19.कुष्ठचिकित्सिताध्यायः
अथातः कुष्ठचिकित्सितं व्याख़्यास्यामः।
इति स्माहुरात्रेयादयो महर्षयः।
कुष्ठिनं स्नेहपानेन पूर्वं सर्वमुपाचरेत्।
तत्र वातोत्तरे तैलं घृतं वा साधितं हितम्॥१॥
दशमूलामृतैरण्डशार्ङ्गेष्टामेषशृङ्गिभिः।
पटोलनिम्बकटुकादार्वीपाठादुरालभाः॥२॥
पर्पटं त्रायमाणां पलांशं पाचयेदपाम्।
द्व्याढकेऽष्टांशशेषेण तेन कर्षोन्मितैस्तथा॥३॥
त्रायन्तीमुस्तभूनिम्बकलिङ्गकणचन्दनैः।
सर्पिषो द्वादशपलं पचेत्तत्तिक्तकं जयेत्॥४॥
पित्तकुष्ठपरीसर्पपिटिकादाहतृड्भ्रमान्।
कण्डुपाण्ड्वामयान् गण्डान् दुष्टनाडीव्रणापचीः॥५॥
विस्फोटविद्रधीगुल्मशोफोन्मादमदानपि।
हृद्रोगतिमिरव्यङ्गग्रहणीश्वित्रकामलाः॥६॥
भगन्दरमपस्मारमुदरं प्रदरं गरम्।
अर्शोऽस्रपित्तमन्यांश्च सुकृच्छ्रान् पित्तजान् गदान्॥७॥
सप्तच्छदः पर्पटकः शम्याकः कटुका वचा।
त्रिफला पद्मकं पाठा रजन्यौ सारिवे कणे॥८॥
निम्बचन्दनयष्ट्याह्वविशालेन्द्रयवामृताः।
किराततिक्तकं सेव्यं वृषो मूर्वा शतावरी॥९॥
पटोलातिविषामुस्तात्रायन्तीधन्वयासकम्।
तैर्जलेऽष्टगुणे सर्पिर्द्विगुणामलकीरसे॥१०॥
सिद्धं तिक्तान्महातिक्तं गुणैरभ्यधिकं मतम्।
कफोत्तरे घृतं सिद्धं निम्बसप्ताह्रचित्रकैः॥११॥
कुष्ठोषणवचाशालप्रियालचतुरङ्गुलैः।
सर्वेषु चारुष्करजं तौवरं सार्षपं पिबेत्॥१२॥
स्नेहं घृतं वा कृमिजित्पथ्याभल्लातकैः शृतम्।
आरग्वधस्य मूलेन शतकृत्वः शृतं घृतम्॥१३॥
पिबेन् कुष्ठं जयत्याशु भजन् सखदिरं जलम्।
एभिरेव यथास्वं स्नेहैरभ्यञ्जनं हितम्॥१४॥
स्निग्धस्य शोधनं योज्यं विसर्पे यदुदाहृतम्।
ललाटहस्तपादेषु शिराश्चास्य विमोक्षयेत्॥१५॥
प्रच्छानमल्पके कुष्ठे शृङ्गाद्याश्च यथायथम्।
स्नेहैराप्याययेच्चैनं कुष्ठघ्नैरन्तराऽन्तरा॥१६॥
मुक्तरक्तविरिक्तस्य रिक्तकोष्ठस्य कुष्ठिनः।
प्रभञ्जनस्तथा ह्यस्य स्याद्देहप्रभञ्जनः॥१७॥
वासामृतानिम्बवरापटोलव्याघ्रीकरञ्जोदककल्कपक्वम्।
सर्पिर्विसर्पज्वरकामलास्रकुष्ठापहं वज्रकमामनन्ति॥१८॥
त्रिफलात्रिकटुद्विकण्टकारीकटुकाकुम्भनिकुम्भराजवृक्षैः।
सवचातिविषाग्निकैः सपाठैः पिचुभागैर्नववज्रदुग्धमुष्ट्या॥१९॥
पिष्टैः सिद्धं सर्पिषः प्रस्थमेभिः क्रूरे कोष्ठे स्नेहनं रेचनं च।
कुष्ठश्वित्रप्लीहवर्ध्माश्मगुल्मान् हन्त्यात्कृच्छ्रांस्तन्महावज्रकाख़्यम्॥२०॥
दन्त्याढकमपां द्रोणे पक्त्वा तेन घृतं पचेत्।
धामार्गवपले पीतं तदूर्ध्वाधो विशुद्धिकृत्॥२१॥
आवर्तकीतुलां द्रोणे पचेदष्टांशशेषितम्।
तन्मूलैस्तत्र निर्यूहे घृतप्रस्थं विपाचयेत्॥२२॥
पीत्वा तदेकदिवसान्तरितं सुजीर्णे भुञ्जीत कोद्रवमसंस्कृतकाञ्जिकेन।
कुष्ठं किलासमपचीं विजेतुमिच्छन् इच्छन् प्रजां विपुलां ग्रहणं स्मृतिं च॥२३॥
यतेर्लेलीतकवसा क्षौद्रजातीरसान्विता।
कुष्ठघ्नी समसर्पिर्वा सगायर्त्र्यसनोदका॥२४॥
शालयो यवगोधूमाः कोरदूषाः प्रियङ्गवः।
मुद्गा मसूरास्तुवरी तिक्तशाकानि जाङ्गलम्॥२५॥
वरापटोलख़दिरनिम्बारुष्करयोजितम्।
मद्यान्यौषधगर्भाणि मथितं चेन्दुराजिमत्॥२६॥
अन्नपानं हितं कुष्ठे, त्वम्ललवणोषणम्।
दधिदुग्धगुडानूपतिलमाषांस्त्यजेत्तराम्॥२७॥
पटोलमूलत्रिफलाविशालाः पृथक्त्रिभागापचितत्रिशाणाः।
स्युस्त्रायमाणा कटुरोहिणी भागार्धिके नागरपादयुक्ते॥२८॥
एतत्पलं जर्जरितं विपक्वं जले पिबेद्दोषविशोधनाय।
जीर्णे रसैर्धन्वमृगद्विजानां पुराणशाल्योदनमाददीत॥२९॥
कुष्ठं किलासं ग्रहणीप्रदोषमर्शांसि कृच्छ्राणि हलीमकं च।
षड्रात्रयोगेन निहन्ति चैतद् हृद्वस्तिशूलं विषमज्वरं च॥३०॥
विडङ्गसारामलकाभयानां पलत्रयं, त्रीणि पलानि कुम्भात्।
गुडस्य द्वादश, मासमेष जितात्मनां हन्त्युपयुज्यमानः॥३१॥
कुष्ठश्वित्रश्वासकासोदरार्शोमेहप्लीहग्रन्थिरुग्जन्तुगुल्मान्।
सिद्धं योगं प्राह यक्षो मुमुक्षोर्भिक्षोः प्राणान् माणिभद्रः किलेमम्॥३२॥
भूनिम्बनिम्बत्रिफलापद्मकातिविषाकणाः।
मूर्वापटोलीद्विनिशापाठातिक्तेन्द्रवारुणीः॥३३॥
सकलिङ्गवचास्तुल्या द्विगुणाश्च यथोत्तरम्।
लिह्याद्दन्तीत्रिवृद्ब्राह्मीश्चूर्णिता मधुसर्पिषा॥३४॥
कुष्ठमेहप्रसुप्तीनां परमं स्यात्तदौषधम्।
वराविडङ्गकृष्णा वा लिह्यात्तैलाज्यमाक्षिकैः॥३५॥
काकोदुम्बरिकावेल्लनिम्बाब्दव्योषकल्कवान्।
हन्ति वृक्षकनिर्यूहः पानात्सर्वांस्त्वगामयान्॥३६॥
कुटजाग्निनिम्बनृपतरुखदिरासनसप्तपर्णनिर्यूहे।
सिद्धा मधुघृतयुक्ताः कुष्ठघ्नीर्भक्षयेदभयाः॥३७॥
दार्वीख़दिरनिम्बानां त्वक्क्वाथः कुष्ठसूदनः॥३७१/२॥
निशोत्तमानिम्बपटोलमूलतिक्तावचालोहितयष्टिकाभिः।
कृतः कषायः कफपित्तकुष्ठं सुसेवितो धर्म इवोच्छिनत्ति॥३८॥
एभिरेव शृतं ग़ृतमुख़्यं भेष्जैर्जयति मारुतकुष्ठम्।
कल्पयेत्ख़दिरनिम्बगुडूचीदेवदारुरजनीः पृथगेवम्॥३९॥
पाठादार्वीवह्निघुणेष्टाकटुकाभिमूत्रं युक्तं शक्रयवैश्चोष्णजलं वा।
कुष्ठी पीत्वा मासमरुक् स्याद्गुदकीली मेहीशोफी पाण्डुरजीर्णी कृमीमांश्च॥४०॥
लाक्षादन्तीमधुरसवराद्वीपिपाठाविडङ्ग-
प्रत्यक्ऽऽपुष्पीत्रिकटुरजनीसप्तपर्णाटरूषम्।
रक्ता निम्बं सुरतरु कृतं पञ्चमूल्यौ चूर्णं
पीत्वा मासं जयति हितभुग्गव्यमूत्रेण कुष्ठम्॥४१॥
निशाकणानागरवेल्लतौवरं सवह्निताप्यं क्रमशो विवर्धितम्।
गवाम्बुपीतं वटकीकृतं तथा निहन्ति कुष्ठानि सुदारुणान्यपि॥४२॥
त्रिकटूत्तमातिलारुष्कराज्यमाक्षिकसितोपलाविहिता।
गुलिका रसायनं कुष्ठजिच्च वृष्या सप्तसमा॥४३॥
चान्द्रशकलाग्निरजनीविडङ्गतुवरास्थ्यरुष्करत्रिफलाभिः।
वटका गुडांशक्ल्ऱ्प्ताः समस्तकुष्ठानि नाशयन्त्यभ्यस्ताः॥४४॥
विडङ्गभल्लातकबाकुचीनां सद्वीपिवाराहिहरीतकीनाम्।
सलाङ्गलीकृष्णतिलोपकुल्या गुडेन पिण्डी विनिहन्ति कुष्ठम्॥४५॥
शशाङ्कलेख़ा सविडङ्गसारा सपिप्पलीका सहुताशमूला।
सायोमला सामलका सतैला कुष्ठानि कृच्छ्राणि निहन्ति लीढा॥४६॥
पथ्यातिलगुडैः पिण्डी कुष्ठं सारुष्करैर्जयेत्।
गुडारुष्करजन्तुघ्नसोमराजीकृताऽथवा॥४७॥
विडङ्गाद्रिजतुक्षौद्रसर्पिष्मत्ख़ादिरं रजः।
किटिभश्वित्रदद्रुघ्नं ख़ादेन्मितहिताशनः॥४८॥
सितातैलकृमिघ्नानि धात्र्ययोमलपिप्पलीः।
लिहानः सर्वकुष्ठानि जयत्यतिगुरूण्यपि॥४९॥
मुस्तं व्योषं त्रिफला मञ्जिष्ठा दारु पञ्चमूले द्वे।
सप्तच्छदनिम्बत्वक् सविशाला चित्रको मूर्वा॥५०॥
चूर्णं तर्पणभागैर्नवभिः संयोजितं समध्वंशम्।
नित्यं कुष्ठनिबर्हणमेतत्प्रायोगिकं ख़ादन्॥५१॥
श्वयथुं सपाण्डुरोगं श्वित्रं ग्रहणीप्रदोषमर्शांसि।
वर्धभगन्दरपिडकाकण्डूकोठापचीर्हन्ति॥५२॥
रसायनप्रयोगेण तुवरास्थीनि शीलयेत्।
भल्लातकं बाकुचिकां वह्निमूलं शिलाह्वयम्॥५३॥
इति दोषे विजितेऽन्तस्त्वक्स्थे शमनं बहिः प्रलेपादि हितम्।
तीक्ष्णालेपोत्क्लिष्टं कुष्ठं हि विवृद्धिमेति मलिने देहे॥५४॥
स्थिरकठिनमण्डलानां कुष्ठानां पोटलैर्हितः स्वेदः।
स्विन्नोत्सनं कुष्ठं शस्त्रैर्लिख़ितं प्रलेपनैर्लिम्पेत्॥५५॥
येषु शस्त्रं क्रमते स्पर्शेन्द्रियनाशनेषु कुष्ठेषु।
तेषु निपात्यः क्षारो रक्तं दोषं विस्राव्य॥५६॥
लेपोऽतिकठिनपुरुषे सुप्ते कुष्ठे स्थिरे पुराणे च।
पीतागदस्य कार्यो विषैः समन्त्रोऽगदैश्चानु॥५७॥
स्तब्धानि सुप्तसुप्तान्यस्वेदनकण्डुलानि कुष्ठानि।
घृष्टानि शुष्कगोमयफेनकशस्त्रैः प्रदेह्यानि॥५८॥
मुस्ता त्रिफला मदनं करञ्ज आरग्वधः कलिङ्गयवाः।
सप्ताह्वकुष्ठफलिनीदार्व्यः सिद्धार्थकं स्नानम्॥५९॥
एष कषायो वमनं विरेचनं वर्णकस्तथोद्धर्षः।
त्वग्दोषकुष्ठशोफप्रबाधनः पाण्डुरोगघ्नः॥६०॥
करवीरनिम्बकुटजाच्छम्याकाच्चित्रकाच्च मूलानाम्।
मूत्रे दर्वीलेपी क्वाथो लेपेन कुष्ठघ्नः॥६१॥
श्वेतकरवीमूलं कुटजकरञ्जात्फलं त्वचो दार्व्याः।
सुमनःप्रवालयुक्तो लेपः कुष्ठापहः सिद्धः॥६२॥
शैरीषी त्वक् पुष्पं कार्पास्या राजवृक्षपत्राणि।
पिष्टा काकमाची चतुर्विधः कुष्ठहा लेपः॥६३॥
व्योषसर्षपनिशागृहधूमैर्यावशूकपटुचित्रककुष्ठैः।
कोलमात्रगुटिकाऽर्धविषांशा श्वित्रकुष्ठहरणो वरलेपः॥६४॥
निम्बं हरिद्रे सुरसं पटोलं कुष्ठाश्वगन्धे सुरदारु शिग्रुः।
ससर्षपं तुम्बरुधान्यवन्यं चण्डा चूर्णानि समानि कुर्यात्॥६५॥
तैस्तक्रपिष्टैः प्रथमं शरीरं तैलाक्तमुद्वर्तयितुं यतेत।
तथाऽस्य कण्डूः पिटिकाः सकोठाः कुष्ठानि शोफाश्च शमं व्रजन्ति॥६६॥
मुस्तामृतासङ्गकटङ्कटेरीकासीसकम्पिल्लककुष्ठरोध्राः।
गन्धोपलः सर्जरसो विडङ्गं मनःशिलाले करवीरकत्वक्॥६७॥
तैलाक्तगात्रस्य कृतानि चूर्णान्येतानि दद्यादवचूर्णनार्थम्।
दद्रूः सकण्डूः किटिभानि पामा विचर्चिका चेति तथा सन्ति॥६८॥
स्नुग्गण्डे सर्षपात्कल्कः कुकूलानलपाचितः।
लेपाद्विचर्चिकां हन्ति रागवेग इव त्रपाम्॥६९॥
मनःशिलाले मरिचानि तैलमार्कं पयः कुष्ठहरः प्रदेहः।
तथा करञ्जप्रपुनाटबीजं कुष्ठान्वितं गोसलिलेन पिष्टम्॥७०॥
गुग्गुलुमरिचविडङ्गैः सर्षपकासीससर्जरसमुस्तैः।
श्रीवेष्टकालगन्धैर्मनःशिलाकुष्ठकम्पिल्लैः॥७१॥
उभयहरिद्रासहितैश्चाक्रिकतैलेन मिश्रितैरेभिः।
दिनकरकराभितप्तैः कुष्ठं घृष्टं नष्टं च॥७२॥
मरिचं तमालपत्रं कुष्ठं समनःशिलं सकासीसम्।
तैलेन युक्तमुषितं सप्ताहं भाजने ताम्रे॥७३॥
तेनालिप्तं सिध्मं सप्ताहाद् घर्मसेविनोऽपैति।
मासान्नवं किलासं स्नानेन विना विशुद्धस्य॥७४॥
मयूरकक्षारजले सप्तकृत्वः परिस्रते।
सिद्धं ज्योतिष्मतीतैलमभ्यङ्गात्सिध्मनाशनम्॥७५॥
वायसजङ्घामूलं वमनीपत्राणि मूलकाद्बीजम्।
तक्रेण भौमवारे लेपः सिध्मापहः सिद्धः॥७६॥
जीवन्ती मञ्जिष्ठा दार्वी कम्पिल्लकं पयस्तुत्थम्।
एष घृततैलपाकः सिद्धः सिद्धे सर्जरसः॥७७॥
देयः समधूच्छिष्टो विपादिका तेन नश्यति ह्यक्ता।
चर्मैककुष्ठकिटिभं कुष्ठं शाम्यत्यलसकं च॥७८॥
मूलं सप्ताह्वात्त्वक् शिरीषाश्वमारादर्कान्मालत्याश्चित्रकास्फोतनिम्बात्।
बीजं कारञ्जं सार्षपं प्रापुनाटं श्रेष्ठा जन्तुघ्नं त्र्यूषणं द्वे हरिद्रे॥७९॥
तैलं तैलं साधितं तैः समूत्रैस्त्वग्दोषाणां दुष्टनाडीव्रणानाम्।
अभ्यङ्गेन श्लेष्मवातोद्भवानां नाशायालं वज्रकं वज्रतुल्यम्॥८०॥
एरण्डतार्क्ष्यघननीपकदम्बभार्ङ्गी-
कम्पिल्लवेल्लफलिनीसुरवारुणीभिः।
निर्गुण्ड्यरुष्करसुराह्वसुवर्णदुग्धा-
श्रीवेष्टगुग्गुलुशिलापटुतालविश्वैः॥८१॥
तुल्यस्नुगर्कदुग्धं सिद्धं तैलं स्मृतं महावज्रम्।
अतिशयितवज्रकगुणं श्वित्रार्शोग्रन्थिमालाघ्नम्॥८२॥
कुष्ठाश्वमारभृङ्गार्कमूत्रस्नुक्क्षीरसैन्धवैः।
तैलं सिद्धं विषावापमभ्यङ्गात् कुष्ठजित्परम्॥८३॥
सिद्धं सिक्थकसिन्दूरपुरतुत्थकतार्क्ष्यजैः।
कच्छूं विचर्चिकां चाशु कटुतैलं निबर्हति॥८४॥
लाक्षा व्योषं प्रापुनाटं बीजं सश्रीवेष्टं कुष्ठसिद्धार्थकाश्च।
तक्रोन्मिश्रः स्याद्धरिद्रा लेपो दद्रूषूक्तो मूलकोत्थं बीजम्॥८५॥
चित्रकसोभाञ्जनकौ, गुडूच्यपामार्गदेवदारूणि।
ख़दिरो धवश्च लेपः, श्यामा दन्ती द्रवन्ती च॥८६॥
लाक्षारसाञ्जनैलाः, पुनर्नवा चेति कुष्ठिनां लेपाः।
दधिमण्डयुताः पादैः षट् प्रोक्ता मारुतकफघ्नाः॥८७॥
जलवाप्यलोहकेसरपत्रप्लवचन्दनमृणालानि।
भागोत्तराणि सिद्धं प्रलेपनं पित्तकफकुष्ठे॥८८॥
तिक्तघृतैर्धौतघृतैरभ्यङ्गो दह्यमानकुष्ठेषु।
तैलैश्चन्दनमधुकप्रपौण्डरीकोत्पलयुतैश्च॥८९॥
क्लेदे प्रपतति चाङ्गे दाहे विस्फोटके चर्मदले।
शीताः प्रदेहसेका व्यधनविरेकौघृतं तिक्तम्॥९०॥
ख़दिरवृषनिम्बकुटजाःश्रेष्ठाकृमिजित्पटोलमधुपर्ण्यः
अन्तर्बहिः प्रयुक्ताः कृमिकुष्ठनुदः सगोमूत्राः॥९१॥
वातोत्तरेषु सर्पिर्वमनं श्लेष्मोत्तरेषु कुष्ठेषु।
पित्तोत्तरेषु मोक्षो रक्तस्य विरेचनं चाग्रे॥९२॥
ये लेपाः कुष्ठानां युज्यन्ते निर्हृतास्रदोषाणाम्।
संशोधिताशयानां सद्यः सिद्धिर्भवति तेषाम्॥९३॥
दोषे हृतेऽपनीते रक्ते बाह्यान्तरे कृते शमने।
स्नेहे कालयुक्ते कुष्ठमतिवर्तते साध्यम्॥९४॥
बहुदोषः संशोध्यः कुष्ठी बहुशोऽनुरक्षता प्राणान्।
दोषे ह्यतिमात्रहृते वायुर्हन्यादबलमाशु॥९५॥
पक्षात्पक्षाच्छर्दनान्यभ्युपेयान्मासान्मासाच्छोधनान्यप्यधस्तात्।
शुद्धिर्मूर्घ्नि स्यात्त्रिरात्रात्त्रिरात्रात् षष्ठे षष्ठे मास्यसृड्मोक्षणं च॥९६॥
यो दुर्वान्तो दुर्विरिक्तोऽथवा स्यात् कुष्ठी दोषैरुद्धतैर्व्याप्यतेऽसौ।
निःसन्देहं यात्यसाध्यत्वमेवं तस्मात् कृत्स्नान्निर्हरेदस्य दोषान्॥९७॥
व्रतदमयमसेवा त्यागशीलाभियोगो द्विजसुरगुरुपूजा  सर्वसत्त्वेषु मैत्री।
शिवशिवसुतताराभास्कराराधनानि प्रकटितमलपापं कुष्ठमुन्मूलयन्ति॥९८॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्ग हृदयसंहितायां चतुर्थे चिकित्सितस्थाने कुष्ठचिकित्सितं नामैकोनविंशोऽध्यायः॥१९॥