1. बालोपचरणीयाध्यायः
अथातो बालोपचरणीयमध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|गद्यसूत्रे||
जातमात्रं विशोध्योल्बाद्बालं सैन्धवसर्पिषा|
प्रसूतिक्लेशितं चानु बलातैलेन सेचयेत्||||
अश्मनोर्वादनं चास्य कर्णमूले समाचरेत्|
अथास्य दक्षिणे कर्णे मन्त्रमुच्चारयेदिमम्||||
"
अङ्गादङ्गात्सम्भवसि हृदयादभिजायसे|
आत्मा वै पुत्रनामासि सञ्जीव शरदां शतम्||||
शतायुः शतवर्षोऽसि दीर्घमायुरवाप्नुहि|
नक्षत्राणि दिशो रात्रिरहश्च त्वाऽभिरक्षतु"||||
स्वस्थीभूतस्य नाभिं च सूत्रेण चतुरङ्गुलात्|
बध्द्वोर्ध्वं वर्धयित्वा च ग्रीवायामवसञ्जयेत्||||
नाभिं च कुष्टतैलेन सेचयेत्स्नापयेदनु|
क्षीरिवृक्षकषायेण सर्वगन्धोदकेन वा||||
कोष्णेन तप्तरजततपनीयनिमज्जनैः||||
ततो दक्षिणतर्जन्या तालून्नम्यावगुण्ठयेत्||||
शिरसि स्नेहपिचुना, प्राश्यं चास्य प्रयोजयेत्|
हरेणुमात्रं मेधायुर्बलार्थमभिमन्त्रितम्||||
ऐन्द्रीब्राह्मीवचाशङ्खपुष्पीकल्कं घृतं मधु||||
चामीकरवचाब्राह्मीताप्यपथ्या रजीकृताः||||
लिह्यान्मधुघृतोपेता हेमधात्रीरजोऽथवा||१०||
गर्भाम्भः सैन्धववता सर्पिषा वामयेत्ततः||१०||
प्राजापत्येन विधिना जातकर्माणि कारयेत्||११|
सिराणां हृदयस्थानां विवृतत्वात् प्रसूतितः||११||
तृतीयेऽह्नि चतुर्थे वा स्त्रीणां स्तन्यं प्रवर्तते||१२||
प्रथमे दिवसे तस्मात्त्रिकालं मधुसर्पिषी||१२||
अनन्तामिश्रिते मन्त्रपाविते प्राशयेच्छिशुम्||१३||
द्वितीये लक्ष्मणासिद्धं तृतीये च घृतं, ततः||१३||
प्राङ्निषिद्धस्तनस्यास्य तत्पाणितलसम्मितम्|
स्तन्यानुपानं द्वौ कालौ नवनीतं प्रयोजयेत्||१४||
मातुरेव पिबेत्स्तन्यं तध्द्यलं देहवृद्धये|
स्तन्यधात्र्यावुभे कार्ये तदसम्पदि वत्सले||१५||
अव्यङ्गे ब्रह्मचारिण्यौ वर्णप्रकृतितः समे|
नीरुजे मध्यवयसौ जीवद्वत्से न लोलुपे||१६||
हिताहारविहारेण यत्नादुपचरेच्च ते||१७||
शुक्क्रोधलङ्घनायासाः स्तन्यनाशस्य हेतवः||१७||
स्तन्यस्य सीधुवर्ज्यानि मद्यान्यानूपजा रसाः|
क्षीरं क्षीरिण्य ओषध्यः शोकादेश्च विपर्ययः||१८||
विरुद्धाहारभुक्तायाः क्षुधिताया विचेतसः|
प्रदुष्टधातोर्गर्भिण्याः स्तन्यं रोगकरं शिशोः||१९||
स्तन्याभावे पयश्छागं गव्यं वा तद्गुणं पिबेत्|
ह्रस्वेन पञ्चमूलेन स्थिराभ्यां वा सितायुतम्||२०||
षष्ठीं निशां विशेषेण कृतरक्षाबलिक्रियाः|
जागृयुर्बान्धवास्तस्य दधतः परमां मुदम्||२१||
दशमे दिवसे पूर्णे विधिभिः स्वकुलोचितैः|
कारयेत्सूतिकोत्थानं नाम बालस्य चार्चितम्||२२||
बिभ्रतोऽङ्गैर्मनोह्लालरोचनागुरुचन्दनम्|
नक्षत्रदेवतायुक्तं बान्धवं वा समाक्षरम्||२३||
ततः प्रकृतिभेदोक्तरूपैरायुःपरीक्षणम्|
प्रागुदक्शिरसः कुर्यात् बालस्य ज्ञानवान् भिषक्||२४||
शुचिधौतोपधानानि निर्वलीनि मृदूनि च|
शय्यास्तरणवासांसि रक्षोघ्नैर्धूपितानि च||२५||
काको विशस्तः शस्तश्च धूपने त्रिवृतान्वितः|-|२६||
जीवत्खङ्गादिशृङ्गोत्थान् सदा बालः शुभान् मणीन्||२६||
धारयेदौषधीः श्रेष्ठा ब्राह्मयैन्द्रीजीवकादिकाः|
हस्ताभ्यां ग्रीवया मूर्ध्ना विशेषात्सततं वचाम्||२७||
आयुर्मेधास्मृतिस्वास्थ्यकरीं रक्षोभिरक्षिणीम्||२८||
षट्सप्ताष्टममासेषु नीरुजस्य शुभेऽहनि||२८||
कर्णौ हिमागमे विध्येद्धात्र्यङ्कस्थस्य सान्त्वयन्||२९|
प्राग्दक्षिणं कुमारस्य भिषग्वामं तु योषितः||२९||
दक्षिणेन दधत्सूचीं पालिमन्येन पाणिना|
मध्यतः कर्णपीठस्य किञ्चिद्गण्डाश्रयं प्रति||३०||
जरायुमात्रप्रच्छन्ने रविरश्म्यवभासिते|
धृतस्य निश्चलं सम्यगलक्तकरसाङ्किते||३१||
विध्येद्दैवकृते छिद्रे सकृदेवर्जु लाघवात्|
नोर्ध्वं न पार्श्वतो नाधः शिरास्तत्र हि संश्रिताः||३२||
कालिकामर्मरीरक्ताः तद्व्यधाद्रागरुग्ज्वराः|
सशोफदाहसंरम्भमन्यास्तम्भापतानकाः||३३||
तेषां यथामयं कुर्याद्विभज्याशु चिकित्सितम्||३४||
स्थाने व्यधान्न रुधिरं न रुग्रागादिसम्भवः||३४||
स्नेहाक्तं सूच्यनुस्यूतं सूत्रं चानु निधापयेत्|
आमतैलेन सिञ्चेच्च बहलां तद्वदारया||३५||
विध्येत्पालीं हितभुजः सञ्चार्याऽथ स्थवीयसी|
वर्तिस्त्र्यहात्ततो रूढं वर्धयेत शनैः शनैः||३६||
अथैनं जातदशनं क्रमेणापनयेत्स्तनात्|
पूर्वोक्तं योजयेत्क्षीरमन्नं च लग़ु बृंहणम्||३७||
प्रियालमज्जमधुकमधुलाजसितोपलैः|
अपस्तनस्य संयोज्यः प्रीणनो मोदकः शिशोः||३८||
दीपनो बालबिल्वैलाशर्करालाजसक्तुभिः|
सङ्ग्राही धातुकीपुष्पशर्करालाजतर्पणैः||३९||
रोगांश्चास्य जयेत्सोम्यैर्भेषजैरविषादकैः|
अन्यत्रात्ययिकाद्व्याघेर्विरेकं सुतरां त्यजेत्||४०||
त्रासयेन्नाविधेयं तं त्रस्तं गृह्णन्ति हि ग्रहाः||४१||
वस्त्रवातात् परस्पर्शात् पालयेल्लङ्घनाच्च तम्||४१||
ब्राह्मीसिद्धार्थकवचासारिवाकुष्ठसैन्धवैः|
सकणैः साधितं पीतं वाङ्मेधास्मृतिकृद् घृतम्||४२||
आयुष्यं पाप्मरक्षोघ्नं भूतोन्मादनिबर्हणम्||४३||
वचेन्दुलेखामण्डूकीशङ्खपुष्पीशतावरीः||४३||
ब्रह्मसोमामृताब्राह्मीः कल्कीकृत्य पलांशिकाः|
अष्टाङ्गं विपचेत्सर्पिः प्रस्थं क्षीरचतुर्गुणम्||४४||
तत्पीतं धन्यमायुष्यं वाङ्मेधास्मृतिबुद्धिकृत्||४५||
अजाक्षीराभयाव्योषपाठोग्राशिग्रुसैन्धवैः||४५||
सिद्धं सारस्वतं सर्पिर्वाङ्मोधास्मृतिवह्निकृत्||४६||
वचामृताशठीपथ्याशङ्खिनीवेल्लनागरैः||४६||
अपामार्गेण च घ्रुतं साधितं पूर्ववद्गुणैः||४७||
हेम श्वेतवचा कुष्ठमर्कपुष्पी सकाञ्चना||४७||
हेम मत्स्याक्षकः शङ्खः कैडर्यः कनकं वचा|
चत्वार एते पादोक्ताः प्राशा मधुघृतप्लुताः||४८||
वर्षं लीढा वपुर्मेधाबलवर्णकराः शुभाः||४९||
वचायष्ट्याह्वसिन्धूत्थपथ्यानागरदीप्यकैः|४९|
शुध्द्यते वाग्घविर्लीढैः सकुष्ठकणजीरकैः|४९ १/२|
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भट विरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने बालोपचरणीयो नाम प्रथमोऽध्यायः||