18.वमनविरेचनविधिरध्यायः
अथातो वमनविरेचनविधिमध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः।
कफे विदध्याद्वमनं संयोगे वा कफोल्बणे।
तद्वद्विरेचनं पित्ते विशेषेण तु वामयेत्॥१॥
नवज्वरातिसाराधःपित्तासृग्राजयक्ष्मिणः।
कुष्ठमेहापचीग्रन्थिश्लीपदोन्मादकासिनः॥२॥
श्वासहृल्लासवीसर्पस्तन्यदोषोर्ध्वरोगिणः।३।
अवाम्या गर्भिणी रूक्षः क्षुधितो नित्यदुःखितः॥३॥
बालवृद्धकृशस्थूलहृद्रोगिक्षतदुर्बलाः।
प्रसक्तवमथुप्लीहतिमिरक्रिमिकोष्ठिनः॥४॥
ऊर्ध्वप्रवृत्तवाय्वस्रदत्तबस्तिहतस्वराः।
मूत्राघात्युदरी गुल्मी दुर्वमोऽत्यग्निरर्शसः॥५॥
उदावर्तभ्रमाष्ठीलापार्श्वरुग्वातरोगिणः।
ऋते विषगराजीर्णविरुद्धाभ्यवहारतः॥६॥
प्रसक्तवमथोः पूर्वे प्रायेणामज्वरोऽपि च।
धूमान्तैः कर्मभिर्वर्ज्याः, सर्वैरेव त्वजीर्णिनः॥७॥
विरेकसाध्या गुल्मार्शोविस्फोटव्यङ्गकामलाः।
जीर्णज्वरोदरगरच्छर्दिप्लीहहलीमकाः॥८॥
विद्रधिस्तिमिरं काचः स्यन्दः पक्वाशयव्यथा।
योनिशुक्राश्रया रोगाः कोष्ठगाः कृमयो व्रणाः॥९॥
वातास्रमूर्ध्वगं रक्तं मूत्राघातः शकृद्ग्रहः।
वाम्याश्च कुष्ठमेहाद्याः न तु रेच्या नवज्वरी॥१०॥
अल्पाग्र्यधोगपित्तास्रक्षतपाय्वतिसारिणः।
सशल्यास्थापितक्रूरकोष्ठातिस्निग्धशोषिणः॥११॥
अथ साधारणे काले स्निग्धस्विन्नं यथाविधि।
श्वोवम्यमुत्क्लिष्टकफं मत्स्यमाषतिलादिभिः॥१२॥
निशां सुप्तं सुजीर्णान्नं पूर्वाह्णे कृतमङ्गलम्।
निरन्नमीषत्स्निग्धं वा पेयया पीतसर्पिषम्॥१३॥
वृद्धबालाबलक्लीबभीरून् रोगानुरोधतः।
आकण्ठं पायितान्मद्यं क्षीरमिक्षुरसं रसम्॥१४॥
यथाविकारविहितां मधुसैन्धवसंयुताम्।
कोष्ठं विभज्य भैषज्यमात्रां मन्त्राभिमन्त्रिताम्॥१५॥
"ब्रह्मदक्षाश्विरुद्रेन्द्रभूचन्द्रार्कानिलानलाः।
ऋषयः सौषधिग्रामा भूतसङ्घाश्च पान्तु वः॥१६॥
रसायनमिवर्षीणाममराणामिवामृतम्।
सुधेवोत्तमनागानां भैषज्यमिदमस्तु ते॥१७॥
औम् नमो भगवते भैषज्यगुरवे वैडूर्यप्रभराजाय।
तथागतायार्हते सम्यक्सम्बुद्धाय। तद्यथा।
औम् भैषज्ये भैषज्ये महाभैषज्ये समुद्रते स्वाहा॥"
प्राङ्मुखं पाययेत् पीतो मुहूर्तमनुपालयेत्।
तन्मनाः जातहृल्लासप्रसेकश्च्छर्दयेत्ततः॥१८॥
अङ्गुलिभ्यामनायस्तो नालेन मृदुनाऽथवा।
गलताल्वरुजन् वेगानप्रवृत्तान् प्रवर्तयन्॥१९॥
प्रवर्तयन् प्रवृत्तांश्च जानुतुल्यासने स्थितः।
उभे पार्श्वे ललाटं च वमतश्चास्य धारयेत्॥२०॥
प्रपीडयेत्तथा नाभिं पृष्ठं च प्रतिलोमतः।
कफे तीक्ष्णोष्णकटुकैः पित्ते स्वादुहिमैरिति॥२१॥
वमेत् स्निग्धाम्ललवणैः संसृष्टे मरुता कफे।
पित्तस्य दर्शनं यावच्छेदो वा श्लेष्मणो भवेत्॥२२॥
हीनवेगः कणाधात्रीसिद्धार्थलवणोदकैः।
वमेत्पुनःपुनः तत्र वेगानामप्रवर्तनम्॥२३॥
प्रवृत्तिः सविबन्धा वा केवलस्यौषधस्य वा।
अयोगस्तेन निष्ठीवकण्डूकोठज्वरादयः॥२४॥
निर्विबन्धं प्रवर्तन्ते कफपित्तानिलाः क्रमात्।
(मनःप्रसादः स्वास्थ्यं चावस्थानं च स्वयं भवेत्।
वैपरीत्यमयोगानां न चातिमहति व्यथा॥१॥ )
सम्यग्योगे अतियोगे तु फेनचन्द्रकरक्तवत्॥२५॥
वमितं क्षामता दाहः कण्ठशोषस्तमो भ्रमः।
घोरा वाय्वामया मृत्युर्जीवशोणितनिर्गमात्॥२६॥
सम्यग्योगेन वमितं क्षणमाश्वास्य पाययेत्।
धूमत्रयस्यान्यतमं स्नेहाचारमथादिशेत्॥२७॥
ततः सायं प्रभाते वा क्षुद्वान् स्नातः सुखाम्बुना।
भुञ्जानो रक्तशाल्यन्नं भजेत्पेयादिकं क्रमम्॥२८॥
पेयां विलेपीमकृतं कृतं च यूषं रसं त्रीनुभयं तथैकम्।
क्रमेण सेवेत नरोऽन्नकालान् प्रधानमध्यावरशुद्धिशुद्धः॥२९॥
यथाऽणुरग्निस्तृणगोमयाद्यैः सन्धुक्ष्यमाणो भवति क्रमेण।
महान् स्थिरः सर्वपचस्तथैव शुद्धस्य पेयादिभिरन्तराग्निः॥३०॥
जघन्यमध्यप्रवरे तु वेगाश्चत्वार इष्टा वमने षडष्टौ।
दशैव ते द्वित्रिगुणा विरेके प्रस्थस्तथा स्याद्द्विचतुर्गुणश्च॥३१॥
पित्तावसानं वमनं विरेकादर्द्धं, कफान्तं च विरेकमाहुः।
द्वित्रान् सविट्कानपनीय वेगान् मेयं विरेके, वमने तु पीतम्॥३२॥
अथैनं वामितं भूयः स्नेहस्वेदोपपादितम्।
श्लेष्मकाले गते ज्ञात्वा कोष्ठं सम्यग्विरेचयेत्॥३३॥
बहुपित्तो मृदुः कोष्ठः क्षीरेणापि विरिच्यते।
प्रभूतमारुतः क्रूरः कृच्छ्राच्छ्यामादिकैरपि॥३४॥
कषायमधुरैः पित्ते विरेकः, कटुकैः कफे।
स्निग्धोष्णलवणैर्वायौ अप्रवृत्तौ तु पाययेत्॥३५॥
उष्णाम्बु, स्वेदयेदस्य पाणितापेन चोदरम्।
उत्थानेऽल्पे दिने तस्मिन्भुक्त्वाऽन्येद्युः पुनः पिबेत्।
अदृढस्नेहकोष्ठस्तु पिबेदूर्ध्वं दशाहतः।
भूयोऽप्युपस्कृततनुः स्नेहस्वेदैर्विरेचनम्॥३७॥
यौगिकं सम्यगालोच्य स्मरन्पूर्वमतिक्रमम्।
हृत्कुक्ष्यशुद्धिररुचिरुत्क्लेशः श्लेष्मपित्तयोः॥३८॥
कण्डूविदाहः पिटिकाः पीनसो वातविङ्ग्रहः।
अयोगलक्षणम् योगो वैपरीत्ये यथोदितात्॥३९॥
विट्पित्तकफवातेषु निःसृतेषु क्रमात्स्रवेत्।
निःश्लेष्मपित्तमुदकं श्वेतं कृष्णं सलोहितम्॥४०॥
मांसधावनतुल्यं वा मेदःखण्डाभमेव वा।
गुदनिःसरणं तृष्णा भ्रमो नेत्रप्रवेशनम्॥४१॥
भवन्त्यतिविरिक्तस्य तथाऽतिवमनामयाः।
सम्यग्विरिक्तमेनं च वमनोक्तेन योजयेत्॥४२॥
धूमवर्ज्येन विधिना ततो वमितवानिव।
क्रमेणान्नानि भुञ्जानो भजेत्प्रकृतिभोजनम्॥४३॥
मन्दवह्निमसंशुद्धमक्षामं दोषदुर्बलम्।
अदृष्टजीर्णलिङ्गं च लङ्घयेत्पीतभेषजम्॥४४॥
स्नेहस्वेदौषधोत्क्लेशसङ्गैरिति न बाध्यते।
संशोधनास्रविस्रावस्नेहयोजनलङ्घनैः॥४५॥
यात्यग्निर्मन्दतां तस्मात् क्रमं पेयादिमाचरेत्।
स्रुताल्पपित्तश्लेष्माणं मद्यपं वातपैत्तिकम्॥४६॥
पेयां न पाययेत्तेषां तर्पणादिक्रमो हितः।
अपक्वं वमनं दोषान् पच्यमानं विरेचनम्॥४७॥
निर्हरेद्वमनस्यातः पाकं न प्रतिपालयेत्।
दुर्बलो बहुदोषश्च दोषपाकेन यः स्वयम्॥४८॥
विरिच्यते भेदनीयैर्भोज्यैस्तमुपपादयेत्।
दुर्बलः शोधितः पूर्वमल्पदोषः कृशो नरः॥४९॥
अपरिज्ञातकोष्ठश्च पिबेन्मृद्वल्पमौषधम्।
वरं तदसकृत्पीतमन्यथा संशयावहम्॥५०॥
हरेद्बहूंश्चलान् दोषानल्पानल्पान् पुनःपुनः।
दुर्बलस्य मृदुद्रव्यैरल्पान् संशमयेत्तु तान्॥५१॥
क्लेशयन्ति चिरं ते हि हन्युर्वैनमनिर्हृताः।
मन्दाग्निं क्रूरकोष्ठं च सक्षारलवणैर्घृतैः॥५२॥
सन्धुक्षिताग्निं विजितकफवातं च शोधयेत्।
रूक्षवह्वनिलक्रूरकोष्ठव्यायामशीलिनाम्॥५३॥
दीप्ताग्नीनां च भैषज्यमविरेच्यैव जीर्यति।
तेभ्यो बस्तिं पुरा दद्यात्ततः स्निग्धं विरेचनम्॥५४॥
शकृन्निर्हृत्य वा किञ्चित्तीक्ष्णाभिः फलवर्तिभिः।
प्रवृत्तं हि मलं स्निग्धो विरेको निर्हरेत्सुखम्॥५५॥
विषाभिघातपिटिकाकुष्ठशोफविसर्पिणः।
कामलापाण्डुमेहार्तान्नातिस्निग्धान् विशोधयेत्॥५६॥
सर्वान् स्नेहविरेकैश्च, रूक्षैस्तु स्नेहभावितान्।
कर्मणां वमनादीनां पुनरप्यन्तरेऽन्तरे॥५७॥
स्नेहस्वेदौ प्रयुञ्जीत, स्नेहमन्ते बलाय च।
मलो हि देहादुत्क्लेश्य ह्रियते वाससो यथा॥५८॥
स्नेहस्वेदैस्तथोत्क्लिष्टः शोध्यते शोधनैर्मलः।
स्नेहस्वेदावनभ्यस्य कुर्यात्संशोधनं तु यः॥५९॥
दारु शुष्कमिवानामे शरीरं तस्य दीर्यते॥५९१/२॥
बुद्धिप्रसादं बलमिन्द्रियाणां धातुस्थिरत्वं ज्वलनस्य दीप्तिम्।
चिराच्च पाकं वयसः करोति संशोधनं सम्यगुपास्यमानम्॥६० १/२॥
इति श्री वैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने वमनविरेचनविधिर्नामाष्टादशोऽध्यायः॥१८॥