23.आश्चोतनाञ्जनविधिरध्यायः
अथात आश्चोतनाञ्जनविधिमध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः।
सर्वेषामक्षिरोगाणामादावाश्चोतनं हितम्।
रुक्तोदकण्डूघर्षाश्रुदाहरागनिवर्हणम्॥१॥
उष्णं बाते, कफे कोष्णं, तच्छीतं रक्तपित्तयोः।
निवातस्थस्य वामेन पाणिनोन्मील्य लोचनम्॥२॥
शुक्तौ प्रलम्बयाऽन्येन पिचुवर्त्या कनीनिके।
दश द्वादश वा बिन्दून् द्व्यङ्गुलादवसेचयेत्॥३॥
ततः प्रमृज्य मृदुना चैलेन, कफवातयोः।
अन्येन कोष्णपानीयप्लुतेन स्वेदयेन्मृदु॥४॥
अत्युष्णतीक्ष्णं रूग्रागदृङ्नाशायाक्षिसेचनम्।
अतिशीतं तु कुरुते निस्तोदस्तम्भवेदनाः॥५॥
काषायवर्त्मतां घर्षं कृच्छ्रादुन्मेषणं बहु।
विकारवृद्धिमत्यल्पं संरम्भमपरिस्रुतम्॥६॥
गत्वा सन्धिशितोघ्राणमुखस्रोतांसि भेषजम्।
ऊर्ध्वगान्नयने न्यस्तमपवर्तयते मलान्॥७॥
अथाञ्जनं शुद्धतनोर्नेत्रमात्राश्रये मले।
पक्वलिङ्गेऽल्पशोफातिकण्डूपैच्छिल्यलक्षिते॥८॥
मन्दघर्षाश्रुरागेऽक्षिण प्रयोज्यं घनदूषिके।
आर्ति पित्तकफासृग्भिर्मारुतेन विशेषतः॥९॥
लेखनं रोपणं दृष्टिप्रसादनमिति त्रिधा।
अञ्जनम् लेखनं तत्र कषायाम्लपटूषणैः॥१०॥
लेखनं तत्र कषायाम्लपटूषणैः॥१०॥
रोपणं तिक्तकैर्द्रव्यैः स्वादुशीतैः प्रसादनम्।
तीक्ष्णाञ्जनाभिसन्तप्ते नयने तत्प्रसादनम्॥११॥
प्रयुज्यमानं लभते प्रत्यञ्जनसमाह्वयम्।
दशाङ्गुला तनुर्मध्ये शलाका मुकुलानना॥१२॥
प्रशस्ता, लेखने ताम्री, रोपणे काललोहजा।
अङ्गुली च, सुवर्णोत्था रूप्यजा च प्रसादने॥१३॥
पिण्डो रसक्रिया चूर्णस्त्रिधैवाञ्जनकल्पना।
गुरौ मध्ये लघौ दोषे तां क्रमेण प्रयोजयेत्॥१४॥
हरेणुमात्रा पिण्डस्य वेल्लमात्रा रसक्रिया।
तीक्ष्णस्य, द्विगुणं तस्य मृदुनः चूर्णितस्य च॥१५॥
द्वे शलाके तु तीक्ष्ण्स्य, तिस्रस्तदितरस्य च।
निशि स्वप्ने न मध्याह्ने म्लाने नोष्णगभस्तिभिः॥१६॥
अक्षिरोगाय दोषाः स्युर्वर्धितोत्पीडितद्गुताः।
प्रातः सायं च तच्छान्त्यै व्याभ्रेर्केऽतोऽञ्जयेत्सदा॥१७॥
वदन्त्यन्ये तु न दिवा प्रयोज्यं तीक्ष्णमञ्जनम्।
विरेकदुर्बलं चक्षुरादित्यं प्राप्य सीदति॥१८॥
स्वप्नेन रत्रौ कालस्य सौ म्यत्वेन च तर्पिता।
शीतसात्म्या दृगाग्नेयी स्थिरतां लभते पुनः॥१९॥
अत्युद्रिक्ते बलासे तु लेखनीयेऽथवा गदे।
काममह्य्नपि नात्युष्णे तीक्ष्णमक्ष्णि प्रयोजयेत्॥२०॥
अश्मनो जन्म लोहस्य तत एव च तीक्ष्णता।
उपघातोऽपि तेनैव तथा नेत्रस्य तेजसः॥२१॥
न रात्रावपि शीतेऽति नेत्रे तीक्ष्णाञ्जनं हितम्।
दोषमस्रावयेत्स्तब्धं कण्डूजाड्यादिकारि तत्॥२२॥
नाञ्जयेद्भीतवमितविरिक्ताशितवेगिते।
क्रुद्धज्वतिततान्ताक्षिशिरोरुक्शोकजागरे॥२३॥
अदृष्टेऽर्के शिरःस्नाते पीतयोर्धूममद्ययोः।
अजीर्णेऽग्न्यर्कसन्तप्ते दिवासुप्ते पिपासिते॥२४॥
अतितीक्ष्णमृदुस्तोकबह्नच्छघनकर्कशम्।
अत्यर्थशीतलं तप्तमञ्जनं नावचारयेत्॥२५॥
अथानुन्मीलयन् दृष्टिमन्तः सञ्चारयेच्छ्हनैः।
अञ्जिते वर्त्मनी किञ्चिच्चालयेच्चैवमञ्जनम्॥२६॥
तीक्ष्णं व्याप्नोति सहसा, न चोन्मेषनिमेषणम्।
निष्पीडनं च वर्त्मभ्यां क्षालनं वा समाचरेत्॥२७॥
अपेतौषधसंरम्भं निर्वृतं नयनं यदा।
व्याधिदोषर्तुयोग्याभिरद्भिः प्रक्षालयेत्तदा॥२८॥
दक्षिणाङ्गुष्ठकेनाक्षि ततो वामं सवाससा।
ऊर्ध्ववर्त्मनि सङ्गृह्य शोध्यं वामेन चेतरत्॥२९॥
वर्त्मप्राप्तोऽञ्जाद्दोषो रोगान् कुर्यादतोऽन्यथा।
कण्डुजाड्येऽञ्जनं तीक्ष्णं धूमं वा योजयेत् पुनः॥३०॥
तीक्ष्णाञ्जनाभितप्ते तु चूर्णं प्रत्यञ्जनं हिमम्॥३०१/२॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थान आश्चोतना ञ्जनविधिर्नाम त्रयोविंशोऽध्यायः॥२३॥