35.विषप्रतिषेधाध्यायः
अथातो विषप्रतिषेधं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः।
मथ्यमाने जलनिधावमृतार्थं सुरासुरैः।
जातः प्रागमृतोत्पत्तेः पुरुषो घोरदर्शनः॥१॥
दीप्ततेजाश्चतुर्दंष्ट्रो हरिकेशोऽनलेक्षणः।
जगद्विषण्णं तं दृष्ट्वा तेनासौ विषसंज्ञितः॥२॥
हुंकृतो ब्रह्मणा मूर्ती ततः स्थावरजङ्गमे।
सोऽध्यतिष्ठन्निजं रूपमुज्झित्वा वञ्चनात्मकम्॥३॥
स्थिरमत्युल्बणं वीर्ये यत्कन्देषु प्रतिष्ठितम्।
कालकूटेन्द्रवत्साख्यशृङ्गीहालाहलादिकम्॥४॥
सर्पलूतादिदंष्ट्रासु दारुणं जङ्गमं विषम्।
स्थावरं जङ्गमं चेति विषं प्रोक्तमकृत्रिमम्॥५॥
कृत्रिमं गरसंज्ञं तु क्रियते विविधौषधैः।
हन्ति योगवशेनाशु चिराच्चिरतराच्च तत्॥६॥
शोफपाण्डूदरोन्माददुर्नामादीन् करोति वा।
तीक्ष्णोष्णरूक्षविशदं व्यवाय्याशुकरं लघु॥७॥
विकाषि सूक्ष्ममव्यक्तरसं विषमपाकि च।
ओजसो विपरीतं तत् तीक्ष्णाद्यैरन्वितं गुणैः॥८॥
वातपित्तोत्तरं नृणां सद्यो हरति जीवितम्।
विषं हि देहं सम्प्राप्य प्राग् दूषयति शोणितम्॥९॥
कफपित्तानिलांश्चानु समं दोषान् सहाशयान्।
ततो हृदयमास्थाय देहोच्छेदाय कल्पते॥१०॥
स्थावरस्योपयुक्तस्य वेगे पूर्वे प्रजायते।
जिह्वायाः श्यावता स्तम्भो मूर्च्छा त्रासः क्लमो वमिः॥११॥
द्वितीये वेपथुः स्वेदो दाहः कण्ठे च वेदना।
विषं चामाशयं प्राप्तं कुरुते हृदि वेदनाम्॥१२॥
तालुशोषस्तृतीये तु शूलं चामाशये भृशम्।
दुर्बले हरिते शूने जायेते चास्य लोचने॥१३॥
पक्वाशयगते तोदहिध्माकासान्त्रकूजनम्।
चतुर्थे जायते वेगे शिरसश्चातिगौरवम्॥१४॥
कफप्रसेको वैवर्ण्यं पर्वभेदश्च पञ्चमे।
सर्वदोषप्रकोपश्च पक्वाधाने च वेदना॥१५॥
षष्ठे संज्ञाप्रणाशश्च सुभृशं चातिसार्यते।
स्कन्धपृष्ठकटीभङ्गो भवेन्मृत्युश्च सप्तमे॥१६॥
प्रथमे विषवेगे तु वान्तं शीताम्बुसेचितम्।
सर्पिर्मधुभ्यां संयुक्तमगदं पाययेद् द्रुतम्॥१७॥
द्वितीये पूर्ववद्वान्तं विरिक्तं चानु पाययेत्।
तृतीयेऽगदपानं तु हितं नस्यं तथाऽञ्जनम्॥१८॥
चतुर्थे स्नेहसंयुक्तमगदं प्रतियोजयेत्।
पञ्चमे मधुकक्वाथमाक्षिकाभ्यां युतं हितम्॥१९॥
षष्ठेऽतिसारवत्सिद्धिः अवपीडस्तु सप्तमे।
मूर्ध्नि काकपदं कृत्वा सासृग्वा पिशितं क्षिपेत्॥२०॥
कोशातक्यग्निकः पाठा सूर्यवल्यमृताभयाः।
शेलुः शिरीषः किणीही हरिद्रे क्षौद्रसाह्वया॥२१॥
पुनर्नवे त्रिकटुकं बृहत्यौ सारिवे बला।
एषां यवागूं निर्युहे शीतां सघृतमक्षिकाम्॥२२॥
युञ्ज्याद्वेगान्तरे सर्वविषघ्नीं कृतकर्मणः।
तद्वन्मधूकमधुकपद्मकेसरचन्दनैः॥२३॥
अञ्जनं तगरं कुष्ठं हरितालं मनःशिला।
फलानी त्रिकटु स्पृक्का नागपुष्पं सकेसरम्॥२४॥
हरेणुर्मधुकं मांसी रोचना काकमालिका।
श्रीवेष्टकं सर्जरसः शताह्वा कुङ्कुमं बला॥२५॥
तमालपत्रतालीसभूर्जोशीरनिशाद्वयम्।
कन्योपवासिनी स्नाता शुक्लवासा मधुद्रुतैः॥२६॥
द्विजानभ्यर्च्य तैः पुष्ये कल्पयेदगदोत्तमम्।
वैद्यश्चात्र तदा मन्त्रं प्रयतात्मा पठेदिमम्॥२७॥
"नमः पुरुषसिंहाय नमो नारायणाय च।
यथाऽसौ नाभिजानाति रणे कृष्णपराजयम्॥२८॥
एतेन सत्यवाक्येन अगदो मे प्रसिध्यतु।
नमो वैदूर्यमाते हुलुहुलु रक्ष मां सर्वविषेभ्यः॥२९॥
गौरि गान्धारि चाण्डालि मातङ्गि स्वाहा। "
पिष्टे च द्वितीयो मन्त्रः "हरिमायि स्वाहा॥३०॥ "
अशेषविषवेतालग्रहकार्मणपाप्मसु।
मरकव्याधिदुर्भिक्षयुद्धाशनिभयेषु च॥३१॥
पाननस्याञ्जनालेपमणिबन्धादियोजितः।
एष चन्द्रोदयो नाम शान्तिस्वस्त्ययनं परम्॥३२॥
[वासवो वृत्रमवधीत्समालिप्तः किलामुना। ]
जीर्णं विषघ्नौषधिभिर्हतं वा दावाग्निवातातपशोषितं वा।
स्वभावतो वा न गुणैः सुयुक्तं दूषिविषाख्यां विषमभ्युपैति॥३३॥
वीर्याल्पभावादविभाव्यमेतत् कफावृतं वर्षगणानुबन्धि।
तेनार्दितो भिन्नपुरीषवर्णो दुष्टास्ररोगी तृडरोचकार्तः॥३४॥
मूर्च्छन् वमन् गद्गदवाक् विमुह्यन् भवेच्च दूष्योदरलिङ्गजुष्टः।
आमाशयस्थे कफवातरोगी पक्वाशयस्थेऽनिलपित्तरोगी॥३५॥
भवेन्नरो ध्वस्तशिरोरुहाङ्गो विलूनपक्षः स यथा विहङ्गः।
स्थितं रसादिष्वथवा विचित्रान् करोति धातुप्रभवान् विकारान्॥३६॥
प्राग्वाताजीर्णशीताभ्रदिवास्वप्नाहिताशनैः।
दुष्टं दूषयते धातूनतो दूषीविषं स्मृतम्॥३७॥
दूषीविषार्तं सुस्विन्नमूर्ध्वं चाधश्च शोधितम्।
दूषीविषारिमगधं लेहयेन्मधुनाऽऽप्लुतम्॥३८॥
पिप्पल्यो ध्यामकं मांसी रोध्रमेला सुवर्चिका।
कुटन्नटं नतं कुष्ठं यष्टी चन्दनगैरिकम्॥३९॥
दूषीविषारिर्नाम्नाऽयं न चान्यत्रापि वार्यते।
विषदिग्धेन विद्धस्तु प्रताम्यति मुहुर्मुहुः॥४०॥
विवर्णभावं भजते विषादं चाशु गच्छति।
कीटैरिवावृतं चास्य गात्रं चिमिचिमायते॥४१॥
श्रोणिपृष्ठशिरःस्कन्धसन्धयः स्युः सवेदनाः।
कृष्णदुष्टास्रविस्रावी तृण्मूर्च्छाज्वरदाहवान्॥४२॥
दृष्टिकालुष्यवमथुश्वासकासकरः क्षणात्।
आरक्तपीतपर्यन्तः श्यावमध्योऽतिरुग्व्रणः॥४३॥
शूयते पच्यते सद्यो गत्वा मांसं च कृष्णताम्।
प्रक्लिन्नं शीर्यतेऽभीक्ष्णं सपिच्छिलपरिस्रवम्॥४४॥
कुर्यादमर्मविद्धस्य हृदयावरणं द्रुतम्।
शल्यमाकृष्य तप्तेन लोहेनानु दहेद् व्रणम्॥४५॥
अथवा मुष्ककश्वेतासोमत्वक्ताम्रवल्लितः।
शिरीषाद् गृध्रनख्याश्च क्षारेण प्रतिसारयेत्॥४६॥
शुकनासाप्रतिविषाव्याघ्रीमूलैश्च लेपयेत्।
कीटदष्टचिकित्सां च कुर्यात्तस्य यथार्हतः॥४७॥
व्रणे तु पूतिपिशिते क्रिया पित्तविसर्पवत्।
सौभाग्यार्थं स्त्रियो भर्त्रे राज्ञे वाऽरातिचोदिताः॥४८॥
गरमाहारसम्पृक्तं यच्छन्त्यासन्नवर्तिनः।
नानाप्राण्यङ्गशमलविरुद्धौषधिभस्मनाम्॥४९॥
विषाणां चाल्पवीर्याणां योगो गर इति स्मृतः।
तेन पाण्डुः कृशोऽल्पाग्निः कासश्वासज्वरार्दितः॥५०॥
वायुना प्रतिलोमेन स्वप्नचिन्तापरायणः।
महोदरयकृत्प्लीही दीनवाग्दुर्बलोऽलसः॥५१॥
शोफवान् सतताध्मातः शुष्कपादकरः क्षयी।
स्वप्ने गोमायुमार्जारनकुलव्यालवानरान्॥५२॥
प्रायः पश्यति शुष्कांश्च वनस्पतिजलाशयान्।
मन्यते कृष्णमात्मानं गौरो, गोरं च कालकः॥५३॥
विकर्णनासानयनं पश्येत्तद्विहतेन्द्रियः।
एतैरन्यैश्च बहुभिः क्लिष्टो घोरैरुपद्रवैः॥५४॥
गरार्तो नाशमाप्नोति कश्चित्सद्योऽचिकित्सितः।
गरार्तो वान्तवान् भुक्त्वा तत्पथ्यं पानभोजनम्॥५५॥
शुद्धहृच्छीलयेद्धेम सूत्रस्थानविधेः स्मरन्।
शर्कराक्षौद्रसंयुक्तं चूर्णं ताप्यसुवर्णयोः॥५६॥
लेहः प्रशमयत्युग्रं सर्वयोगकृतं विषम्।
मूर्वामृतानतकणापटोलीचव्यचित्रकान्॥५७॥
वचामुस्तविडङ्गानि तक्रकोष्णाम्बुमस्तुभिः।
पिबेद्रसेन वाऽम्लेन गरोपहतपावकः॥५८॥
पारावतामिषशठीपुष्कराह्वशृतं हिमम्।
गरतृष्णारुजाकासश्वासहिध्माज्वरापहम्॥५९॥
विषप्रकृतिकालान्नदोषदूष्यादिसङ्गमे।
विषसङ्कटमुद्दिष्टं शतस्यैकोऽत्र जीवति॥६०॥
क्षुत्तृष्णाघर्मदौर्बल्यक्रोधशोकभयश्रमैः।
अजीर्णवर्चोद्रवतापित्तमारुतवृद्धिभिः॥६१॥
तिलपुष्पफलाघ्राणभूबाष्पघनगर्जितैः।
हस्तिमूषिकवादित्रनिःस्वनैर्विषसङ्कटैः॥६२॥
पुरोवातोत्पलामोदमदनैर्वर्धते विषम्।
वर्षासु चाम्बुयोनित्वात्संक्लेदं गुडवद्गतम्॥६३॥
विसर्पति घनापाये, तदगस्त्यो हिनस्ति च।
प्रयाति मन्दवीर्यत्वं विषं तस्माद्धनात्यये॥६४॥
इति प्रकृतिसात्म्यर्तुस्थानवेगबलाबलम्।
अलोच्य निपुणं बुद्ध्या कर्मानन्तरमाचरेत्॥६५॥
श्लैष्मिकं वमनैरुष्णरूक्षतीक्ष्णैः प्रलेपनैः।
कषायकटुतिक्तैश्च भोजनैः शमयेद्विषम्॥६६॥
पैत्तिकं स्रंसनैः सेकप्रदेहैर्भृशशीतलैः।
कषायतिक्तमधुरैर्घृतयुक्तैश्च भोजनैः॥६७॥
वातात्मकं जयेत्स्वादुस्निग्धाम्ललवणान्वितैः।
सघृतैर्भोजनैर्लेपैस्तथैव पिशिताशनैः॥६८॥
नाघृतं स्रंसनं शस्तं प्रलेपो भोज्यमौषधम्।
सर्वेषु सर्वावस्थेषु विषेषु न घृतोपमम्॥६९॥
विद्यते भेषजं किञ्चिद्विशेषात् प्रबलेऽनिले।
अयत्नाच्छ्लेष्मगं साध्यं, यत्नात् पित्ताशयाश्रयम्॥७०॥
सुदुःसाध्यमसाध्यं वा वाताशयगतं विषम्॥७० १/२॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीवद्वाग्भटविरचितायामष्टाङ्ग हृदयसंहितायां षष्ठे उत्तरस्थाने विषप्रतिषेधो नाम पञ्चत्रिंशोऽध्यायः॥३५॥