख्ये मुहूर्ते च दष्टं मर्मसु च त्यजेत्||३२||
दष्टमात्रः सितास्याक्षः शीर्यमाणशिरोरुहः||३२||
स्तब्धजिह्वो मुहुर्मूर्च्छन् शीतोच्छ्वासो न जीवति||३३||
हिध्मा श्वासो वमिः कासो दष्टमात्रस्य देहिनः||३३||
जायन्ते युगपद्यस्य स हृच्छूली न जीवति||३४||
फेनं वमति निःसंज्ञः श्यावपादकराननः||३४||
नासावसादो भङ्गोऽङ्गे विड्भेदः श्लथसन्धिता|
विषपीतस्य दष्टस्य दिग्धेनाभिहतस्य च||३५||
भवन्त्येतानि रूपाणि सम्प्राप्ते जीवितक्षये||३६||
न नस्यैश्चेतना तीक्ष्णैर्न क्षतात् क्षतजागमः||३६||
दण्डाहतस्य नो राजिः प्रयातस्य यमान्तिकम्||३७||
अतोऽन्यथा तु त्वरया प्रदीप्तागारवद्भिषक्||३७||
रक्षन् कण्ठगतान् प्राणान् विषमाशु शमं नयेत्||३८||
मात्राशतं विषं स्थित्वा दंशे दष्टस्य देहिनः||३८||
देहं प्रक्रमते धातून् रुधिरादीन् प्रदूषयत्||३९||
एतस्मिन्नन्तरे कर्म दंशस्योत्कर्तनादिकम्||३९||
कुर्याच्छीघ्रं यथा देहे विषवल्ली न रोहति||४०||
दष्टमात्रो दशेदाशु तमेव पवनाशिनम्||४०||
लोष्टं महीं वा दशनैस्छित्त्वा चानु ससम्भ्रमम्|
निष्ठीवेन समालिम्पेद्दंशं कर्णमलेन वा||४१||
दंशस्योपरि बध्नीयादरिष्टां चतुरङ्गुले|
क्षौमादिभिर्वेणिकया सिद्धैर्मन्त्रैश्च मन्त्रवित्||४२||
अम्बुवत् सेतुबन्धेन बन्धेन स्तभ्यते विषम्|
न वहन्ति सिराश्चास्य विषं बन्धाभिपीडिताः||४३||
निष्पीड्यानूद्धेरद्दंशं मर्मसन्ध्यगतं तथा|
न जायते विषाद्वेगो बीजनाशादिवाङ्कुरः||४४||
दंशं मण्डलिनां मुक्त्वा पित्तलत्वादथापरम्|
प्रतप्तैर्हेमलोहाद्यैर्दहेदाशूल्मुकेन वा||४५||
करोति भस्मसात्सद्यो वह्निः किं नाम तु क्षतम्||४६||
आचूषेत् पूर्णवक्त्रो वा मृद्भस्मागदगोमयैः||४६||
प्रच्छायान्तररिष्टायां मांसलं तु विशेषतः|
अङ्गं सहैव दंशेन लेपयेदगदैर्मुहुः||४७||
चन्दनोशीरयुक्तेन सलिलेन च सेचयेत्||४८||
विषे प्रविसृते विध्येत्सिरां सा परमा क्रिया||४८||
रक्ते निर्ह्रियमाणे हि कृत्स्नं निर्ह्रीयते विषम्||४९||
दुर्गन्धं सविषं रक्तमग्नौ चटचटायते||४९||
यथादोषं विशुद्धं च पूर्ववल्लक्षयेदसृक्||५०||
सिरास्वदृष्यमानासु योज्याः शृङ्गजलौकसः||५०||
शोणितं स्रुतशेषं च प्रविलीनं विषोष्मणा|
लेपसेकैः सुबहुशः स्तम्भयेद्भृशशीतलैः||५१||
अस्कन्ने विषवेगाद्धि मूर्च्छायमदहृद्द्रवाः|
भवन्ति तान् जयेच्छीतैर्बीजेच्चारोमहर्षतः||५२||
स्कन्ने तु रुधिरे सद्यो विषवेगः प्रशाम्यति||५३||
विषं कर्षति तीक्ष्णत्वाद् हृदयं तस्य गुप्तये||५३||
पिबेद्धृतं घृतक्षौद्रमगदं वा घृताप्लुतम्|
हृदयावरणे चास्य श्लेष्मा हृद्युपचीयते||५४||
प्रवृत्तगौरवोत्क्लेशहृल्लासं वामयेत्ततः|
द्रवैः काञ्जिककौलत्थतैलमद्यादिवर्जितैः||५५||
वमनैर्विषहृद्भिश्च नैवं व्याप्नोति तद्वपुः||५६||
भुजङ्गदोषप्रकृतिस्थानवेगविशेषतः||५६||
सुसूक्ष्मं सम्यगालोच्य विशिष्टां चाचरेत्क्रियाम्||५७||
सिन्दुवारितमूलानि श्वेता च गिरिकर्णिका||५७||
पानं दर्वीकरैर्दष्टे नस्यं मधु सपाकलम्||५८||
कृष्णसर्पेण दष्टस्य लिम्पेद्दंशं हृतेऽसृजि||५८||
चारटीनाकुलीभ्यां वा तीक्ष्णमूलविषेण वा|
पानं च क्षौद्रमञ्जिष्ठागृहधूमयुतं घृतम्||५९||
तन्दुलीयककाश्मर्यकिणिहीगिरिकर्णिकाः|
मातुलुङ्गी सिता शेलुः पाननस्याञ्जनैर्हितः||६०||
अगदः फणिनां घोरे विषे राजीमतामपि||६१||
समाः सुगन्धामृद्वीकाश्वेताख्यागजदन्तिकाः||६१||
अर्धांशं सौरसं पत्रं कपित्थं बिल्वदाडिमम्|
सक्षौद्रो मण्डलिविषे विशेषादगदो हितः||६२||
पञ्चवल्कवरायष्टीनागपुष्पैलवालुकम्|
जीवकर्षभकौ शीतं सिता पद्मकमुत्पलम्||६३||
सक्षौद्रो हिमवान्नाम हन्ति मण्डलिनां विषम्|
लेपाच्छ्वयथुवीसर्पविस्फोटज्वरदाहहा||६४||
काश्मर्यं वटशुङ्गानि जीवकर्षभकौ सिता|
मञ्जिष्ठा मधुकं चेति दष्टो मण्डलिना पिबेत्||६५||
वंशत्वग्बीजकटुकापाटलीबीजनागरम्|
शिरीपबीजातिविषे मूलं गावेधुकं वचा||६६||
पिष्टो गोवारिणाऽष्टाङ्गो हन्ति गोनसजं विषम्||६७||
कटुकातिविषाकुष्ठगृहधूमहरेणुकाः||६७||
सक्षौद्रव्योषतगरा घ्नन्ति राजीमतां विषम्||६८||
निखनेत्काण्डचित्राया दंशं यामद्वयं भुवि||६८||
उद्धृत्य प्रच्छितं सर्पिर्धान्यमृद्भ्यां प्रलेपयेत्|
पिबेत्पुराणं च घृतं वराचूर्णावचूर्णितम्||६९||
जीर्णे विरिक्तो भुञ्जीत यवान्नं सूपसंस्कृतम्||७०||
करवीरार्ककुसुममूललाङ्गलिकाकणाः||७०||
कल्कयेदारनालेन पाठामरिचसंयुताः|
एष व्यन्तरदष्टानामगदः सार्वकार्मिकः||७१||
शिरीषपुष्पस्वरसे सप्ताहं मरिचं सितम्|
भावितं सर्पदष्टानां पाननस्याञ्जने हितम्||७२||
द्विपलं नतकुष्ठाभ्यां घृतक्षौद्रं चतुष्पलम्|
अपि तक्षकदष्टानां पानमेतत्सुखप्रदम्||७३||
अथ दर्वीकृतां वेगे पूर्वे विस्त्राव्य शोणितम्|
अगदं मधुसर्पिर्भ्यां संयुक्तं त्वरितं पिबेत्||७४||
द्वितीये वमनं कृत्वा तद्वदेवागदं पिबेत्||७५||
विषापहे प्रयुञ्जीत तृतीयेऽञ्जननावने||७५||
पिबेच्चतुर्थे पूर्वोक्तां यवागूं वमने कृते||७६||
षष्ठपञ्चमयोः शीतैर्दिग्धं सिक्तमभीक्ष्णशः||७६||
पाययेद्वमनं तीक्ष्णं यवागूं च विषापहैः||७७||
अगदं सप्तमे तीक्ष्णं युञ्ज्यादञ्जननस्ययोः||७७||
कृत्वाऽवगाढं शस्त्रेण मूर्ध्नि काकपदं ततः|
मांसं सरुधिरं तस्य चर्म वा तत्र निक्षिपेत्||७८||
तृतीये वमितः पेयां वेगे मण्डलिनां पिबेत्||७९||
अतीक्ष्णमगदं षष्ठे गणं वा पद्मकादिकम्||७९||
अद्येऽवगाढं प्रच्छाय वेगे दष्टस्य राजिलैः|
अलाबुना हरेद्रक्तं पूर्ववच्चागदं पिबेत्||८०||
षष्ठेऽञ्जनं तीक्ष्णतममवपीडं च योजयेत्||८१||
अनुक्तेषु च वेगेषु क्रियां दर्वीकरोदिताम्||८१||
गर्भिणीबालवृद्धेषु मृदुं, विध्येत्सिरां न च||८२||
त्वङ्मनोह्वा निशे वक्रं रसः शार्दूलजो नखः||८२||
तमालः केसरं शीतं पीतं तन्दुलवारिणा|
हन्ति सर्वविषाण्येतद्वज्रं वज्रमिवासुरान्||८३||
बिल्वस्य मूलं सुरसस्य पुष्पं फलं करञ्जस्य नतं सुराह्वम्|
फलत्रिकं व्योषनिशाद्वयं च वस्तस्य मूत्रेण सुसूक्ष्मपिष्टम्||८४||
भुजङ्गलूतोन्दुरवृश्चिकाद्यैर्विसूचिकाजीर्णगरज्वरैश्च|
आर्तान्नरान् भूतविधर्षितांश्च स्वस्थीकरोत्यञ्जनपाननस्यैः||८५||
प्रलेपाद्यैश्च निःशेषं दंशादप्युद्धरेद्विषम्|
भूयो वेगाय जायेत् शेषं दूषीविषाय वा||८६||
विषापायेऽनिलं क्रुद्धं स्नेहादिभिरुपाचरेत्|
तैलमद्यकुलत्थाम्लवर्ज्यैः पवननाशनैः||८७||
पित्तं पित्तज्वरहरैः कषायस्नेहबस्तिभिः|
समाक्षिकेण वर्गेण कफमारग्वधादिना||८८||
सिता वैगन्धिको द्राक्षा पयस्या मधुकं मधु|
पानं समन्त्रपूताम्बु प्रेक्षणं सान्त्वहर्षणम्||८९||
सर्पाङ्गाभिहते युञ्ज्यात्तथा शङ्काविषार्दिते||९०|
कर्केतनं मरकतं वज्रं वारणमौक्तिकम्||९०||
वैढूर्यं गर्दभमणिं पिचुकं विषमूषिकाम्|
हिमवद्गिरिसम्भूतां सोमराजीं पुनर्नवाम्||९१||
तथा द्रोणां महाद्रोणां मानसीं सर्पजं मणिम्|
विषाणि विषशान्त्यर्थं वीर्यवन्ति च धारयेत्||९२||
छत्री झर्झरपाणिश्च चरेद्रात्रौ विशेषतः|
तच्छायाशब्दवित्रस्ताः प्रणश्यन्ति भुजङ्गमाः|९३|
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने सर्पविषप्रतिषेधो नाम षट्त्रिंशोऽध्यायः|३६|