7.अन्नरक्षाध्यायः
अथातोऽन्नरक्षाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः।
राजा राजगृहासन्ने प्राणाचार्यं निवेशयेत्।
सर्वदा स भवत्येवं सर्वत्र प्रतिजागृविः॥१॥
अन्नपानं विषाद्रक्षेद्विशेषेण महीपतेः।
योगक्षेमौ तदायत्तौ धर्माद्या यन्निबन्धनाः॥२॥
ओदनो विषवान् सान्द्रो यात्यविस्त्राव्यतामिव।
चिरेण पच्यते पक्वो भवेत्पर्युषितोपमः॥३॥
मयूरकण्ठतुल्योष्मा मोहमूर्छाप्रसेककृत्।
हीयते वर्णगन्धाद्यैः क्लिद्यते चन्द्रिकाचितः॥४॥
व्यञ्जनान्याशु शुष्यन्ति ध्यामक्वाथानि तत्र च।
हीनाऽतिरिक्ता विकृता छाया दृश्येत नैव वा॥५॥
फेनोर्ध्वराजीसीमन्ततन्तुबुद्बुदसम्भवः।
विच्छिन्नविरसा रागाः खाण्डवाः शाकमामिषम्॥६॥
नीला राजी रसे, ताम्रा क्षीरे, दधनि दृश्यते।
श्यावाऽऽपीतासिता तक्रे, घृते पानीयसन्निभा॥७॥
मस्तुनि स्यात्कपोताभा, राजी कृष्णा तुषोदके।
काली मद्याम्भसोः, क्षौद्रे हरित्तैलेऽरुणोपमा॥८॥
पाकः फलानामामानां पक्वानां परिकोथनम्।
द्रव्याणामार्द्रशुष्काणां स्यातां म्लानिविवर्णते॥९॥
मृदूनां कठिनानां च भवेत्स्पर्शविपर्ययः।
माल्यस्य स्फुटिताग्रत्वं म्लानिर्गन्धान्तरोद्भवः॥१०॥
ध्याममण्डलता वस्त्रे, शदनं तन्तुपक्ष्मणाम्।
धातुमौक्तिककाष्ठाश्मरत्नादिषु मलाक्तता॥११॥
स्नेहस्पर्शप्रभाहानिः सप्रभत्वं तु मृण्मये।
विषदः श्यावशुष्कास्यो विलक्षो वीक्षते दिशः॥१२॥
स्वेदवेपथुमांस्त्रस्तो भीतः स्खलति जृम्भते।
प्राप्यान्नं सविषं त्वग्निरेकावर्तः स्फुटत्यति॥१३॥
शिखिकण्ठाभधूमार्चिरनर्चिर्वोग्रगन्धवान्।
म्रीयन्ते मक्षिकाः प्राश्य काकः क्षामस्वरो भवेत्॥१४॥
उत्क्रोशन्ति च दृष्ट्वैतच्छुकदात्यूहसारिकाः।
हंसः प्रस्खलति, ग्लानिर्जीवञ्जीवस्य जायते॥१५॥
चकोरस्याऽक्षिवैराग्यं, क्रौञ्चस्य स्यान्मदोदयः।
कपोतपरभृद्दक्षचक्रवाका जहत्यसून्॥१६॥
उद्वेगं याति मार्जारः शकृन्मुञ्चति वानरः।
हृष्येन्मयूरस्तदृष्ट्या मन्दतेजो भवेद्विषम्॥१७॥
इत्यन्नं विषवज्ज्ञात्वा त्यजेदेवं प्रयत्नतः।
यथा तेन विपद्येरन्नपि न क्षुद्रजन्तवः॥१८॥
स्पृष्टे तु कण्डूदाहोषाजरार्तिस्फोटसुप्तयः ।
नखरोमच्युतिः शोफः, सेकाद्या विषनाशनाः ॥१९॥
शस्तास्तत्र प्रलेपाश्च सेव्यचन्दनपद्मकैः ।
ससोमवल्कतालीसपत्रकुष्टामृतानतैः ॥२०॥
लाला जिह्वोष्ठयोर्जाड्यमूषा चिमिचिमायनम्।
दन्तहर्षो रसाज्ञत्वं हनुस्तम्भश्च वक्त्रगे॥२१॥
सेव्याद्यैस्तत्र गण्डूषाः सर्वं च विषजिद्धितम्।
आमाशयगते स्वेदमूर्च्छाध्मानमदभ्रमाः॥२२॥
रोमहर्षो वमिर्दाहश्चक्षुर्हृदयरोधनम्।
बिन्दुभिश्चाचयोऽङ्गानां, पक्वाशयगते पुनः॥२३॥
अनेकवर्णं वमति मूत्रयत्यतिसार्यते।
तन्द्रा कृशत्वं पाण्डुत्वमुदरं बलसङ्क्षयः॥२४॥
तयोर्वान्तविरिक्तस्य हरिद्रे कटभीं गुडम्।
सिन्दुवारितनिष्पावबाष्पिकाशतपर्विकाः॥२५॥
तण्डुलीयकमूलानि कुक्कुटाण्डमवल्गुजम्।
नावनाञ्जनपानेषु योजयेद्विषशान्तये॥२६॥
विषभुक्ताय दद्याच्च शुद्धायोर्ध्वमधस्तथा।
सूक्ष्मं ताम्ररजः काले सक्षौद्रं हृद्विशोधनम्॥२७॥
शुद्धे हृदि ततः शाणं हेमचूर्णस्य दापयेत्।
न सज्जते हेमपाङ्गे पद्मपत्रेऽम्बुवद्विषम्॥२८॥
जायते विपुलं चायुर्गरेऽप्येष विधिः स्मृतः।
विरुद्धमपि चाहारं विद्याद्विषगरोपमम्॥२९॥
आनूपमामिषं माषक्षौद्रक्षीरविरूढकैः।
विरुध्यते सह बिसैर्मूलकेन गुडेन वा॥३०॥
विशेषात्पयसा मत्स्या मत्स्येष्वपि चिलीचिमः।
विरुद्धमम्लं पयसा सह सर्वं फलं तथा॥३१॥
तद्वत्कुलत्थवरककङ्गुवल्लमकुष्टकाः।
भक्षयित्वा हरितकं मूलकादि पयस्त्यजेत्॥३२॥
वाराहं श्वाविधा नाद्याद्दध्ना पृषतकुक्कुटौ।
आममांसानि पित्तेन, माषसूपेन मूलकम्॥३३॥
अविं कुसुम्भशाकेन, बिसैः, सह विरूढकम्।
माषसूपगुडक्षीरदध्याज्यैर्लाकुचं फलम्॥३४॥
फलं कदल्यास्तक्रेण दध्ना तालफलेन वा।
कणोषणाभ्यां मधुना काकमाचीं गुडेन वा॥३५॥
सिद्धां वा मत्स्यपचने पचने नागरस्य वा।
सिद्धामन्यत्र वा पात्रे कामात्तामुषितां निशाम्॥३६॥
मत्स्यनिस्तलस्नेहे साधिताः पिप्पलीस्त्यजेत्।
कांस्ये दशाहमुषितं सर्पिरुष्णं त्वरुष्करे॥३७॥
भासो विरुध्यते शूल्यः कम्पिल्लस्तक्रसाधितः।
एकध्यं पायससुराकृशराः प्रिवर्जयेत्॥३८॥
मधुसर्पिर्वसातैलपानीयानि द्विशस्त्रिशः।
एकत्र वा समांशानि विरुध्यन्ते परस्परम्॥३९॥
भिन्नांशे अपि मध्वाज्ये दिव्यवार्यनुपानतः।
मधुपुष्करबीजं च, मधुमैरेयशार्करम्॥४०॥
मन्थानुपानः क्षैरेयो, हारिद्रः कटुतैलवान्।
उपोदकाऽतिसाराय तिलकल्केन साधिता॥४१॥
बलाका वारुणियुक्ता कुल्माषैश्च विरुध्यते।
भृष्टा वराहवसया सैव सद्यो निहन्त्यसून्॥४२॥
तद्वत्तित्तिरिपत्राढ्यगोधालावकपिञ्जलाः।
एरण्डेनाग्निना सिद्धास्तत्तैलेन विमूर्च्छिताः॥४३॥
हारीतमांसं हारिद्रशूलकप्रोतपाचितम्।
हरिद्रावह्निना सद्यो व्यापादयति जीवितम्॥४४॥
भस्मपांशुपरिध्वस्तं तदेव च समाक्षिकम्।
यत्किञ्चिद्दोषमुत्क्लेश्य न हरेत्तत्समासतः॥४५॥
विरुद्धं शुद्धिरत्रेष्टा शमो वा तद्विरोधिभिः।
द्रव्यैस्तैरेव वा पूर्वं शरीरस्याभिसंस्कृतिः॥४६॥
व्यायामस्निग्धदीप्ताग्निवयःस्थबलशालिनाम्।
विरोध्द्यपि न पीडायै सात्म्यमल्पं च भोजनम्॥४७॥
पादेनापथ्यमभ्यस्तं पादपादेन वा त्यजेत्।
निषेवेत हितं तद्वदेकद्वित्र्यन्तरीकृतम्॥४८॥
अपथ्यमपि हि त्यक्तं शीलितं पथ्यमेव वा।
सात्म्यासात्म्यविकाराय जायते सहसाऽन्यथा॥४९॥
क्रमेणापचिता दोषाः क्रमेणोपचिता गुणाः।
सन्तो यान्त्यपुनर्भावमप्रकम्प्या भवन्ति च॥५०॥
अत्यन्तसन्निधानानां दोषाणां दूषणात्मनाम्।
अहितैर्दूषणं भूयो न विद्वान् कर्तुमर्हति॥५१॥
आहारशयनाब्रह्मचर्येर्युक्त्या प्रयोजितैः।
शरीरं धार्यते नित्यमागारमिव धारणैः॥५२॥
आहारो वर्णितस्तत्र तत्र तत्र च वक्ष्यते।
निद्रायत्तं सुखं दुःखं पुष्टिः कार्श्यं बलाबलम्॥५३॥
वृषता क्लीबता ज्ञानमज्ञानं जीवितं न च।
अकालेऽतिप्रसङ्गाच्च न च निद्रा निषेविता॥५४॥
सुखायुषी पराकुर्यात् कालरात्रिरिवापरा।
रात्रौ जागरणं रूक्षं, स्निग्धं प्रस्वपनं दिवा॥५५॥
अरूक्षमनभिष्यन्दि त्वासीनप्रचलायितम्।
ग्रीष्मे वायुचयादानरौक्ष्यरात्र्यल्पभावतः॥५६॥
दिवास्वप्नो हितोऽन्यस्मिन् कफपित्तकरो हि सः।
मुक्त्वा तु भाष्ययानाध्वमद्यस्त्रीभारकर्मभिः॥५७॥
क्रोधशोकभयैः क्लान्तान् श्वासहिध्मातिसारिणः।
वृद्धबालाबलक्षीणक्षततृट्शूलपीडितान्॥५८॥
अजीर्ण्यभिहतोन्मत्तान् दिवास्वप्नोचितानपि।
धातुसाम्यं तथा ह्येषां श्लेष्मा चाङ्गानि पुष्यति॥५९॥
बहुमेदःकफाः स्वप्युः स्नेहनित्याश्च नाहनि।
विषार्तः कण्ठरोगी च नैव जातु निशास्वपि॥६०॥
अकालशयनान्मोहज्वरस्तैमित्यपीनसाः।
शिरोरुक्शोफहृल्लासस्रोतोरोधाग्निमन्दताः॥६१॥
तत्रोपवासवमनस्वेदनावनमौषधम्।
योजयेदतिनिद्रायां तीक्ष्णं प्रच्छर्दनाञ्जनम्॥६२॥
नावनं लङ्घनं चिन्तां व्यवायं शोकभीक्रुधः।
एभिरेव च निद्राया नाशः श्लेष्मातिसङ्क्षयात्॥६३॥
निद्रानाशादङ्गमर्दशिरोगौरवजृम्भिकाः।
जाड्यग्लानिभ्रमापक्तितन्द्रा रोगाश्च वातजाः॥६४॥
यथाकालमतो निद्रां रात्रौ सेवेत सात्म्यतः।
असात्म्याज्जागरादर्धं प्रातः स्वप्यादभुक्तवान्॥६५॥
शीलयेन्मन्दनिद्रस्तु क्षीरमद्यरसान् दधि।
अभ्यङ्गोद्वर्तनस्नानमूर्धकर्णाक्षितर्पणम्॥६६॥
कान्ताबाहुलताश्लेषो निर्वृतिः कृतकृत्यता।
मनोऽनुकूला विषयाः कामं निद्रासुखप्रदाः॥६७॥
ब्रह्मचर्यरतेर्ग्राम्यसुखनिःस्पृहचेतसः।
निद्रा सन्तोषतृप्तस्य स्वं काले नातिवर्तते॥६८॥
ग्राम्यधर्मे त्यजेन्नारीमनुत्तानां रजस्वलाम्।
अप्रियामप्रियाचारां दुष्टसङ्कीर्णमेहनाम्॥६९॥
अतिस्थूलकृशां सूतां गर्भिणीमन्ययोषितम्।
वर्णिनीमन्ययोनिं च गुरुदेवनृपालयम्॥७०॥
चैत्यश्मशानाऽऽयतनचत्वराम्बुचतुष्पथम्।
पर्वाण्यनङ्ह्गं दिवसं शिरोहृदयताडनम्॥७१॥
अत्याशितोऽधृतिः क्षुद्वान् दुःस्थिताङ्गः पिपासितः।
बालो वृद्धोऽन्यवेगार्तस्त्यजेद्रोगी च मैथुनम्॥७२॥
सेवेत कामतः कामं तृप्तो वाजीकृतां हिमे।
त्र्यहाद्वसन्तशरदोः पक्षाद्वर्षानिदाघयोः॥७३॥
भ्रमक्लमोरुदौर्बल्यबलधात्विन्द्रियक्षयाः।
अपर्वमरणं च स्यादन्यथा गच्छतः स्त्रियम्॥७४॥
स्मृतिमेधायुरारोग्यपुष्टीन्द्रिययशोबलैः।
अधिका मन्दजरसो भवन्ति स्त्रीषु संयताः॥७५॥
स्नानानुलेपनहिमानिलखण्डखाद्य शीताम्बुदुग्धरसयूषसुराप्रसन्नाः।
सेवेत चानु शयनं विरतौ रतस्य तस्यैवमाशु वपुषः पुनरेति धाम॥७६॥
श्रुतचरितसमृद्धे कर्मदक्षे दयालौ भिषजि निरनुबन्धं देहरक्षां निवेश्य।
भवति विपुलतेजःस्वास्थ्यकीर्तिप्रभावः स्वकुशलफलभोगी भूमिपालश्चिरायुः॥७७॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्ग
हृदयसंहितायां सूत्रस्थानेऽन्नरक्षा नाम सप्तमोऽध्यायः॥७॥