28.शल्याहरणविधिरध्यायः
अथातः शल्याहरणविधिमध्यायं व्याख़्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः।
वक्रर्जुतिर्यगूर्ध्वाधः शल्यानां पञ्चधा गतिः।
ध्यामं शोफरुजावन्तं स्रवन्तं शोणितं मुहुः॥१॥
अभ्युद्गतं बुद्बुधवत्पिटिकोपचितं व्रणम्।
मृदुमांसं च जानीयादन्तःशल्यं समासतः॥२॥
विशेषात्त्वग्गते शल्ये विवर्णः कठिनायतः।
शोफो भवति मांसस्थे चोषः शोफो विवर्द्धते॥३॥
पीडनाक्षमता पाकः शल्यमार्गो न रोहति।
पेश्यन्तरगते मांसप्राप्तवच्छ्वयथुं विना॥४॥
आक्षेपः स्नायुजालस्य संरम्भस्तम्भवेदनाः।
स्नायुगे दुर्हरं चैतत् सिराध्मानं सिराश्रिते॥५॥
स्वकर्मगुणहानिः स्यात्स्रोतसां स्रोतसि स्थिते।
धमनीस्थेऽनिलो रक्तं फेनयुक्तमुदीरयेत्॥६॥
निर्याति शब्दवान् स्याच्च हृल्लासः साङ्गवेदनः।
सङ्घर्षो बलवानस्थिसन्धिप्राप्तेऽस्थिपूर्णता॥७॥
नैकरूपा रुजोऽस्थिस्थे शोफः तद्वच्च सन्धिगे।
चैष्टानिवृत्तिश्च भवेत् आटोपः कोष्ठसंश्रिते॥८॥
आनाहोऽन्नशकृन्मूत्रदर्शनं च व्रणानने।
विद्यान्मर्मगतं शल्यं मर्मविद्धोपलक्षणैः॥९॥
यथास्वं च परिस्रावैस्त्वगादिषु विभावयेत्।
रुह्यते शुद्धदेहानामनुलोमस्थितं तु तत्॥१०॥
दोषकोपाभिघातादिक्षोभाद्भूयोऽपि बाधते।
त्वङ्नष्टे यत्र तत्र स्युरभ्यङ्गस्वेदमर्दनैः॥११॥
रागरुग्दाहसंरम्भा यत्र चाज्यं विलीयते।
आशु शुष्यति लेपो वा तत्स्थानं शल्यवद्वदेत्॥१२॥
मांसप्रणष्टं संशुद्ध्या कर्शनाच्छ्लतता गतम्।
क्षोभाद्रागादिभिः शल्यं लक्षयेत् तद्वदेव च॥१३॥
पेश्यस्थिसन्धिकोष्ठेषु नष्टम् अस्थिषु लक्षयेत्।
अस्थ्नामभ्यञ्जनस्वेदबन्धपीडनमर्दनैः॥१४॥
प्रसारणाकुञ्चनतः सन्धिनष्टं तथाऽस्थिवत्।
नष्टे स्नायुशिरास्रोतोधमनीष्वसमे पथि॥१५॥
अश्वयुक्तं रथं ख़ण्डचक्रमारोप्य रोगिणम्।
शीघ्रं नयेत्ततस्तस्य संरम्भाच्छल्यमादिशेत्॥१६॥
मर्मनष्टं पृथङ्नोक्तं तेषां मांसादिसंश्रयात्।
सामान्येन सशल्यं तु क्षोभिण्य क्रियया सरुक्॥१७॥
वृत्तं पृथु चतुष्कोणं त्रिपुटं च समासतः।
अदृश्यशल्यसंस्थानं व्रणाकृत्या विभावयेत्॥१८॥
तेषामाहरणोपायौ प्रतिलोमानुलोमकौ।
अर्वाचीनपराचीने निर्हरेत्ताद्विपर्ययात्॥१९॥
सुख़ाहार्यं यतश्छित्त्वा ततस्तिर्यग्गतं हरेत्।
शल्यं न निर्घात्यमुरःकक्षावङ्क्षणपार्श्वगम्॥२०॥
प्रतिलोममनुत्तुण्डं छेद्यं पृथुमुखं च यत्।
नैवाहरेद्विशल्यघ्नं नष्टं वा निरुपद्रवम्॥२१॥
अथाहरेत्करप्राप्यं करेणैव इतरत्पुनः।
दृश्यं सिंहाहिमकरवर्मिकर्कटकाननैः॥२२॥
अदृश्यं व्रणसंस्थानाद्ग्रहीतुं शक्यते यतः।
कङ्कभृङाह्वकुररशरारीवायसाननैः॥२३॥
सन्दंशाभ्यां त्वगादिस्थम् तालाभ्यां सुषिरं हरेत्।
सुषिरस्थं तु नलकैः शेषं शेषैर्यथायथम्॥२४॥
शस्त्रेण वा विशस्यादौ ततो निर्लोहितं व्रणम्।
कृत्वा घृतेन संस्वेद्य बद्धाऽऽचारिकमादिशेत्॥२५॥
सिरास्नायुविलग्नं तु चालयित्वा शलाकया।
हृदये संस्थितं शल्यं त्रासितस्य हिमाम्बुना॥२६॥
ततः स्थानान्तरं प्राप्तमाहरेत्तद्यथायथम्।
यथामार्गं दुराकर्षम् अन्यतोऽप्येवमाहरेत्॥२७॥
अस्थिदष्टे नरं पद्भ्यां पीडयित्वा विनिर्हरेत्।
इत्यशक्ये सुबलिभिः सुगृहीतस्य किङ्करैः॥२८॥
तथाऽप्यशक्ये वारङ्गं वक्रीकृत्य धनुर्ज्यया।
सुबद्धं वक्त्रकटके बध्नीयात्सुसमाहितः॥२९॥
सुसंयतस्य पञ्चाङ्ग्या वाजिनः कशयाऽथ तम्।
ताडयेदिति मूर्धानं वेगेनोन्नमयन् यथा॥३०॥
उद्धरेच्छल्यम् एवं वा शाख़ायां कल्पयेत्तरोः।
बद्धा दुर्बलवारङ्गं कुशाभिः शल्यमाहरेत्॥३१॥
श्वयथुग्रस्तवारङ्गं शोफमुत्पीड्य युक्तितः।
मुद्गराहतया नाड्या निर्घात्योत्तुण्डितं हरेत्॥३२॥
तैरेव चानयेन्मार्गममार्गोत्तुण्डितं तु यत्।
मृदित्वा कर्णिनां कर्णं नाड्यास्येन निगृह्य वा॥३३॥
अयस्कान्तेन निष्कर्णं विवृतास्यमृजुस्थितम्।
पक्वाशयगतं शल्यं विरेकेण विनिर्हरेत्॥३४॥
दुष्टवातविषस्तन्यरक्ततोयादि चूषणैः।
कण्ठस्रोतोगते शल्ये सूत्रं कण्ठे प्रवेशयेत्॥३५॥
बिसेनात्ते ततः शल्ये बिसं सूत्रं समं हरेत्।
नाड्याऽग्नितापितां क्षिप्त्वा शलाकामप्स्थिरीकृताम्॥३६॥
आनयेज्जातुषं कण्ठात् जतुदिग्धामजातुषम्।
केशोन्दुकेन पीतेन द्रवैः कण्टकमाक्षिपेत्॥३७॥
सहसा सूत्रबद्धेन वमतः तेन चेतरत्।
अशक्यं मुखनासाभ्यामाहर्तुं परतो नुदेत्॥३८॥
अप्पानस्कन्धघाताभ्यां ग्रासशल्यं प्रवेशयेत्।
सूक्ष्माक्षिव्रणशल्यानि क्षौमवालजलैर्हरेत्॥३९॥
अपां पूर्णं विधुनुयादवाक्शिरसमायतम्।
वामयेच्चामुख़ं भस्मराशौ वा निखनेन्नरम्॥४०॥
कर्णेऽम्बुपूर्णे हस्तेन मथित्वा तैलवारिणी।
क्षिपेदधोमुख़ं कर्णं हन्याद्वाऽऽचूषयेत वा॥४१॥
कीटे स्रोतोगते कर्णं पूरयेल्लवणाम्बुना।
सुक्तेन वा सुख़ोष्णेन मृते क्लेदहरो विधिः॥४२॥
जातुषं हेमरूप्यादिधातुजं च चिरस्थितम्।
ऊष्मणा प्रायशः शल्यं देहजेन विलीयते॥४३॥
मृद्वेणुदारुशृङ्गास्थिदन्तवालोपलानि न।
विषाणवेण्वयस्तालदारुशल्यं चिरादपि॥४४॥
प्रायो निर्भुज्यते तद्धि पचत्याशु पलासृजी।
शल्ये मांसावगाढे चेत्स देशो न विदह्यते॥४५॥
ततस्तं मर्दनस्वेदशुद्धिकर्षणबृंहणैः।
तीक्ष्णोपनाहपानान्नघनशस्त्रपदाङ्कनैः॥४६॥
पाचयित्वा हरेच्छल्यं पाटनैषणमेदनैः।
शल्यप्रदेशयन्त्राणामवेक्ष्य बहुरूपताम्॥४७॥
तैस्तैरुपायैर्मतिमान् शल्यं विद्यात्तथाऽऽहरेत्॥४७ १/२॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने शल्याहरणविधिर्नामाष्टाविंशोऽध्यायः॥२८॥