30.क्षाराग्निकर्मविधिरध्यायः
अथातः क्षाराग्निकर्मविधिमध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः।
सर्वशस्त्रानुशस्त्राणां क्षारः श्रेष्ठो बहूनि यत्।
छेद्यभेद्यादिकर्माणि कुरुते विषमेष्वपि॥१॥
दुःखावचार्यशस्त्रेषु तेन सिद्धिमयात्सु च।
अतिकृच्छ्रेषु रोगेषु यच्च पानेऽपि युज्यते॥२॥
स पेयोऽर्शोग्निसादाश्मगुल्मोदरगरादिषु।
योज्यः साक्षान्मषश्वित्रबाह्यार्शःकुष्ठसुप्तिषु॥३॥
भगन्दरार्बुदग्रन्थिदुष्टनाडीव्रणादिषु।
न तूभयोऽपि योक्तव्यः पित्ते रक्ते चलेऽबले॥४॥
ज्वरेऽतिसारे हन्मूर्धरोगे पाण्ड्वामयेऽरुचौ।
तिमिरे कृतसंशुद्द्धौ श्वयथौ सर्वगात्रगे॥५॥
भीरुगर्भिण्यृतुमतीप्रोद्वृत्तफलयोनिषु।
अजीर्णेऽन्ने शिशौ वृद्धे धमनीसन्धिमर्मसु॥६॥
तरुणास्थिसिरास्नायुसेवनीगलनाभिषु।
देशेऽल्पमांसे वृषणमेढ्रस्रोतोनखान्तरे॥७॥
वर्त्मरोगादृतेऽक्ष्णोश्च शीतवर्षोष्णदुर्दिने।
कालमुष्ककशम्याककदलीपारिभद्रकान्॥८॥
अश्वकर्णमहावृक्षपलाशास्फोतवृक्षकान्।
इन्द्रवृक्षार्कपूतीकनक्तमालाश्वमारकान्॥९॥
काकजङ्घामपामार्गमग्निमन्थाग्नितिल्वकान्।
सार्द्रान् समूलशाखादीन् खण्डशः पतिकल्पितान्॥१०॥
कोशातकीश्चतस्रश्च शूकं नालं यवस्य च।
निवाते निचयीकृत्य पृथक् तानि शिलातले॥११॥
प्रक्षिप्य मुष्ककचये सुधाश्मानि च दीपयेत्।
ततस्तिलानां कुतलैर्दग्ध्वाऽग्नौ विगते पृथक्॥१२॥
कृत्वा सुधाश्मनां भस्म द्रोणं त्वितरभस्मनः।
मुष्ककोत्तरमादाय प्रत्येकं जलमूत्रयोः॥१३॥
गालयेदर्धभारेण महता वाससा च तत्।
यावत्पिच्छिलरक्ताच्छस्तीक्ष्णो जातस्तदा च तम्॥१४॥
गृहीत्वा क्षारनिष्यन्दं पचेल्लौह्यां विघट्टयन्।
पच्यमाने ततस्तस्मिंस्ताः सुधाभस्मशर्कराः॥१५॥
शुक्तीः क्षीरपकं शङ्खानाभीश्चायसभाजने।
कृत्वाऽग्निवर्णान्बहुशः क्षारोत्थे कुडवोन्मिते॥१६॥
निर्वाप्य पिष्ट्वा तेनैव प्रतीवापं विनिक्षिपेत्।
श्लक्ष्णं शकृद्दृक्षशिखिगृध्रकङ्ककपोतजम्॥१७॥
चतुष्पात्पक्षिपित्तालमनोह्वालवणानि च।
परितः सुतरां चातो दर्व्या तमवघट्टयेत्॥१८॥
सबाष्पैश्च यदोत्तिष्ठेद्बुद्बुदैर्लेहवद्धनः।
अवतार्य तदा शीतो यवराशावयोमये॥१९॥
स्थाप्योऽयं मध्यमः क्षारो न तु पिष्ट्वा क्षिपेन्मृदौ।
निर्वाप्यापनयेत्तीक्ष्णे पूर्ववत् प्रतिवापनम्॥२०॥
तथा लाङ्गलिकादन्तिचित्रकातिविषावचाः।
स्वर्जिकाकनकक्षीरिहिङ्गुपूतीकपल्लवाः॥२१॥
तालपत्री बिडं चेति, सप्तरात्रात्परं तु सः।
योज्यः तीक्ष्णोऽनिलश्लेष्ममेदोजेष्वर्बुदादिषु॥२२॥
मध्येष्वेष्वेव मध्योऽन्यः पित्तास्रगुदजन्मसु।
बलार्थं क्षीणपानीये क्षाराम्बु पुनरावपेत्॥२३॥
नातितीक्ष्णमृदुः श्लक्ष्णः पिच्छिलः शीघ्रगः सितः।
शिखरी सुखनिर्वाप्यो न विष्यन्दी न चातिरुक्॥२४॥
क्षारो दशगुणः शस्त्रतेजसोरपि कर्मकृत्।
आचूषन्निव संरम्भाद्गात्रमापीडयन्निव॥२५॥
सर्वतोऽनुसरन् दोषानुन्मूलयति मूलतः।
कर्म कृत्वा गतरुजः स्वयमेवोपशाम्यति॥२६॥
क्षारसाध्ये गदे छिन्ने लिखिते स्रावितेऽथवा।
क्षारं शलाकया दत्त्वा प्लोतप्रावृतदेहया॥२७॥
मात्राशतमुपेक्षेत तत्रार्शःस्वावृताननम्।
हस्तेन यन्त्रं कुर्वीत वर्त्मरोगेषु वर्त्मनी॥२८॥
निर्भुज्य पिचुनाऽऽच्छाद्य कृष्णभागं विनिक्षिपेत्।
पद्मपत्रतनुः क्षारलेपो, घ्राणार्बुदेषु च॥२९॥
प्रत्यादित्यं निषण्णस्य समुन्नम्याग्रनासिकाम्।
मात्रा विधार्यः पञ्चाशत् तद्वदर्शसि कर्णजे॥३०॥
क्षारं प्रमार्जनेनानु परिमृज्यावगम्य च।
सुदग्धं घृतमध्वक्तं तत्पयोमस्तुकाञ्जिकैः॥३१॥
निर्वापयेत्ततः साज्यैः स्वादुशीतैः प्रदेहयेत्।
अभिष्यन्दीनि भोज्यानि क्लेदनाय च॥३२॥
यदि च स्थिरमूलत्वात्क्षारदग्धं न शीर्यते।
धान्याम्लबीजयष्ट्याह्वतिलैरालेपयेत्ततः॥३३॥
तिलकल्कः समधुको घृताक्तो व्रणरोपणः।
पक्वजम्ब्वसितं सन्नं सम्यग्दग्धम् विपर्यये॥३४॥
ताम्रतातोदकण्ड्वाद्यैर्दुर्दग्धम् तं पुनर्दहेत्।
अतिदग्धे स्रवेद्रक्तं मूर्च्छादाहज्वरादयः॥३५॥
गुदे विशेषाद्विण्मूत्रसंरोधोऽतिप्रवर्तनम्।
पुंस्त्वोपघातो मृत्युर्वा गुदस्य शातनाद्ध्रुवम्॥३६॥
नासायां नासिकावंशदरणाकुञ्चनोद्भावः।
भवेच्च विषयाज्ञानम् तद्वच्छ्रोत्रादिकेष्वपि॥३७॥
विशेषादत्र सेकोऽम्लैर्लेपो मधु घृतं तिलाः।
वातपित्तहरा चेष्टा सर्वैव शिशिरा क्रिया॥३८॥
अम्लो हि शीतः स्पर्शेन क्षारस्तेनोपसंहितः।
यात्याशु स्वादुतां तस्मादम्लैर्निर्वापयेत्तराम्॥३९॥
(विषग्निशस्त्राशनिमृत्युतुल्यः क्षारो भवेदल्पमतिप्रयुक्तः।
स धीमता सम्यगनुप्रयुक्तो रोगान्निहन्यादिचिरेण घोरान्॥१॥)
अग्निः क्षारादपि श्रेष्ठस्तद्दग्धानामसम्भवात्।
भेषजक्षारशस्त्रैश्च न सिद्धानां प्रसाधनात्॥४०॥
त्वचि मांसे सिरास्नायुसन्ध्यस्थिषु स युज्यते।
मषाङ्गग्लानिमूर्धार्तिमन्थकीलतिलादिषु॥४१॥
त्वग्दाहो वर्तिगोदन्तसूर्यकान्तशरादिभिः।
अर्शोभगन्दरग्रन्थिनाडीदुष्टव्रणादिषु॥४२॥
मांसदाहो मधुस्नेहजाम्बवौष्ठगुडादिभिः।
श्लिष्टवर्त्मन्यसृक्स्रावनील्यसम्यग्व्यधादिषु॥४३॥
सिरादिदाहस्तैरेव न दहेत्क्षारवारितान्।
अन्तःशल्यासृजो भिन्नकोष्ठान् भूरिव्रणातुरान्॥४४॥
सुदग्धं घृतमध्वक्तं स्निग्धशीतैः प्रदेहयेत्।
तस्य लिङ्गं स्थिते रक्ते शब्दवल्लसिकान्वितम्॥४५॥
पक्वतालकपोताभं सुरोहं नातिवेदनम्।
प्रमाददग्धवत्सर्वं दुर्दग्धात्यर्थदग्धयोः॥४६॥
चतुर्धा तत्तु तुच्छेन सह तुछस्य लक्षणम्।
त्वग्विवर्णाष्यतेऽत्यर्थं न च स्फोटसमुद्भवः॥४७॥
सस्फोटदाहतीव्रोषं दुर्दग्धम् अतिदाहतः।
मांसलम्बनसङ्कोचदाहधूपनवेदनाः॥४८॥
सिरादिनाशस्तृण्मूर्च्छाव्रणगाम्भीर्यमृत्यवः।
तुच्छस्याग्निप्रतपनं कार्यमुष्णं च भेषजम्॥४९॥
स्त्यानेऽस्त्रे वेदनाऽत्यर्थं विलीने मन्दता रुजः।
दुर्दग्धे शीतमुष्णं च युञ्ज्यादादौ ततो हिमम्॥५०॥
सम्यग्दग्धे तवक्षीरिप्लक्षचन्दनगैरिकैः।
लिम्पेत्साज्यामृतैरूर्ध्वं पित्तविद्रधिवत्क्रिया॥५१॥
अतिदग्धे द्रुतं कुर्यात्सर्वं पित्तविसर्पवत्।
स्नेहदग्धे भृशतरं रूक्षं तत्र तु योजयेत्॥५२॥
(शस्त्रक्षाराग्नयो यस्मान्मृत्योः परममायुधम्।
अप्रमत्तो भिषक् तस्मात्तान् सम्यगवचारयेत्॥१॥)
समाप्यते स्थानमिदं हृदयस्य रहस्यवत्।
अत्रार्थाः सूत्रिताः सूक्ष्माः प्रतन्यन्ते हि सर्वतः॥५३॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता-
यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने क्षाराग्निकर्मविधिर्नाम त्रिंशत्तमोऽध्यायः॥३०॥