14.गुल्मचिकित्सिताध्यायः
अथातो गुल्मचिकित्सितं व्याख़्यास्यामः।
इति स्माहुरात्रेयादयो महर्षयः।
गुल्मं बद्धशकृद्वातं वातिकं तीव्रवेदनम्।
रूक्षशीतोद्भवं तैलैः साधयेद्वातरोगिकैः॥१॥
पानान्नान्वासनाभ्यङ्गैः स्निग्धस्य स्वेदमाचरेत्।
आनाहवेदनास्तम्भविबन्धेषु विशेषतः॥२॥
स्रोतसां मार्दवं कृत्वा जित्वा मारुतमुल्बणम्।
भित्वा विबन्धं स्निग्धस्य स्वेदो गुल्ममपोहति॥३॥
स्नेहपानं हितं गुल्मे विशेषेणोर्ध्वनाभिजे।
पक्वाशयगते बस्तिरुभयं जठराश्रये॥४॥
दीप्तेऽग्नौ वातिके गुल्मे विबन्धेऽनिलवर्चसोः।
बृंहणान्यन्नपानानि स्निग्धोष्णानि प्रदापयेत्॥५॥
पुनःपुनः स्नेहपानं निरूहाः सानुवासनाः।
प्रयोज्या वातजे गुल्मे कफपित्तानुरक्षिणः॥६॥
बस्तिकर्म परं विद्याद्गुल्मघ्नं, तद्धि मारुतम्।
स्वस्थाने प्रथमं जित्वा सद्यो गुल्ममपोहति॥७॥
तस्मादभीक्ष्णशो गुल्मा निरूहैः सानुवासनैः।
प्रयुज्यमानैः शाम्यन्ति वातपित्तकफात्मकाः॥८॥
हिङ्गुसौवर्चलव्योषबिडदिमदीप्यकैः।
पुष्कराजाजिधान्याम्लवेतसक्षारचित्रकैः॥९॥
शठीवचागन्धैलासुरसैर्दधिसंयुतैः।
शूलानाहहरं सर्पिः साधयेद्वातगुल्मिनाम्॥१०॥
हपुषोषणपृथ्वीकापञ्चकोलकदीप्यकैः।
साजाजीसैन्धवैर्दध्ना दुग्धेन रसेन च॥११॥
दाडिमान्मूलकात्कोलात्पचेत्सर्पिर्निहन्ति तत्।
वातगुल्मोदरानाहपार्श्वहृत्कोष्ठवेदनाः॥१२॥
योन्यर्शोग्रहणीदोषकासश्वासारुचिज्वरान्।
दशमूलं बलां कालां सुषवीं द्वौ पुनर्नवौ॥१३॥
पौष्करैरण्डरास्नाश्वगन्धाभार्ग्यमृताशठीः।
पचेद्गन्धपलाशं द्रोणेऽपां द्विपलोन्मितम्॥१४॥
यवैः कोलैः कुलत्थैश्च माषैश्च प्रास्थिकैः सह।
क्वाथेऽस्मिन्दधिपात्रे घृतप्रस्थं विपाचयेत्॥१५॥
स्वरसैर्दाडिमाम्रातमातुलुङ्गोद्भवैर्युतम्।
तथा तुषाम्बुधान्याम्लशुक्तैः श्लक्ष्णैश्च कल्कितैः॥१६॥
भार्गीतुम्बुरुषड्ग्रन्थाग्रन्थिरास्नाग्निधान्यकैः।
यवानकयवान्यम्लवेतसासितजीरकैः॥१७॥
अजाजीहिङ्गुहपुषाकारवीवृषकोषकैः।
निकुम्भकुम्भमूर्वेभपिप्पलीवेल्लदाडिमैः॥१८॥
श्वदंष्ट्रात्रपुसैर्वारुबीजहिंस्राश्मभेदकैः।
मिसिद्विक्षारसुरससारिवानीलिनीफलैः॥१९॥
त्रिकटुत्रिपटूपेतैर्दाधिकं तह्यपोहति।
रोगानाशुतरान् पूर्वान् कष्टानपि शीलितम्॥२०॥
अपस्मारगदोन्मादमूत्राघातानिलामयान्।
त्र्यूषणत्रिफलाधान्यचविकावेल्लचित्रकैः॥२१॥
कल्कीकृतैर्घृतं पक्वं सक्षीरं वातगुल्मनुत्।
तुलां लशुनकन्दानां पृथक्पञ्चपलांशकम्॥२२॥
पञ्चमूलं महच्चाम्बुभारार्धे तद्विपाचयेत्।
पादशेषं तदर्धेन दाडिमस्वरसं सुराम्॥२३॥
धान्याम्लं दधि चादाय पिष्टांश्चार्धपलांशकान्।
त्र्यूषणत्रिफलाहिङ्गुयवानीचव्यदीप्यकान्॥२४॥
साम्लवेतससिन्धूत्थदेवदारून् पचेद्धृतात्।
तैः प्रस्थं तत्परं सर्ववातगुल्मविकारजित्॥२५॥
षट्पलं वा पिबेत् सर्पिर्यदुक्तं राजयक्ष्मणि।
प्रसन्नया वा क्षीरार्थः सुरया दाडिमेन वा॥२६॥
घृते मारुतगुल्मघ्नः कार्यो दध्नः सरेण वा।
वातगुल्मे कफो वृद्धो हत्वाऽग्निमरुचिं यदि॥२७॥
हृल्लासं गौरवं तन्द्रां जनयेदुल्लिख़ेत्तु तम्।
शूलानाहविबन्धेषु ज्ञात्वा सस्नेहमाशयम्॥२८॥
निर्यूहचूर्णवटकाः प्रयोज्या घृतभेषजैः।
कोलदाडिमघर्माम्बुतक्रमद्याम्लकाञ्जिकैः॥२९॥
मण्डेन वा पिबेत्प्रातश्चूर्णान्यन्नस्य वा पुरः।
चूर्णानि मातुलुङ्गस्य भावितान्यसकृद्रसे॥३०॥
कुर्वीत कार्मुकतरान् वटकान् कफवातयः।
हिङ्गुवचाविजयापशुगन्धादाडिमदीप्यकधान्यकपाठाः।
पुष्करमूलशठीहपुषाग्निक्षारयुगत्रिपटुत्रिकटूनि॥३१॥
साजाजिचव्यं सहतित्तिडीकं सवेतसाम्लं विनिहन्ति चूर्णम्।
हृत्पार्श्वबस्तित्रिकयोनिपायुशूलानि वाय्वामकफोद्भवानि॥३२॥
कृच्छ्रान् गुल्मान् वातविण्मूत्रसङ्गं कण्ठे बन्धं हृद्ग्रहं पाण्डुरोगम्।
अन्नाश्रद्धाप्लीहदुर्नामहिध्मावर्ध्माध्मानश्वासकासाग्निसादान्॥३३॥
लवणयवानीदीप्यककणनागरमुत्तरोत्तरं वृद्धम्।
सर्वसमांशहरीतकीचूर्णं वैश्वानरः साक्षात्॥३४॥
त्रिकटुकमजमोदा सैन्धवं जीरके द्वे समधरणधृतानामष्टमो हिङ्गुभागः।
प्रथमकवलभोज्यः सर्पिषा संप्रयुक्तो जनयति जठराग्निं वातगुल्मं निहन्ति॥३५॥
हिङ्गूग्राबिडशुण्ठ्यजाजिविजयावाट्याभिधानामयै-
श्चूर्णः कुम्भनिकुम्भमूलसहितैर्भागोत्तरं वर्धितैः।
पीतः कोष्णजलेन कोष्ठजरुजो गुल्मोदरादीनयं
शार्दूलः प्रसभं प्रमथ्य हरति व्याधीन् मृगौघानिव॥३६॥
सिन्धूत्थपथ्याकणदीप्यकानां चूर्णानि तोयैः पिबतां कवोष्णैः।
प्रयाति नाशं कफवातजन्मा नाराचनिर्भिन्न इवामयौघः॥३७॥
पूतिकपत्रगजचिर्भटचव्यवह्निव्योषं संस्तरचितं लवणोपधानम्।
दग्ध्वा विचूर्ण्य दधिमस्तुयुतं प्रयोज्यं गुल्मोदरश्वयथुपाण्डुगुदोद्भवेषु॥३८॥
हिङ्गुत्रिगुणं सैन्धवमस्मात्त्रिगुणं तैलमैरण्डम्॥३९॥
तत्त्रिगुणरसोनरसं गुल्मोदरवर्ध्मशूलघ्नम्।
मातुलुङ्गरसो हिङ्गु दाडिमं बिडसैन्धवम्॥४०॥
सुरामण्डेन पातव्यं वातगुल्मरुजापहम्।
शुण्ठ्याः कर्षं गुडस्य द्वौ धौतात्कृष्णतिलात्पलम्॥४१॥
ख़ादन्नेकत्र सञ्चूर्ण्य कोष्णक्षीरानुपो जयेत्।
वातहृद्रोगगुल्मार्शोयोनिशूलशकृद्ग्रहान्॥४२॥
पिबेदेरण्डतैलं तु वातगुल्मी प्रसन्नया।
श्लेष्मण्यनुबले वायौ, पित्ते तु पयसा सह॥४३॥
विवृद्धं यदि वा पित्तं सन्तापं वातगुल्मिनः।
कुर्याद्विरेचनीयोऽसौ सस्नेहैरानुलोमिकैः॥४४॥
तापानुवृत्तावेवं रक्तं तस्यावसेचयेत्।
साधयेच्छुद्धशुष्कस्य लशुनस्य चतुष्पलम्॥४५॥
क्षीरोदकेऽष्टगुणिते क्षीरशेषं पाचयेत्।
वातगुल्ममुदावर्तं गृध्रसीं विषमज्वरम्॥४६॥
हृद्रोगं विद्रधिं शोषं साधयत्याशु तत्पयः।
तैलं प्रसन्ना गोमूत्रमारनालं यवाग्रजः॥४७॥
गुल्मं जठरमानाहं पीतमेकत्र साधयेत्।
चित्रकग्रन्थिकैरण्डशुण्ठीक्वाथः परं हितः॥४८॥
शूलानाहविबन्धेशु सहिङ्गुबिडसैन्धवः।
पुष्करैरण्डयोर्मूलं यवधन्वयवासकम्॥४९॥
जलेन क्वथितं पीतं कोष्ठदाहरुजापहम्।
वाट्याह्वैरण्डदर्भाणां मूलं दारु महौषधम्॥५०॥
पीतं निःक्वाथ्य तोयेन कोष्ठपृष्ठांसशूलजित्।
शिलाजं पयसाऽनल्पपञ्चमूलश्रृतेन वा॥५१॥
वातगुल्मी पिबेत् वाट्यमुदावर्ते तु भोजयेत्।
स्निग्धं पैप्पलिकैर्यूषैर्मूलकानां रसेन वा॥५२॥
बद्धविण्मारुतोऽश्र्नीयात्क्षीरेणोष्णेन यावकम्।
कुल्माषान् वा बहुस्नेहान् भक्षयेल्लवणोत्तरान्॥५३॥
नीलिनीत्रिवृतादन्तीपथ्याकम्पिल्लकैः सह।
समलाय घृतं देयं सबिडक्षारनागरम्॥५४॥
नीलिनीं त्रिफलां रास्नां बलां कटुकरोहिणीम्।
पचेद्विडङ्गं व्याघ्रीं पालिकानि जलाढके॥५५॥
रसेऽष्टभागशेषे तु घृतप्रस्थं विपाचयेत्।
दध्नः प्रस्थेन संयोज्य सुधाक्षीरपलेन च॥५६॥
ततो घृतपलं दद्याद्यवागूमण्डमिश्रितम्।
जीर्णे सम्यग्विरिक्तं भोजयेद्रसभोजनम्॥५७॥
गुल्मकुष्ठोदरव्यङ्गशोफपाण्ड्वामयज्वरान्।
श्वित्रं प्लीहानमुन्मादं हन्त्येतन्नीलिनीघृतम्॥५८॥
कुक्कुटाश्च मयूराश्च तित्तिरिक्रौञ्चवर्तकाः।
शालयो मदिरा सर्पिर्वातगुल्मचिकित्सितम्॥५९॥
मितमुष्णं द्रवं स्निग्धं भोजनं वातगुल्मिनाम्।
समण्डा वारुणी पानं तप्तं वा धान्यकैर्जलम्॥६०॥
स्निग्धोष्णेनोदिते गुल्मे पैत्तिके स्रंसनं हितम्।
द्राक्षाभयागुडरसं कम्पिल्लं वा मधुद्रुतम्॥६१॥
कल्पोत्कं रक्तपित्तोक्तं गुल्मे रूक्षोष्णजे पुनः।
परं संशमनं सर्पिस्तिक्तं वासाघृतं श्रृतम्॥६२॥
तृणाख्यपञ्चाक्वाथे जीवनीयगणेन वा।
श्रृतं तेनैव वा क्षीरं न्यग्रोधादिगणेन वा॥६३॥
तत्रापि स्रंसनं युञ्ज्याच्छीघ्रमात्ययिके भिषक्।
वैरेचनिकसिद्धेन सर्पिषा पयसाऽपि वा॥६४॥
रसेनामलकेक्षूणां घृतप्रस्थं विपाचयेत्।
पथ्यापादं पिबेत्सर्पिस्तत्सिद्धं पित्तगुल्मनुत्॥६५॥
पिबेद्वा तैल्वकं सर्पिर्यच्चोक्तं पित्तविद्रधौ।
द्राक्षां पयस्यां मधुकं चन्दनं पद्मकं मधु॥६६॥
पिबेत्तण्डुलतोयेन पित्तगुल्मोपशान्तये।
द्विपलं त्रायमाणाया जलद्विप्रस्थसाधितम्॥६७॥
अष्टभागस्थितं पूतं कोष्णं क्षीरसमं पिबेत्।
पिबेदुपरि तस्योष्णं क्षीरमेव यथाबलम्॥६८॥
तेन निर्हृतदोषस्य गुल्मः शाम्यति पैत्तिकः।
दाहेऽभ्यङ्गो घृतैः शीतैः साज्यैर्लेपो हिमौषधैः॥६९॥
स्पर्शः सरोरुहां पत्रैः पात्रैश्च प्रचलज्जलैः।
विदाहपूर्वरूपेषु शूले वह्नेश्च मार्दवे॥७०॥
बहुशोऽपहरेद्रक्तं पित्तगुल्मे विशेषतः।
छिन्नमूला विदह्यन्ते गुल्मा यान्ति क्षयम्॥७१॥
रक्तं हि व्यम्लतां याति, तच्च नास्ति चास्ति रुक्।
हृतदोषं परिम्लानं जाङ्गलैस्तर्पितं रसैः॥७२॥
समाश्वस्तं सशोषार्तिं सर्पिरभ्यासयेत्पुनः।
रक्तपित्तातिवृद्धत्वात्क्रियामनुपलभ्य वा॥७३॥
गुल्मे पाकोन्मुखे सर्वा पित्तविद्रधिवत्क्रिया।
शालिर्गव्याजपयसी पटोली जाङ्गलं घृतम्॥७४॥
धात्री परूषकं द्राक्षा खर्जूरं दाडिमं सिता।
भोज्यं, पानेऽम्बु बलया बृहत्याद्यैश्च साधितम्॥७५॥
श्लेष्मजे वामयेत्पूर्वमवम्यमुपवासयेत्।
तिक्तोष्णकटुसंसर्ग्या वह्निं सन्धुक्षयेत्ततः॥७६॥
हिङ्ग्वादिभिश्च द्विगुणक्षारहिङ्ग्वम्लवेतसैः।
निगूढं यदि वोन्नद्धं स्तिमितं कठिनं स्थिरम्॥७७॥
आनाहादियुतं गुल्मं संस्वेद्य विनयेदनु।
घृतं सक्षारकटुकं पातव्यं कफगुल्मिनाम्॥७८॥
सव्योषक्षारलवणं सहिङ्गुबिडदाडिमम्।
कफगुल्मं जयत्याशु दशमूलश्घृतं ऋतम्॥७९॥
भल्लातकानां द्विपलं पञ्चमूलं पलोन्मितम्।
अल्पं तोयाढके साध्यं पादशेषेण तेन च॥८०॥
तुल्यं घृतं तुल्यपयो विपचेदक्षसम्मितैः।
विडङ्गहिङ्गुसिन्धूत्थयावशूकशठीबिडैः॥८१॥
सद्वीपिरास्नायष्ट्याह्वषड्ग्रन्थाकणनागरैः।
एतद्भल्लातकघृतं कफगुल्महरं परम्॥८२॥
प्लीहपाण्ड्वामयश्वासग्रहणीरोगकासजित्।
ततोऽस्य गुल्मे देहे समस्ते स्वेदमाचरेत्॥८३॥
सर्वत्र गुल्मे प्रथमं स्नेहस्वेदोपपादिते।
या क्रिया क्रियते याति सा सिद्धिं विरूक्षिते॥८४॥
स्निग्धस्विन्नशरीरस्य गुल्मे शैथिल्यमागते।
यथोक्तां घटिकां न्यस्येद्गृहीतेऽपनयेच्च ताम्॥८५॥
वस्त्रान्तरं ततः कृत्वा छिन्द्याद्गुल्मं प्रमाणवित्।
विमार्गाजपदादर्शैर्यथालाभं प्रपीडयेत्॥८६॥
प्रमृज्याद्गुल्ममेवैकं त्वन्त्रहृदयं स्पृशेत्।
तिलैरण्डातसीबीजसर्षपैः परिलिप्य च॥८७॥
श्लेष्मगुल्ममयस्पात्रैः सुख़ोष्णैः स्वेदयेत्ततः।
एवं विसृतं स्थानात् कफगुल्मं विरेचनैः॥८८॥
सस्नेहैर्बस्तिभिश्चैनं शोधयेद्दाशमूलिकैः।
पिप्पल्यामलकद्राक्षाश्यामाद्यैः पालिकैः पचेत्॥८९॥
एरण्डतैलहविषोः प्रस्थौ पयसि षड्गुणे।
सिद्धोऽयं मिश्रकः स्नेहो गुल्मिनां स्रंसनं हितम्॥९०॥
वृद्धिविद्रधिशूलेषु वातव्याधिषु चामृतम्।
पिबेद्वा नीलिनीसर्पिर्मात्रया द्विपलीनया॥९१॥
तथैव सुकुमाराख्यं घृतान्यौदरिकाणि वा।
द्रोणेऽम्भसः पचेद्दन्त्याः पलानां पञ्चविंशतिम्॥९२॥
चित्रकस्य तथा पथ्यास्तावतीस्तद्रसे स्रुते।
द्विप्रस्थे साधयेत्पूते क्षिपेद्दन्तीसमं गुडम्॥९३॥
तैलात्पलानि चत्वारि त्रिवृतायाश्च चर्णतः।
कणाकर्षौ तथा शुण्ठ्याः सिद्धे लेहे तु शीतले॥९४॥
मधु तैलसमं दद्याच्चतुर्जाताच्चतुर्थिकाम्।
अतो हरीतकीमेकां सावलेहपलामदन्॥९५॥
सुखं विरिच्यते स्निग्धो दोषप्रस्थमनामयः।
गुल्महृद्रोगदुर्नामशोफानाहगरोदरान्॥९६॥
कुष्ठोत्क्लेशारुचिप्लीहग्रहणीविषमज्वरान्।
घ्नन्ति दन्तीहरीतक्यः पाण्डुतां सकामलाम्॥९७॥
सुधाक्षीरद्रवं चूर्णं त्रिवृतायाः सुभावितम्।
कार्षिकं मधुसर्पिर्भ्यां लीढ्वा साधु विरिच्यते॥९८॥
कुष्ठश्यामात्रिवृद्दन्तीविजयाक्षारगुग्गुलून्।
गोमूत्रेण पिबेदकं तेन गुग्गुलुमेव वा॥९९॥
निरूहान् कल्पसिध्द्युक्तान् योजयेद्गुल्मनाशनान्।
कृतमूलं महावास्तुं कठिनं स्तिमितं गुरुम्॥१००॥
गूढमांसं जयेद्गुल्मं क्षारारिष्टाग्निकर्मभिः।
एकान्तरं द्व्य्न्तरं वा विश्रमय्याथ वा त्र्यहम्॥१०१॥
शरीरदोषबलयोर्वर्धनक्षपणोद्यतः।
अर्शोश्मरीग्रहण्युक्ताः क्षारा योज्याः कफोल्बणे॥१०२॥
देवदारुत्रिवृद्दन्तीकटुकापञ्चकोलकम्।
स्वर्जिकायावशूकाख्यौ श्रेष्ठापाठोपकुञ्चकम्॥१०३॥
कुष्ठं सर्पसुगन्धां द्व्यक्षांशं पटुपञ्चकम्।
पालिकं चूर्णितं तैलवसादधिघृताप्लुतम्॥१०४॥
घतस्यान्तः पचेत्पक्वमग्निवर्णे घटे तम्।
क्षारं गृहीत्वा क्षीराज्यतक्रमद्यादिभिः पिबेत्॥१०५॥
गुल्मोदावर्तवर्ध्मार्शोजठरग्रहणीकृमीन्।
अपस्मारगरोन्मादयोनिशुक्रामयाश्मरीः॥१०६॥
क्षारागदोऽयं शमयेद्विषं चाखुभुजङ्गजम्।
श्लेष्माणं मधुरं स्निग्धं रसक्षीरघृताशिनः॥१०७॥
छित्त्वा भित्त्वाऽऽशयात् क्षारः क्षरत्वात्क्षारयत्यधः।
मन्देऽग्नावरुचौ सात्मयैर्मद्यैः सस्नेहमश्नताम्॥१०८॥
योजयेदासवारिष्टान्निगदान् मार्गशुद्धये।
शालयः षष्टिका जीर्णाः कुलत्था जाङ्गलं फलम्॥१०९॥
चिरिबिल्वाग्नितर्कारीयवानीवरुणाङ्कुराः।
शिग्रुस्तरुणबिल्वानि बालं शुष्कं मूलकम्॥११०॥
बीजपूरकहिङ्ग्वम्लवेतसक्षारदाडिमम्।
व्योषं तक्रं घृतं तैलं भक्तं, पानं तु वारुणी॥१११॥
धान्याम्लं मस्तु तक्रं यवानीबिडचूर्णितम्।
पञ्चमूलश्रृतं वारि जीर्णं मार्द्वीकमेव वा॥११२॥
पिप्पलीपिप्पलीमूलचित्रकाजाजिसैन्धवैः।
सुरा गुल्मं जयत्याशु जगलश्च विमिश्रितः॥११३॥
वमनैर्लङ्घनैः स्वेदैः सर्पिःपानैर्विरेचनैः।
बस्तिक्षारासवारिष्टगुलिकापथ्यभोजनैः॥११४॥
श्लैष्मिको बद्धमूलत्वाद्यदि गुल्मो शाम्यति।
तस्य दाहं हृते रक्ते कुर्यादन्ते शरादिभिः॥११५॥
अथ गुल्मं सपर्यन्तं वाससाऽन्तरितं भिषक्।
नाभिबस्त्यन्त्रहृदयं रोमराजीं वर्जयन्॥११६॥
नातिगाढं परिमृशेच्छरेण ज्वलताऽथवा।
लोहेनारणिकोत्थेन दारुणा तैन्दुकेन वा॥११७॥
ततोऽग्निवेगे शमिते शीतैर्व्रण इव क्रिया।
आमान्वये तु पेयाद्यैः सन्धुष्याग्निं विलङ्घिते॥११८॥
स्वं स्वं कुर्यात्क्रमं मिश्रं मिश्रदोषे कालवित्।
गतप्रसवकालायै नार्यै गुल्मेऽस्रसम्भवे॥११९॥
स्निग्धस्विन्नशरीरायै दद्यात्स्नेहविरेचनम्।
तिलक्वाथो घृतगुडव्योषभार्गीरजोन्वितः॥१२०॥
पानं रक्तभवे गुल्मे नष्टे पुष्पे योषितः।
भार्ङ्गीकृष्णाकरञ्जत्वग्ग्रन्थिकामरदारुजम्॥१२१॥
चूर्णं तिलानां क्वाथेन पीतं गुल्मरुजापहम्।
पलाशक्षारपात्रे द्वे द्वे पात्रे तैलसर्पिषोः॥१२२॥
गुल्मशैथिल्यजननीं पक्त्वा मात्रां प्रयोजयेत्।
प्रभिद्येत यद्येवं दद्याद्योनिविरेचनम्॥१२३॥
क्षारेण युक्तं पललं सुधाक्षीरेण वा ततः।
ताभ्यां वा भावितान्दद्याद्योनौ कटुकमत्स्यकान्॥१२४॥
वराहमत्स्यपित्ताभ्यां नक्तकान् वा सुभावितान्।
किण्वं वा सगुडक्षारं दद्याद्योनौ विशुद्धये॥१२५॥
रक्तपित्तहरं क्षारं लेहयेन्मधुसर्पिषा।
लशुनं मदिरां तीक्ष्णां मत्स्यांश्चास्यै प्रयोजयेत्॥१२६॥
बस्तिं सक्षीरगोमूत्रं सक्षारं दाशमूलिकम्।
अवर्तमाने रुधिरे हितं गुल्मप्रभेदनम्॥१२७॥
यमकाभ्यक्तदेहायाः प्रवृत्ते समुपेक्षणम्।
रसौदनस्तथाऽऽहारः पानं तरुणी सुरा॥१२८॥
रुधिरेऽतिप्रवृत्ते तु रक्तपित्तहराः क्रियाः।
कार्या वातरुगार्तायाः सर्वा वातहराः पुनः॥१२९॥
आनाहादावुदावर्तबलासघ्नो यथायथम्॥१२९ /२॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्ग हृदयसंहितायां चतुर्थे चिकित्सितस्थाने गुल्मचिकित्सितं
नाम चतुर्दशोऽध्यायः॥१४॥