20.श्वित्रकृमिचिकित्सिताध्यायः
अथातः श्वित्रकृमिचिकित्सितं व्याख़्यास्यामः।
इति स्माहुरात्रेयादयो महर्षयः।
कुष्ठादपि बीभत्सं यच्छीघ्रतरं यात्यसाध्यत्वम्।
श्वित्रमतस्तच्छान्त्यै यतेत दीप्ते यथा भवने॥१॥
संशोधनं विशेषात्प्रयोजयेत्पूर्वमेव देहस्य।
श्वित्रे स्रंसनमग्र्यं मलयूरस इष्यते सगुडः॥२॥
तं पीत्वाऽभ्यक्ततनुर्यथाबलं सूर्यपादसन्तापम्।
सेवेत निरिक्ततनुस्त्र्यहं पिपासुः पिबेत्पेयाम्॥३॥
श्वित्रेऽङ्गे स्फोटा जायन्ते कण्टकेन तान्भिन्द्यात्।
स्फोटेषु निःस्रुतेषु प्रातः प्रातः पिबेत् त्रिदिनम्॥४॥
मलयूमसनं प्रियङ्गूं शतपुष्पां चाम्भसा समुत्क्वाथ्य।
पालाशं वा क्षारं यथाबलं फाणितोपेतम्॥५॥
फल्ग्वक्षवृक्षवल्कलनिर्यूहेणेन्दुराजिकाकल्कम्।
पीत्वोष्णस्थितस्य जाते स्फोटे तक्रेण भोजनं निर्लवणम्॥६॥
गव्यं मूत्रं चित्रकव्योषयुक्तं सर्पिःकुम्भे स्थापितं क्षौद्रमिश्रम्।
पक्षादूर्ध्वं श्वित्रिणा पेयमेतत् कार्यं चास्मै कुष्ठदृष्टं विधानम्॥७॥
मार्कवमथवा स्वादेद्भृष्ठं तैलेन लोहपात्रस्थम्।
बीजकशृतं दुग्धं तदनु पिबोच्छ्वित्रनाशाय॥८॥
पूतिकार्कव्याधिघातस्नुहीनां मुत्रे पिष्टाः पल्लवा जातिजाश्च।
घ्नन्त्यालेपाच्छ्वित्रदुर्नामदद्रूपामाकोठान् दुष्टनाडीव्रणांश्च॥९॥
द्वैपं दग्धं चर्म मातङ्गजं वाश्वित्रे लेपस्तैलयुक्तो वरिष्ठः।
पूतिःकीटो राजवृक्षोद्भवेन क्षारेणाक्तः श्वित्रमेकोऽपि हन्ति॥१०॥
रात्रौ गोमूत्रे वासितान् जर्जराङ्गानह्नि च्छायायां शोषयेत्स्फोटहेतून्।
एवं वारांस्त्रींस्तैस्ततः श्लक्ष्णपिष्टैः स्नुह्याः क्षीरेण श्वित्रनाशाय लेपः॥११॥
अक्षतैलद्रुता लेपः कृष्णसर्पोद्भवा मषी।
शिख़िपित्तं तथा, दग्धं ह्रीबेरं वा तदाप्लुतम्॥१२॥
कुडवोऽवल्गुजबीजाद्धरितालचतुर्थभागसम्मिश्रः।
मूत्रेण गवां पिष्टः सवर्णकरणं परं श्वित्रे॥१३॥
क्षारे सुदग्धे गजलिण्डजे गजस्य मूत्रेण परिस्रुते च।
द्रोणप्रमाणे दशभागयुक्तं दत्त्वा पचेद्बीजमवल्गुजानाम्॥१४॥
श्वित्रं जयेच्चिक्कणतां गतेन तेन प्रलिम्पन् बहुशः प्रघृष्टम्।
कुष्ठं मषं वा तिलकालकं वा यद्वा व्रणे स्यादधिमांसजातम्॥१५॥
भल्लातकं द्वीपिसुधार्कमूलं गुञ्जाफलं त्र्यूषणशङ्खचूर्णम्।
तुत्थं सकुष्ठं लवणानि पञ्च क्षारद्वयं लाङ्गलिकां पक्त्वा॥१६॥
स्नुगर्कदुग्धे घनमायसस्थं शलकया तद्विदधीत लेपम्।
कुष्ठे किलासे तिलकालकेषु मषेषु दुर्नामसु चर्मकीले॥१७॥
शुद्ध्या शोणितमोक्षैर्विरूक्षणैर्भक्षणैश्च सक्तूनाम्।
श्वित्रं कस्यचिदेव प्रशाम्यति क्षीणपापस्य॥१८॥
इति श्वित्रचिकित्सितम्।
अथ कृमिचिकित्सितम्।
स्निग्धस्विन्ने गुडक्षीरमत्स्याद्यैः कृमिणोदरे।
उत्क्लेशितकृमिकफे शर्वरीं तां सुख़ोषिते॥१९॥
सुरसादिगणं मूत्रे क्वाथयित्वाऽर्धवारिणि।
तं कषायं कणागालकृमिजित्कल्कयोजितम्॥२०॥
सतैलस्वर्जिकाक्षारं युञ्ज्याद्वस्तिं ततोऽहनि।
तस्मिन्नेव निरूढं तं पाययेत विरेचनम्॥२१॥
त्रिवृत्कल्कं फलकणाकषायालोडितं ततः।
ऊर्ध्वाधःशोधिते कुर्यात्पञ्चकोलयुतं क्रमम्॥२२॥
कटुतिक्तकषायाणां कषायैः परिषेचनम्।
काले विडङ्गतैलेन ततस्तमनुवासयेत्॥२३॥
शिरोरोगनिषेधोक्तमाचरेन्मूर्धगेष्वनु।
उद्रिक्ततिक्तकटुकमल्पस्नेहं भोजनम्॥२४॥
विडङ्गकृष्णामरिचपिप्पलीमूलशिग्रुभिः।
पिबेत्सस्वर्जिकाक्षारैर्यवागूं तक्रसाधितम्॥२५॥
रसं शिरीषकिणिहीपारिभद्रककेम्बुकात्।
पलाशबीजपत्तरपूतिकाद्वा पृथक् पिबेत्॥२६॥
सक्षौद्रं, सुरसादीन् वा लिह्यात्क्षौद्रयुतान् पृथक्।
शतकृत्वोऽश्वविट्चूर्णं विडङ्गक्वाथभावितम्॥२७॥
कृमिमान् मधुना लिह्याद्भावितं वा वरारसैः।
शिरोगतेषु कृमिषु चूर्णं प्रधमनं तत्॥२८॥
आख़ुकर्णीकिसलयैः सुपिष्टैः पिष्टमिश्रितैः।
पक्त्वा पूपलिकां ख़ादेद्धान्याम्लं पिबेदनु॥२९॥
सपञ्चकोललवणमसान्द्र तक्रमेव वा।
नीपमार्कवनिर्गुण्डीपल्लवेष्वप्ययं विधिः॥३०॥
विडङ्गचूर्णमिश्रैर्वा पिष्टैर्भक्ष्यान् प्रकल्पयेत्।
विडङ्गतण्डुलैर्युक्तमर्धांशैरातपे स्थितम्॥३१॥
दिनमारुष्करं तैलं पाने बस्तौ योजयेत्।
सुराह्वसरलस्नेहं पृथगेवं कल्पयेत्॥३२॥
पुरीषजेषु सुतरां दद्याद्बस्तिविरेचने।
शिरोविरेकं वमनं शमनं कफजन्मसु॥३३॥
रक्तजानां प्रतीकारं कुर्यात्कुष्ठचिकित्सितात्।
इन्द्रलुप्तविधिश्चात्र विधेयो रोमभोजिषु॥३४॥
क्षीराणि मांसानि घृतं गुडं दधीनि शाकानि पर्णवन्ति।
समासतोऽम्लान्मधुरान् रसांश्च कृमीन् जिहासुः परिवर्जयेत्॥३५॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्ग हृदयसंहितायां चतुर्थे चिकित्सितस्थाने
श्वित्रकृमिचिकित्सितं नाम विंशोऽध्यायः॥२०॥