25.यन्त्रविधिरध्यायः
अथातो यन्त्रविधिमध्यायं व्याख्यास्यामः।
इति स स्मादुरात्रेयादयो महर्षयः।
नानाविधानां शल्यानां नानादेशप्रबाधिनाम्।
आहर्तुमभ्युपायो यस्तद्यन्त्रं यच्च दर्शने॥१॥
अर्शोभगन्दरादीनां शस्त्रक्षाराग्नियोजने।
शेषाङ्गपरिरक्षायां तथा बस्त्यादिकर्मणि॥२॥
घटिकालाबुशृङ्गं च जाम्बवौष्ठादिकानि च।
अनेकरूपकार्याणि यन्त्राणि विविधान्यतः॥३॥
विकल्प्य कल्पयेद्बुद्ध्या यथास्थूलं तु वक्ष्यते।
तुल्यानि कङ्कसिंहर्क्षकाकादिमृगपक्षिणाम्॥४॥
मुखैर्मुखानि यन्त्राणां कुर्यात्तत्संज्ञकानि च।
अष्टादशाङ्गुलायामान्यायसानि च भूरिशः॥५॥
मसूराकारपर्यन्तैः कण्ठे बद्धानि कीलकैः।
विद्यात्स्वस्तिकयन्त्राणि मूलेऽङ्कुशनतानि च॥६॥
तैर्दृढैरस्थिसंलग्नशल्याहरणमिष्यते।
कीलबद्धविमुक्ताग्रौ सन्दंशौ षोडशाङ्गुलौ॥७॥
त्वक्शिरास्नायुपिशितलग्नशल्यापकर्षणौ।
षडङ्गुलोऽन्यो हरणे सूक्ष्मशल्योपपक्ष्मणाम्॥८॥
मुचुण्डी सूक्ष्मदन्तर्जुर्मूले रुचकभूषणा।
गम्भीरव्रणमांसानामर्मणः शेषितस्य च॥९॥
द्वे द्वादशाङ्गुले मत्स्यतालवत् द्व्येकलालके।
तालयन्त्रे स्मृते कर्णनाडीशल्यापहारिणी॥१०॥
नाडीयन्त्राणि सुषिराण्येकानेकमुखानि च।
स्रोतोगतानां शल्यानामामयानां च दर्शने॥११॥
क्रियाणां सुकरत्वाय कुर्यादाचूषणाय च।
तद्विस्तारपरीणाहदैर्घ्यं स्रोतोनुरोधतः॥१२॥
दशाङ्गुलाऽर्धनाहाऽन्तःकण्ठशल्यावलोकिनी।
नाडी पञ्चमुखच्छिद्रा चतुष्कर्णस्य सङ्ग्रहे॥१३॥
वारङ्गस्य, द्विकर्णस्य त्रिच्छिद्रा तत्प्रमाणतः।
वारङ्गकर्णसंस्थानानाहदैर्घ्यानुरोधतः॥१४॥
नाडीरेवंविधाश्चान्या द्रष्टुं शल्यानि कारयेत्।
पद्मकर्णिकया मूर्ध्नि सदृशी द्वादशाङ्गुला॥१५॥
चतुर्थसुषिरा नाडी शल्यनिर्घातिनी मता।
अर्शसां गोस्तनाकारं यन्त्रकं चतुरङ्गुलम्॥१६॥
नाहे पञ्चाङ्गुलं पुंसां प्रमदानां षडङ्गुलम्।
द्विच्छिद्रं दर्शने व्याधेरेकच्छिद्रं तु कर्मणि॥१७॥
मध्येऽस्य त्र्यङ्गुलं छिद्रमङ्गुष्ठोदरविस्तृतम्।
अर्धाङ्गुलोच्छ्रितोद्वृत्तकर्णिकं च तदूर्ध्वतः॥१८॥
शम्याख्यं तादृगच्छिद्रं यन्त्रमर्शःप्रपीडनम्।
सर्वथाऽपनयेदोष्ठं छिद्रादूर्ध्वं भगन्दरे॥१९॥
घ्राणार्बुदार्शसामेकच्छिद्रा नाड्यङ्गुलद्वया।
प्रदेशिनीपरीणाहा स्याद्भगन्दरयन्त्रवत्॥२०॥
अङ्गुलित्राणकं दान्तं वार्क्षं वा चतुरङ्गुलम्।
द्विच्छिद्रं गोस्तनाकारं तद्वक्त्रविवृतौ सुखम्॥२१॥
योनिव्रणेक्षणं मध्ये सुषिरं षोडशाङ्गुलम्।
मुद्राबद्धं चतुर्भित्तमम्भोजमुकुलाननम्॥२२॥
चतुःशलाकमाक्रान्तं मूले तद्विकसेन्मुखे।
यन्त्रे नाडीव्रणाभ्यङ्गक्षालनाय षडङ्गुले॥२३॥
बस्तियन्त्राकृती मूले मुखेऽङ्गुष्ठकलायखे।
अग्रतोऽकर्णिके मूले निबद्धमृदुचर्मणी॥२४॥
द्विदारा नलिका पिच्छनलिका वोदकोदरे।
धूमबस्त्यादियन्त्राणि निर्दिष्टानि यथायथम्॥२५॥
त्र्यङ्गुलास्यं भवेच्छृङ्गं चूषणेऽष्टादशाङ्गुलम्।
अग्रे सिद्धार्थकच्छिद्रं सुनद्धं चूचुकाकृति॥२६॥
स्याद्वादशाङ्गुलोऽलाबुर्नाहे त्वष्टादशाङ्गुलः।
चतुस्त्र्यङ्गुलवृत्तास्यो दीप्तोऽन्तः श्लेष्मरक्तहृत्॥२७॥
तद्वद्घटी हिता गुल्मविलयोन्नमने च सा।
शलाकाख्यानि यन्त्राणि नानाकर्माकृतीनि च॥२८॥
यथायोगप्रमाणानि तेषामेषणकर्मणी।
उभे गण्डूपदमुखे स्रोतोभ्यः शल्यहारिणी॥२९॥
मसूरदलवक्त्रे द्वे स्यातामष्टनवाङ्गुले।
शङ्कवः षट् उभौ तेषां षोडशद्वादशाङ्गुलौ॥३०॥
व्यूहनेऽहिफाणावक्त्रौ द्वौ दशद्वादशाङ्गुलौ।
चालने शरपुङ्खास्यौ आहार्ये बडिशाकृती॥३१॥
नतोऽग्रे शङ्कुना तुल्यो गर्भशङ्कुरिति स्मृतः।
आष्टाङ्गुलायतस्तेन मूढगर्भं हरेत् स्त्रियाः॥३२॥
अश्मर्याहरणं सर्पफाणावद्वक्त्रमग्रतः।
शरपुङ्खमुखं दन्तपातनं चतुरङ्गुलम्॥३३॥
कार्पासविहितोष्णीषाः शलाकाः षट् प्रमार्जने।
पायावासन्नदूरार्थे द्वे दशद्वादशाङ्गुले॥३४॥
द्वे षट्सप्ताङ्गुले घ्राणे, द्वे कर्णेऽष्टनवाङुले।
कर्णशोधनमश्वत्थपत्रप्रान्तं स्रुवाननम्॥३५॥
शलाकाजाम्बवौष्ठानां क्षारेऽग्नौ च पृथक् त्रयम्।
युञ्ज्यात् स्थूलाणुदीर्घाणां शलाकामन्त्रवर्ध्मनि॥३६॥
मध्योर्ध्ववृत्तदण्डां च मूले चार्धेन्दुसन्निभाम्।
कोलास्थिदलतुल्यास्या नासार्शोर्बुददाहकृत्॥३७॥
अष्टाङ्गुला निम्नमुखास्तिस्रः क्षारौषधक्रमे।
कनीनीमध्यमानामीनखमानसमैर्मुखैः॥३८॥
स्वंस्वमुक्तानि यन्त्राणि मेढ्रशुद्ध्यञ्जनादिषु।
अनुयन्त्राण्ययस्कान्तरज्जुवस्त्राश्ममुद्गराः॥३९॥
वध्रान्त्रजिह्वाबालाश्च शाखानखमुखद्विजाः।
कालः पाकः करः पादो भयं हर्षश्च, तत्क्रियाः॥४०॥
उपायवित्प्रविभजेदालोच्य निपुणं धिया॥४०१/२॥
निर्घातनोन्मथनपूरणमार्गशुद्धि संव्यूहनाहरणबन्धनपीडनानि।
आचूषणोन्नमननामनचालभङ्ग व्यावर्तनर्जुकरणानि च यन्त्रकर्म॥४११/२॥
विवर्तते साध्ववगाहते च ग्राह्यं गृहीत्वोद्धरते च यस्मात्।
यन्त्रेष्वतः कङ्कमुखं प्रधानं स्थानेषु सर्वेष्वधिकारि यच्च॥४२ १/२॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने यन्त्रविधिर्नाम पञ्चविंशतितमोऽध्यायः॥२५॥