15.उदरचिकित्सिताध्यायः
अथात उदरचिकित्सितं व्याख़्यास्यामः।
इति स्माहुरात्रेयादयो महर्षयः।
दोषातिमात्रोपचयात्स्रोतोमार्गनिरोधनात्।
सम्भवत्युदरं तस्मान्नित्यमेनं विरेचयेत्॥१॥
पाययेत्तैलमैरण्डं समूत्रं सपयोऽपि वा।
मासं द्वौ वाऽथवा गव्यं मूत्रं माहिषमेव वा॥२॥
पिबेद्गोक्षीरभुक् स्याद्वा करभीक्षीरवर्तनः।
दाहानाहातितृण्मूर्च्छापरीतस्तु विशेषतः॥३॥
रूक्षाणां बहुवातानां दोषसंशुद्धिकाङ्क्षिणाम्।
स्नेहनीयानि सर्पींषि जठरघ्नानि योजयेत्॥४॥
षट्पलं दशमूलाम्बुमस्तुह्याढकसाधितम्।
नागरत्रिपलं प्रस्थं घृततैलात्तथाऽऽढकम्॥५॥
मस्तुनः साधयित्वैतत्पिबेत्सर्वोदरापहम्।
कफमारुतसम्भूते गुल्मे परमं हितम्॥६॥
चतुर्गुणे जले मूत्रे द्विगुणे चित्रकात्पले।
कल्के सिद्धं घृतप्रस्थं सक्षारं जठरी पिबेत्॥७॥
यवकोलकुलत्थानां पञ्चमूलस्य चाम्भसा।
सुरासौवीरकाभ्यां सिद्धं वा पाययेद्धृतम्॥८॥
एभिः स्निग्धाय सञ्जाते बले शान्ते मारुते।
स्रस्ते दोषाशये दद्यात्कल्पदृष्टं विरेचनम्॥९॥
पटोलमूलं त्रिफलां निशां वेल्लं कार्षिकम्।
कम्पिल्लनीलिनीकुम्भभागान् द्वित्रिचतुर्गुणान्॥१०॥
पिबेत्सञ्चूर्ण्य मूत्रेण पेयापूर्वं ततो रसैः।
विरिक्तो जाङ्गलैरद्यात्ततः षड्दिवसं पयः॥११॥
शृतं पिबेद्व्योषयुतं पीतमेवं पुनःपुनः।
हन्ति सर्वोदराण्येतच्चूर्णं जातोदकान्यपि॥१२॥
गवाक्षीं शङ्ख़िनीं दन्तीं तिल्वकस्य त्वचं वचाम्।
पिबेत्कर्कन्धुमृद्वीकाकोलाम्भोमूत्रसीधुभिः॥१३॥
यवानि हपुषा धान्यं शतपुष्पोपकुञ्चिका।
कारवी पिप्पलीमूलमजगन्धा शठी वचा॥१४॥
चित्रकोऽजाजिकं व्योषं स्वर्णक्षीरी फलत्रयम्।
द्वौ क्षारौ पौष्करं मूलं कुष्ठं लवणपञ्चकम्॥१५॥
विडङ्गं समांशानि दन्त्या भागत्रयं तथा।
त्रिवृद्विशाले द्विगुणे सातला चतुर्गुणा॥१६॥
एष नारायणो नाम चूर्णो रोगगणापहः।
नैनं प्राप्याभिवर्धन्ते रोगा विष्णुमिवासुराः॥१७॥
तक्रेणोदरिभिः पेयो गुल्मिभिर्बदराम्बुना।
आनाहवाते सुरया वातरोगे प्रसन्नया॥१८॥
दधिमण्डेन विट्सङ्गे दाडिमाम्भोभिरर्शसैः।
परिकर्ते सवृक्षाम्लैरुष्णाम्बुभिरजीर्णके॥१९॥
भगन्दरे पाण्डुरोगे कासे श्वासे गलग्रहे।
हृद्रोगे ग्रहणीदोषे कुष्ठे मन्देऽनले ज्वरे॥२०॥
दंष्ट्राविषे मूलविषे सगरे कृत्रिमे विषे।
यथार्हं स्निग्धकोष्ठेन पेयमेतद्विरेचनम्॥२१॥
हपुषां काञ्चनक्षीरीं त्रिफलां नीलिनीफलम्।
त्रायन्तीं रोहिणीं तिक्तां सातलां त्रिवृतां वचाम्॥२२॥
सैन्धवं काललवणं पिप्पलीं चेति चूर्णयेत्।
दाडिमत्रिफलामांसरसमूत्रसुख़ोदकैः॥२३॥
पेयोऽयं सर्वगुल्मेषु प्लीह्नि सर्वोदरेषु च।
श्वित्रे कुष्ठेष्वजरके सदने विषमेऽनले॥२४॥
शोफार्शःपाण्डुरोगेषु कामलायां हलीमके।
वातपित्तकफांश्चाशु विरेकेण प्रसाधयेत्॥२५॥
नीलिनीं निचुलं व्योषं क्षारौ लवणपञ्चकम्।
चित्रकं पिबेच्चूर्णं सर्पिषोदरगुल्मनुत्॥२६॥
पूर्ववच्च पिबेद्दुग्धं क्षामः शुद्धोऽन्तराऽन्तरा।
कारभं गव्यमाजं वा दद्यादात्ययिके गदे॥२७॥
स्नेहानेव विरेकार्थे दुर्बलेभ्यो विशेषतः।
हरीतकीसूक्ष्मरजःप्रस्थयुक्तं घृताढकम्॥२८॥
अग्नौ विलाप्य मथितं खजेन यवपल्लके।
निधापयेत्ततो मासादुद्धृतं गालितं पचेत्॥२९॥
हरीतकीनां क्वाथेन दध्ना चाम्लेन संयुतम्।
उदरं गरमष्ठीलामानाहं गुल्मविद्रधी॥३०॥
हन्त्येतत्कुष्ठमुन्मादमपस्मारं पानतः।
स्नुक्ऽऽक्षीरयुक्ताद्गोक्षीराच्छृतशीतात् ख़जेनाहतात्॥३१॥
यज्जातमाज्यं स्नुक्ऽऽक्षीरसिद्धं तच्च तथागुणम्।
क्षीरद्रोणं सुधाक्षीरप्रस्थार्धसहितं दधि॥३२॥
जातं मथित्वा तत्सर्पिस्त्रिवृत्सिद्धं तद्गुणम्।
तथा सिद्धं घृतप्रस्थं पयस्यष्टगुणे पिबेत्॥३३॥
स्नुक्क्षीरपलकल्केन त्रिवृताषट्पलेन च।
एषां चानु पिबेत्पेयां रसं स्वादु पयोऽथवा॥३४॥
घृते जीर्णे विरिक्तश्च कोष्णं नागरसाधितम्।
पिबेदम्बु ततः पेयां ततो यूषं कुलत्थजम्॥३५॥
पिबेद्रूक्षस्त्र्यहं त्वेवं भूयो वा प्रतिभोजितः।
पुनःपुनः पिबेत्सर्पिरानुपूर्व्याऽनयैव च॥३६॥
घृतान्येतानि सिद्धानि विदध्यात्कुशलो भिषक्।
गुल्मानां गरदोषाणामुदराणां शान्तये॥३७॥
पीलुकल्कोपसिद्धं वा घृतमानाहभेदनम्।
तैल्वकं नीलिनीसर्पिः स्नेहं वा मिश्रकं पिबेत्॥३८॥
हृतदोषः क्रमादश्नन् लघुशाल्योदनप्रति।
उपयुञ्जीत जठरी दोषशेषनिवृत्तये॥३९॥
हरीतकीसहस्रं वा गोमूत्रेण पयोनुपः।
सहस्रं पिप्पलीनां वा स्नुक्ऽऽक्षीरेण सुभावितम्॥४०॥
पिप्पलीवर्धमानं वा क्षीराशी वा शिलाजतु।
तद्वद्वा गुग्गुलुं क्षीरं तुल्यार्द्रकरसं तथा॥४१॥
चित्रकामरदारुभ्यां कल्कं क्षीरेण वा पिबेत्।
मासं युक्तस्तथा हस्तिपिप्पलीविश्वभेषजम्॥४२॥
विडङ्गं चित्रको दन्ति चव्यं व्योषं तै पयः।
कल्कैः कोलसमैः पीत्वा प्रवृद्धमुदरं जयेत्॥४३॥
भोज्यं भुञीत वा मासं स्नुहीक्षीरघृतान्वितम्।
उत्कारिकां वा स्नुक्क्षीरपीतपथ्याकणाकृताम्॥४४॥
पार्श्वशूलमुपस्तम्भं हृद्ग्रहं समीरणः।
यदि कुर्यात् ततस्तैलं बिल्वक्षारान्वितं पिबेत्॥४५॥
पक्वं वा टिण्टुकबलापलाशतिलनालजैः।
क्षारैः कदल्यपमार्गतर्कारीजैः पृथक्कृतैः॥४६॥
कफे वातेन पित्ते वा ताभ्यां वाऽप्यावृतेऽनिले।
बलिनः स्वौषधयुतं तैलमेरण्डजं हितम्॥४७॥
देवदारुपलाशार्कहस्तिपिप्पलिशिग्रुकैः।
साश्वकर्णैः सगोमूत्रैः प्रदिह्यादुदरं बहिः॥४८॥
वृश्चिकालीवचाशुण्ठीपञ्चमूलपुनर्नवात्।
वर्षाभूधान्यकुष्ठाच्च क्वाथैर्मूत्रैश्च सेचयेत्॥४९॥
विरिक्तम्लानमुदरं स्वेदितं साल्वणादिभिः।
वाससा वेष्टयेदेवं वायुर्नाध्मापयेत्पुनः॥५०॥
सुविरिक्तस्य यस्य स्यादाध्मानं पुनरेव तम्।
सुस्निग्धैरम्ललवणैर्निरूहैः समुपाचरेत्॥५१॥
सोपस्तम्भोऽपि वा वायुराध्मापयति यं नरम्।
तीक्ष्णाः सक्षारगोमूत्राः शस्यन्ते तस्य बस्तयः॥५२॥
इति सामान्यतः प्रोक्ताः सिद्धा जठरिणां क्रियाः।
वातोदरेऽथ बलिनं विदार्यादिशृतं घृतम्॥५३॥
पाययेत ततः स्निग्धं स्वेदिताङ्गं विरेचयेत्।
बहुशस्तैल्वकेनैनं सर्पिषा मिश्रकेण वा॥५४॥
कृते संसर्जने क्षीरं बलार्थमवचारयेत्।
प्रागुत्क्लेशान्निवर्त्यं बले लब्धे क्रमात्पयः॥५५॥
यूषै रसैर्वा मन्दाम्ललवणैरेधितानलम्।
सोदावर्तं पुनः स्निग्धस्विन्नमास्थापयेत्ततः॥५६॥
तीक्ष्णाधोभागयुक्तेन दाशमूलिकबस्तिना।
तिलोरुबूकतैलेन वातघ्नाम्लशृतेन च॥५७॥
स्फुरणाक्षेपसन्ध्यस्थिपार्श्वपृष्ठत्रिकार्तिषु।
रूक्षं बद्धशकृद्वातं दीप्ताग्निमनुवासयेत्॥५८॥
अविरेच्यस्य शमना बस्तिक्षीरघृतादयः।
बलिनं स्वादुसिद्धेन पैत्ते संस्नेह्य सर्पिषा॥५९॥
श्यामात्रिभण्डीत्रिफलाविपक्वेन विरेचयेत्।
सितामधुघृताढ्येन निरूहोऽस्य ततो हितः॥६०॥
न्यग्रोधादिकषायेण स्नेहबस्तिश्च तच्छृतः।
दुर्बलं त्वनुवास्यादौ शोधयेत्क्षीरबस्तिभिः॥६१॥
जाते चाग्निबले स्निग्धं भूयो भूयो विरेचयेत्।
क्षीरेण सत्रिवृत्कल्केनोरुबूकशृतेन वा॥६२॥
सातलात्रायमाणाभ्यां शृतेनारग्वधेन वा।
सकफे वा समूत्रेण सतिक्ताज्येन सानिले॥६३॥
पयसाऽन्यतमेनैषां विदार्यादिशृतेन वा।
भुञ्जीत जठरं चास्य पायसेनोपनाहयेत्॥६४॥
पुनः क्षीरं पुनर्बस्तिं पुनरेव विरेचनम्।
क्रमेण ध्रुवमातिष्ठन् यत्तः पित्तोदरं जयेत्॥६५॥
वत्सकादिविपक्वेन कफे संस्नेह्य सर्पिषा।
स्विन्नं स्नुक्षीरसिद्धेन बलवन्तं विरेचितम्॥६६॥
संसर्जयेत्कटुक्षारयुक्तैरन्नैः कफापहैः।
मूत्रत्र्यूषणतैलाढ्यो निरूहोऽस्य ततो हितः॥६७॥
मुष्ककादिकषायेण स्नेहबस्तिश्च तच्छृतः।
भोजनं व्योषदुग्धेन कौलत्थेन रसेन वा॥६८॥
स्तैमित्यारुचिहृल्लासे मन्देऽग्नौ मद्यपाय च।
दद्यादरिष्टान् क्षारांश्च कफस्त्यानस्थिरोदरे॥६९॥
हिङ्गूपकुल्ये त्रिफलां देवदारु निशाद्वयम्।
भल्लातकं शिग्रुफलं कटुकां तिक्तकं वचाम्॥७०॥
शुण्ठीं माद्रीं घनं कुष्ठं सरलं पटुपञ्चकम्।
दाहयेज्जर्जरीकृत्य दधिस्नेहचतुष्कवत्॥७१॥
अन्तर्धूमं ततः क्षाराद्बिडालपदकं पिबेत्।
मदिरादधिमण्डोष्णजलारिष्टसुरासवैः॥७२॥
उदरं गुल्ममष्ठीलां तून्यौ शोफं विसूचिकाम्।
प्लीहहृद्रोगगुदजानुदावर्तं नाशयेत्॥७३॥
जयेदरिष्टगोमूत्रचूर्णायस्कृतिपानतः।
सक्षारतैलपानैश्च दुर्बलस्य कफोदरम्॥७४॥
उपनाह्यं ससिद्धार्थकिण्वैर्बीजैश्च मूलकात्।
कल्कितैरुदरं स्वेदमभीक्ष्णं चात्र योजयेत्॥७५॥
सन्निपातोदरे कुर्यान्नातिक्षीणबलानले।
दोषोद्रेकानुरोधेन प्रत्याख़्याय क्रियामिमाम्॥७६॥
दन्तीद्रवन्तीफलजं तैलं पाने शस्यते।
क्रियानिवृत्ते जठरे त्रिदोषे तु विशेषतः॥७७॥
दद्यादापृच्छ्य तज्ज्ञातीन् पातुं मद्येन कल्कितम्।
मूलं काकादनीगुञ्जाकरवीरकसम्भवम्॥७८॥
पानभोजनसंयुक्तं दद्याद्वा स्थावरं विषम्।
यस्मिन् वा कुपितः सर्पो विमुञ्चति फले विषम्॥७९॥
तेनास्य दोषसङ्घातः स्थिरो लीनो विमार्गगः।
बहिः प्रवर्तते भिन्नो विषेणाशु प्रमाथिना॥८०॥
तथा व्रजत्यगदतां शरीरान्तरमेव वा।
हृतदोषं तु शीताम्बुस्नातं तं पाययेत्पयः॥८१॥
पेयां वा त्रिवृतः शाकं मण्डूक्या वास्तुकस्य वा।
कालशाकं यवाख़्यं वा ख़ादेत्स्वरससाधितम्॥८२॥
निरम्ललवणस्नेहं स्विन्नास्विन्नमनन्नभुक्।
मासमेकं ततश्चैव तृषितः स्वरसं पिबेत्॥८३॥
एवं विनिर्हृते शाकैर्दोषे मासात् परं ततः।
दुर्बलाय प्रयुञ्जीत प्राणभृत्कारभं पयः॥८४॥
प्लीहोदरे यथादोष स्निग्धस्य स्वेदितस्य च।
सिरां भुक्तवतो दध्ना वामबाहौ विमोक्षयेत्॥८५॥
लब्धे बले भूयोऽपि स्नेहपीतं विशोधितम्।
समुद्रशुक्तिजं क्षारं पयसा पाययेत्तथा॥८६॥
अम्लस्रुतं बिडकणाचूर्णाढ्यं नक्तमालजम्।
सौभाञ्जनस्य वा क्वाथं सैन्धवाग्निकणान्वितम्॥८७॥
हिड्ग्वादिचूर्णं क्षाराज्यं युञ्जीत यथाबलम्।
पिप्पलीनागरं दन्तीसमांशं द्विगुणाभयम्॥८८॥
बिडार्धांशयुतं चूर्णमिदमुष्णाम्बुना पिबेत्।
विडङ्गं चित्रकं सक्तून् सघृतान् सैन्धवं वचाम्॥८९॥
दग्ध्वा कपाले पयसा गुल्मप्लीहापहं पिबेत्।
तैलोन्मिश्रैर्बदरकपत्रैः सम्मार्दितैः समुपनद्धः॥९०॥
मुसलेन पीडितोऽनु याति प्लीहा पयोभुजो नाशम्।
रोहीतकलताः क्लृप्ताः ख़ण्डशः साभया जले॥९१॥
मूत्रे वाऽऽसुनुयात्तच्च सप्तरात्रस्थितं पिबेत्।
कामलाप्लीहगुल्मार्शः कृमिमेहोदरापहम्॥९२॥
रोहीतकत्वचः कृत्वा पलानां पञ्चविंशतीम्।
कोलद्विप्रस्थसंयुक्तं कषायमुपकल्पयेत्॥९३॥
पालिकैः पञ्चकोलैस्तु तैः समस्तैश्च तुल्यया।
रोहीतकत्वचा पिष्टैर्घृतप्रस्थं विपाचयेत्॥९४॥
प्लीहाभिवृद्धिं शमयत्येतदाशु प्रयोजितम्।
कदल्यास्तिलनालानां क्षारेण क्षुरकस्य च॥९५॥
तैलं पक्वं जयेत्पानात्प्लीहानं कफवातजम्।
अशान्तौ गुल्मविधिना योजयेदग्निकर्म च॥९६॥
अप्राप्तपिच्छासलिले प्लीह्नि वातकफोल्बणे।
पैत्तिके जीवनीयानि सर्पींषि क्षीरबस्तयः॥९७॥
रक्तावसेकः संशुद्धिः क्षीरपानं शस्यते।
यकृति प्लीहवत्कर्म दक्षिणे तु भुजे सिराम्॥९८॥
स्विन्नाय बद्धोदरिणे मूत्रतीक्ष्णौषधान्वितम्।
सतैललवणं दद्यान्निरूहं सानुवासनम्॥९९॥
परीस्रंसीनि चान्नानि तीक्ष्णं चास्मै विरेचनम्।
उदावर्तहरं कर्म कार्यं यच्चानिलापहम्॥१००॥
छिद्रोदरमृते स्वेदाच्छ्लेष्मोदरवदाचरेत्।
जातं जातं जलं स्राव्यमेवं तद्यापयेद्भिषक्॥१०१॥
अपां दोषहराण्यादौ योजयेदुदकोदरे।
मूत्रयुक्तानि तीक्ष्णानि विविधक्षारवन्ति च॥१०२॥
दीपनीयैः कफघ्नैश्च तमाहारैरुपाचरेत्।
क्षारं छोगकरीषाणां स्रुतं मूत्रेऽग्निना पचेत्॥१०३॥
घनीभवति तस्मिंश्च कर्षांशं चूर्णितं क्षिपेत्।
पिप्पली पिप्पलीमूलं शुण्ठी लवणपञ्चकम्॥१०४॥
निकुम्भकुम्भत्रिफलास्वर्णक्षीरीविषाणिकाः।
स्वर्जिकाक्षारषड्ग्रन्थासातलायवशूकजम्॥१०५॥
कोलाभा गुटिकाः कृत्वा ततः सौवीरकाप्लुताः।
पिबेदजरके शोफे प्रवृद्धे चोदकोदरे॥१०६॥
इत्यौषधैरप्रशमे त्रिषु बद्धोदरादिषु।
प्रयुञ्जीत भिषक् शस्त्रमार्तबन्धुनृपार्थितः॥१०७॥
स्निग्धस्विन्नतनोर्नाभेरधो बद्धक्षतान्त्रयोः।
पाटयेदुदरं मुक्त्वा वामतश्चतुरङ्गुलात्॥१०८॥
चतुरङ्गुलमानं तु निष्कास्यान्त्राणि तेन च।
निरीक्ष्यापनयेद्बालमललेपोपलादिकम्॥१०९॥
छिद्रे तु शल्यमुद्धृत्य विशोध्यान्त्रपरिस्रवम्।
मर्कोटैर्दंशयेच्छिद्रं तेषु लग्नेषु चाहरेत्॥११०॥
कायं मूर्ध्नोऽनु चान्त्राणि यथास्थानं निवेशयेत्।
अक्तानि मधुसर्पिर्भ्यामथ सीव्येद्बहिर्व्रणम्॥१११॥
ततः कृष्णमृदाऽऽलिप्य बध्नीयाद्यष्टिमिश्रया।
निवातस्थः पयोवृत्तिः स्नेहद्रोण्यां वसेत्ततः॥११२॥
सजले जठरे तैलैरभ्यक्तस्यानिलापहैः।
स्विन्नस्योष्णाम्बुनाऽऽकक्षमुदरे पट्टवेष्टिते॥११३॥
बद्धच्छिद्रोदितस्थाने विध्येदङ्गुलमात्रकम्।
निधाय तस्मिन्नाडीं स्रावयेदर्धमम्भसः॥११४॥
अथास्य नाडीमाकृष्य तैलेन लवणेन च।
व्रणमभ्यज्य बध्वा वेष्टयेद्वाससोदरम्॥११५॥
तृतीयेऽह्नि चतुर्थे वा यावदाषोडशं दिनम्।
तस्य विश्रम्य विश्रम्य स्रावयेदल्पशो जलम्॥११६॥
विवेष्टयेद्गाढतरं जठरं वाससा श्लथम्।
निःस्रुते लङ्घितः पेयामस्नेहलवणां पिबेत्॥११७॥
स्यात्क्षीरवृत्तिः षण्मासांस्त्रीन् पेयां पयसा पिबेत्।
त्रींश्चान्यान् पयसैवाद्यात् फलाम्लेन रसेन वा॥११८॥
अल्पशोऽस्नेहलवणं जीर्णं श्यामाककोद्रवम्।
प्रयतो वत्सरेणैवं विजयेत जलोदरम्॥११९॥
वर्ज्येषु यन्त्रितो दिष्टे नात्यदिष्टे जितेन्द्रियः।
सर्वमेवोदरं प्रायो दोषसङ्घातजं यतः॥१२०॥
अतो वातादिशमनी क्रिया सर्वत्र शस्यते।
वह्निर्मन्दत्वमायाति दोषैः कुक्षौ प्रपूरिते॥१२१॥
तस्माद्भोज्यानि भोज्यानि दीपनानि लघूनि च।
सपञ्चमूलान्यल्पाम्लपटुस्नेहकटूनि च॥१२२॥
भावितानां गवां मूत्रे षष्टिकानां तण्डुलैः।
यवागूं पयसा सिद्धां प्रकामं भोजयेन्नरम्॥१२३॥
पिबेदिक्षुरसं चानु जठराणां निवृत्तये।
स्वं स्वं स्थानं व्रजन्त्येषां वातपित्तकफास्तथा॥१२४॥
अत्यर्थोष्णाम्ललवणं रूक्षं ग्राहि हिमं गुरु।
गुडं तैलकृतं शाकं वारि पानावगाहयोः॥१२५॥
आयासाध्वदिवास्वप्नयानानि परित्यजेत्।
नात्यच्छसान्द्रमधुरं तक्रं पाने प्रशस्यते॥१२६॥
सकणालवणं वाते, पित्ते सोषणशर्करम्।
यवानीसैन्धवाजाजीमधुव्योषैः कफोदरे॥१२७॥
त्र्यूषणक्षारलवणैः संयुतं निचयोदरे।
मधुतैलवचाशुण्ठीशतह्वाकुष्ठसैन्धवैः॥१२८॥
प्लीह्नि, बद्धे तु हपुषायवानीपट्वजाजिभिः।
सकृष्णामाक्षिकं छिद्रे, व्योषवत्सलिलोदरे॥१२९॥
गौरवारोचकानाहमन्दवह्न्यतिसारिणाम्।
तक्रं वातकफार्तानाममृतत्वाय कल्पते॥१३०॥
प्रयोगाणां सर्वेषामनु क्षीरं प्रयोजयेत्।
स्थैर्यकृत्सर्वधातूनां बल्यं दोषानुबन्धहृत्॥१३१॥
भेषजापचिताङ्गानां क्षीरमेवामृतायते॥१३१ /२॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्ग हृदयसंहितायां चतुर्थे चिकित्सितस्थाने उदरचिकित्सितं
नाम पञ्चदशोऽध्यायः॥१५॥