2.बालामयप्रतिषेधाध्यायः
अथातो बालामयप्रतिषेधं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः।
त्रिविधः कथितो बालः क्षीरान्नोभयवर्तनः।
स्वास्थ्यं ताभ्यामदुष्टाभ्यां दुष्टाभ्यां रोगसम्भवः॥१॥
यद्भिरेकतां याति न च दोषैरधिष्ठितम् ।
तव्दिशुद्धं पयो वाताद्दुष्टं तु प्लवतेऽम्भसि॥२॥
कषायं फेनिलं रूक्षं वर्चोमूत्रविबन्धकृत्।
पित्तादुष्णाम्लकटुकं पीतराज्यप्सु दाहकृत्॥३॥
कफात्सलवणं सान्द्रं जले मज्जति पिच्छिलम्।
संसृष्टलिङ्गं संसर्गात्त्रिलिङ्गं सान्निपातिकम्॥४॥
यथास्वलिङ्गांस्तद्व्याधीन् जनयत्युपयोजितम्।
शिशोस्तीक्ष्णमभीक्ष्णं च रोदनाल्लक्षयेद्रुजम्॥५॥
स यं स्पृशेद्भृशं देशं यत्र च स्पर्शनाक्षमः।
तत्र विद्याद्रुजं मूर्ध्नि रुजं चाक्षिनिमीलनात्॥६॥
हृदि जिह्वौष्ठदशनश्वासमुष्टिनिपीडनैः।
कोष्ठे विबन्धवमथुस्तनदंशान्त्रकूजनैः॥७॥
आध्मानपृष्ठनमनजठरोन्नमनैरपि।
बस्तौ गुह्ये च विण्मूत्रसङ्गोत्त्रासदिगीक्षणैः॥८॥
अथ धात्र्याः क्रियां कुर्याद्यथादोषं यथामयम्।
तत्र वातात्मके स्तन्ये दशमूलं त्र्यहं पिबेत्॥९॥
अथवाऽग्निवचापाठाकटुकाकुष्ठदीप्यकम्।
सभार्गीदारुसरलवृश्चिकालीकणोषणम्॥१०॥
ततः पिबेदन्यतमं वातव्याधिहरं घृतम्।
अनु चाच्छसुरामेवं स्निग्धां मृदु विरेचयेत्॥११॥
बस्तिकर्म ततः कुर्यात्स्वेदादींश्चानिलापहान्।
रास्नाजमोदासरलदेवदारुरजोन्वितम्॥१२॥
बालो लिह्याद् घृतं तैर्वा विपक्वं ससितोपलम्।
पित्तदुष्टेऽमृताभीरुपटोलीनिम्बचन्दनम्॥१३॥
धात्री कुमारश्च पिबेत् क्वाथयित्वा ससारिवम्।
अथवा त्रिफलामुस्तभूनिम्बकटुरोहिणीः॥१४॥
सारिवादिं पटोलादिं पद्मकादिं तथा गणम्।
घृतान्येभिश्च सिद्धानि पित्तघ्नं च विरेचनम्॥१५॥
शीतांश्चाभ्यङ्गलेपादीन् युञ्ज्यात् श्लेष्मात्मके पुनः।
यष्ट्याह्वसैन्धवयुतं कुमारं पाययेद् घृतम्॥१६॥
सिन्धूत्थपिप्पलीमद्वा, पिष्टैः, क्षौद्रयुतैरथ।
राठपुष्पैः स्तनौ लिम्पेच्छिशोश्च दशनच्छदौ॥१७॥
सुखमेवं वमेद्बालः तीक्ष्णैर्धात्रीं तु वामयेत्।
अथाचरितसंसर्गी मुस्तादिं क्वथितं पिबेत्॥१८॥
तद्वत्तगरपृथ्वीकासुरदारुकलिङ्गकान्।
अथवाऽतिविषामुस्तषड्ग्रन्थापञ्चकोलकम्॥१९॥
स्तन्ये त्रिदोषमलिने दुर्गन्ध्यामं जलोपमम्।
विबद्धमच्छं विच्छिन्नं फेनिलं चोपवेश्यते॥२०॥
शकृन्नानाव्यथावर्णं, मूत्रं पीतं सितं घनम्।
ज्वरारोचकतृट्छर्दिशुष्कोद्गारविजृम्भिकाः॥२१॥
अङ्गभङ्गोऽङ्गविक्षेपः कूजनं वेपथुर्भ्रमः।
घ्राणाक्षिमुखपाकाद्या जायन्तेऽन्येऽपि तं गदम्॥२२॥
क्षीरालसकमित्याहुरत्ययं चातिदारुणम्
तत्राशु धात्रीं बालं च वमनेनोपपादयेत्॥२३॥
विहितायां च संसर्ग्यां वचादिं योजयेद्गणम्।
निशादिं वाऽथवा माद्रीपाठातिक्ताघनामयान्॥२४॥
पाठाशुण्ठ्यमृतातिक्ततिक्तादेवाह्वसारिवाः।
समुस्तमूर्वेन्द्रयवाः स्तन्यदोषहराः परम्॥२५॥
अनुबन्धे यथाव्याधि प्रतिकुर्वीत कालवित्।
दन्तोद्भेदश्च रोगाणां सर्वेषामपि कारणम्॥२६॥
विशेषाज्जवरविड्भेदकासच्छर्दिशिरोरुजाम्।
अभिष्यन्दस्य पोथक्या विसर्पस्य च जायते॥२७॥
पृष्ठभङ्गे बिडालानां बर्हिणां च शिखोद्गमे।
दन्तोद्भेदे च बालानां न हि किञ्चिन्न दूयते॥२८॥
यथादोषं यथारोगं यथोद्रेकं यथाभयम्।
विभज्य देशकालादींस्तत्र योज्यं भिषग्जितम्॥२९॥
त एव दोषा दूष्याश्च ज्वराद्या व्याधयश्च यत्।
अतस्तदेव भैषज्यं मात्रा त्वस्य कनीयसी॥३०॥
सौकुमार्याल्पकायत्वात् सर्वान्नानुपसेवनात्।
स्निग्धा एव सदा बाला घृतक्षीरनिषेवणात्॥३१॥
सद्यस्तान् वमनं तस्मात् पाययेन्मतिमान् मृदु।
स्तन्यस्य तृप्तं वमयेत् क्षीरक्षीरान्नसेविनम्॥३२॥
पीतवन्तं तनुं पेयामन्नादं घृतसंयुताम्।
बस्तिं साध्ये विरेकेण, मर्शेन प्रतिमर्शनम्॥३३॥
युञ्जयाद्विरेचनादींस्तु धात्र्या एव यथोदितान्।
मूर्वाव्योषवराकोलजम्बूत्वक्दारुसर्षपाः॥३४॥
सपाठा मधुना लीढाः स्तन्यदोषहराः परम्।
दन्तपालीं समधुना चूर्णेन प्रतिसारयेत्॥३५॥
पिप्पल्या धातकीपुष्पधात्रीफलकृतेन वा।
लावतित्तिरिवल्लूररजः पुष्परसद्रुतम्॥३६॥
द्रुतं करोति बालानां दन्तकेसरवन्मुखम्।
वचाद्विबृहतीपाठाकटुकातिविषाघनैः॥३७॥
मधुरैश्च घृतं सिद्धं सिद्धं दशनजन्मनि।
रजनीदारुसरलश्रेयसीबृहतीद्वयम्॥३८॥
पृश्निपर्णी शताह्वा च लीढं माक्षिकसर्पिषा।
ग्रहणीदीपनं श्रेष्ठं मारुतस्यानुलोमनम्॥३९॥
अतीसारज्वरश्वासकामलापाण्डुकासनुत्।
बालस्य सर्वरोगेषु पूजितं बलवर्णदं॥४०॥
समङ्गाधातकीरोध्रकुटन्नटबलाद्वयैः।
महासहाक्षुद्रसहामुद्गबिल्वशलाटुभिः॥४१॥
सकार्पासीफलैस्तोये साधितैः साधितं घृतम्।
क्षीरमस्तुयुतं हन्ति शीघ्रं दन्तोद्भवोद्भवान्॥४२॥
विविधानामयानेतद्वृद्धकाश्यपनिर्मितम्।
दन्तोद्भवेषु रोगेषु न बालमतियन्त्रयेत्॥४३॥
स्वयमप्युपशाम्यन्ति जातदन्तस्य यद्गदाः।
अत्यहःस्वप्नशीताम्बुश्लैष्मिकस्तन्यसेविनः॥४४॥
शिशोः कफेन रुद्धेषु स्रोतःसु रसवाहिषु।
अरोचकः प्रतिश्यायो ज्वरः कासश्च जायते॥४५॥
कुमारः शुष्यति ततः स्निग्धशुक्लमुखेक्षणः।
सैन्धवव्योषशार्ङ्गेष्टापाठागिरिकदम्बकान्॥४६॥
शुष्यतो मधुसर्पिर्भ्यामरुच्यादिषु योजयेत्।
अशोकरोहिणीयुक्तं पञ्चकोलं च चूर्णितम्॥४७॥
बदरीधातकीधात्रीचूर्णं वा सर्पिषा द्रुतम्।
स्थिरावचाद्विबृहतीकाकोलीपिप्पलीनतैः॥४८॥
निचुलोत्पलवर्षाभूभार्गीमुस्तैश्च कार्षिकैः।
सिद्धं प्रस्थार्धमाज्यस्य स्रोतसां शोधनं परम्॥४९॥
सिंह्यश्वगन्धासुरसाकणागर्भं च तद्गुणम्।
यष्ट्याह्वपिप्पलीरोध्रपद्मकोत्पलचन्दनैः॥५०॥
तालीससारिवाभ्यां च साधितं शोषजिद्घृतम्।
शृङ्गीमधूलिकाभार्गीपिप्पलीदेवदारुभिः॥५१॥
अश्वगन्धाद्विकाकोलीरास्नर्षभकजीवकैः।
शूर्पपर्णीविडङ्गैश्च कल्कितैः साधितं घृतम्॥५२॥
शशोत्तमाङ्गनिर्यूहे शुष्यतः पुष्टिकृत्परम्।
वचावयःस्थातगरकायस्थाचोरकैः शृतम्॥५३॥
बस्तमूत्रसुराभ्यां च तैलमभ्यञ्जने हितम्।
लाक्षारससमं तैलप्रस्थं मस्तु चतुर्गुणम्॥५४॥
अश्वगन्धानिशादारुकौन्तीकुष्ठाब्दचन्दनैः।
समूर्वारोहिणीरास्नाशताह्वामधुकैः समैः॥५५॥
सिद्धं लाक्षादिकं नाम तैलमभ्यञ्जनादिदम्।
बल्यं ज्वरक्षयोन्मादश्वासापस्मारवातनुत्॥५६॥
यक्षराक्षसभूतघ्नं गर्भिणीनां च शस्यते।
मधुनाऽतिविषाशृङ्गीपिप्पलीर्लेहयेच्छिशुम्॥५७॥
एकां वाऽतिविषां कासज्वरच्छर्दिरुपद्रुतम्।
पीतं पीतं वमति यः स्तन्यं तं मधुसर्पिषा॥५८॥
द्विवार्ताकीफलरसं पञ्चकोलं च लेहयेत्।
पिप्पलीपञ्चलवणं कृमिजित्पारिभद्रकम्॥५९॥
तद्वल्लिह्यात्तथा व्योषं मषीं वा रोमचर्मणाम्।
लाभतः शल्यकश्वाविद्गोधर्क्षशिखिजन्मनाम्॥६०॥
खदिरार्जुनतालीसकुष्ठचन्दनजे रसे।
सक्षीरं साधितं सर्पिर्वमथुं विनियच्छति॥६१॥
[हनुमूलगतो वायुर्दन्तदेशास्थिगोचरः ।
यदा शिशोः प्रकुपितो नोत्तिष्ठन्ति तदा द्विजाः ॥१॥
रुक्षाशिनो वातिकस्य चालयत्यनिलः शिराः ।
हन्वाश्रयाः प्रसुप्तस्य दन्तैः शब्दं करोत्यतः ॥२॥]
सदन्तो जायते यस्तु दन्ताः प्राग्यस्य चोत्तराः ।
कुर्वीत तस्मिन्नुत्पाते शान्तिं तं च द्विजातये ॥६२॥
दद्यात्सदक्षिणं बालं नैगमेषं च पूजयेत् ।
तालुमांसे कफः क्रुद्धः कुरुते तालुकण्टकम्॥६३॥
तेन तालुप्रदेशस्य निम्नता मूर्ध्नि जायते।
तालुपातः स्तनद्वेषः कृच्छ्रात्पानं शकृद्द्रवम्॥६४॥
तृडास्यकण्ड्वक्षिरुजा ग्रीवादुर्धरता वमिः।
तत्रोत्क्षिप्य यवक्षारक्षौद्राभ्यां प्रतिसारयेत्॥६५॥
तालु तद्वत्कणाशुण्ठीगोशकृद्रससैन्धवैः।
शृङ्गवेरनिशाभृङ्गं कल्कितं वटपल्लवैः॥६६॥
बध्वा गोशकृता लिप्तं कुकूले स्वेदयेत्ततः।
रसेन लिम्पेत्ताल्वास्यं नेत्रे च परिषेचयेत्॥६७॥
हरीतकीवचाकुष्ठकल्कं माक्षिकसंयुतम्।
पीत्वा कुमारः स्तन्येन मुच्यते तालुकण्टकात्॥६८॥
मलोपलेपात्स्वेदाद्वा गुदे रक्तकफोद्भवः।
ताम्रो व्रणोऽन्तः कण्डूमान् जायते भूर्युपद्रवः॥६९॥
केचित्तं मातृकादोषं वदन्त्यन्येऽहिपूतनम्।
पृष्टारुर्गुदकुट्टं च केचिच्च तमनामिकम्॥७०॥
तत्र धात्र्याः पयः शोध्यं पित्तश्लेष्महरौषधैः।
शृतशीतं च शीताम्बुयुक्तमन्तरपानकम्॥७१॥
सक्षौद्रतार्क्ष्यशैलेन व्रणं तेन च लेपयेत्।
त्रिफलाबदरीप्लक्षत्वक्क्वाथपरिषेचितम्॥७२॥
कासीसरोचनातुत्थमनोह्वालरसाञ्जनैः।
लेपयेदम्लपिष्टैर्वा चूर्णितैर्वाऽवचूर्णयेत्॥७३॥
सुश्लक्ष्णैरथवा यष्टीशङ्खसौवीरकाञ्जनैः।
सारिवाशङ्खनाभिभ्यामसनस्य त्वचाऽथवा॥७४॥
रागकण्डूत्कटे कुर्याद्रक्तस्रावं जलौकसा।
सर्वं च पित्तव्रणजिच्छस्यते गुदकुट्टके॥७५॥
पाठावेल्लद्विरजनीमुस्तभार्गीपुनर्नवैः।
सबिल्वत्र्यूषणैः सर्पिवृश्चिकालीयुतैः शृतम्॥७६॥
लिहानो मात्रया रोगैर्मुच्यते मृत्तिकोद्भवैः।
व्याधेर्यद्यस्य भैषज्यं स्तनस्तेन प्रलेपितः।
स्थितो मुहूर्तं धौतोऽनु पीतस्तं तं जयेद्गदम्॥७७॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्ग हृदयसंहितायां षष्ठे उत्तरस्थाने बालामयप्रतिषेधो नाम द्वितीयोऽध्यायः॥२॥