12.दोषभेदीयाध्यायः
अथातो दोषभेदीयाध्यायं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः।
पक्वाशयकटीसक्थिश्रोत्रास्थिस्पर्शनेन्द्रियम्।
स्थानं वातस्य, तत्रापि पक्वाधानं विशेषतः॥१॥
नाभिरामाशयः स्वेदो लसीका रुधिरं रसः।
दृक् स्पर्शनं च पित्तस्य, नाभिरत्र विशेषतः॥२॥
उरःकण्ठशिरःक्लोमपर्वाण्यामाशयो रसः।
मेदो घ्राणं च जिह्वा च कफस्य, सुत्रामुरः॥३॥
प्राणादिभेदात्पञ्चात्मा वायुः प्राणोऽत्र मूर्धगः।
उरःकण्ठचरो बुद्धिहृदयेन्द्रियचित्तधृक्॥४॥
ष्ठीवनक्षवथूद्गारनिःश्वासान्नप्रवेशकृत्।
उरः स्थानमुदानस्य नासानाभिगलांश्चरेत्॥५॥
वाक्प्रवृत्तिप्रयत्नोर्जाबलवर्णस्मृतिक्रियः।
व्यानो हृदि स्थितः कृत्स्नदेहचारी महाजवः॥६॥
गत्यपक्षेपणोत्क्षेपनिमेषोन्मेषणादिकाः।
प्रायः सर्वाः क्रियास्तस्मिन् प्रतिबद्धाः शरीरिणाम्॥७॥
समानोऽग्निसमीपस्थः कोष्ठो चरति सर्वतः।
अन्नं गृह्णाति पचति विवेचयति मुञ्चति॥८॥
अपानोऽपानगः श्रोणिबस्तिमेढ्रोरुगोचरः।
शुक्रार्तवशकृन्मूत्रगर्भनिष्क्रमणक्रियः॥९॥
पित्तं पञ्चात्मकम् तत्र पक्वामाशयमध्यगम्।
पञ्चभूतात्मकत्वेऽपि यत्तैजसगुणोदयात्॥१०॥
त्यक्तद्रवत्वं पाकादिकर्मणाऽनलशब्दितम्।
पचत्यन्नं विभजते सारकिट्टौ पृथक् तथा॥११॥
तत्रस्थमेव पित्तानां शेषाणामप्यनुग्रहम्।
करोति बलदानेन पाचकं नाम तत्स्मृतम्॥१२॥
आमाशयाश्रयं पित्तं रञ्जकं रसरञ्जनात्।
बुद्धिमेधाभिमानाद्यैरभिप्रेतार्थसाधनात्॥१३॥
साधकं हृद्गतं पित्तं रूपालोचनतः स्मृतम्।
दृक्स्थमालोचकं त्वक्स्थं भ्राजकं भ्राजनात्त्वचः॥१४॥
श्लेष्मा तु पञ्चधा उरःस्थः स त्रिकस्य स्ववीर्यतः।
हृदयस्यान्नवीर्याच्च तत्स्थ एवाम्बुकर्मणा॥१५॥
कफधाम्नां च शेषाणां यत्करोत्यबलम्बनम्।
अतोऽवलम्बकः श्लेष्मा यस्त्वामाशयसंस्थितः॥१६॥
क्लेदकः सोऽन्नसङ्घातक्लेदनात् रसबोधनात्।
बोधको रसनास्थायी शिरःसंस्थोऽक्षतर्पणात्॥१७॥
तर्पकः सन्धिसंश्लेषाच्छ्लेषकः सन्धिषु स्थितः।
इति प्रायेण दोषाणां स्थानान्यविकृतात्मनाम्॥१८॥
व्यापिनामपि जानीयात्कर्माणि च पृथक्पृथक्।
उष्णेन युक्ता रूक्षाद्या वायोः कुर्वन्ति सञ्चयम्॥१९॥
शीतेन कोपमुष्णेन शमं स्निग्धादयो गुणाः।
शीतेन युक्तास्तीक्ष्णाद्याश्चयं पित्तस्य कुर्वते॥२०॥
उष्णेन कोपं, मन्दाद्याः शमं शीतोपसंहिताः।
शीतेन युक्ताः स्निग्धाद्याः कुर्वते श्लेष्मणश्चयम्॥२१॥
उष्णेन कोपं, तेनैव गुणा रूक्षादयः शमम्।
चयो वृद्धिः स्वधाम्न्येव प्रद्वेषो वृद्धिहेतुषु॥२२॥
विपरीतगुणेच्छा च कोपस्तून्मार्गगामिता।
लिङ्गानां दर्शनं स्वेषामस्वास्थ्यं रोगसम्भवः॥२३॥
स्वस्थानस्थस्य समता विकारासम्भवः शमः।
चयप्रकोपप्रशमा वायोर्ग्रीष्मादिषु त्रिषु॥२४॥
वर्षादिषु तु पित्तस्य, श्लेष्मणः शिशिरादिषु।
चीयते लघुरूक्षाभिरोषधीभिः समीरणः॥२५॥
तद्विधस्तद्विधे देहे कालस्यौष्ण्यान्न कुप्यति।
अद्भिरम्लविपाकाभिरोषधीभिश्च तादृशम्॥२६॥
पित्तं याति चयं कोपं न तु कालस्य शैत्यतः।
चीयते स्निग्धशीताभिरुदकौषधिभिः कफः॥२७॥
तुल्येऽपि काले देहे च स्कन्नत्वान्न प्रकुप्यति।
इति कालस्वभावोऽयमाहारादिवशात्पुनः॥२८॥
चयादीन् यान्ति सद्योऽपि दोषाः कालेऽपि वा न तु।
व्याप्नोति सहसा देहमापादतलमस्तकम्॥२९॥
निवर्तते तु कुपितो मलोऽल्पाल्पं जलौघवत्।
नानारूपैरसङ्ख्येयैर्विकारैः कुपिता मलाः॥३०॥
तापयन्ति तनुं तस्मात्तद्धेत्वाकृतिसाधनम्।
शक्यं नैकैकशो वक्तुमतः सामान्यमुच्यते॥३१॥
दोषा एव हि सर्वेषां रोगाणामेककारणम्।
यथा पक्षी परिपतन् सर्वतः सर्वमप्यहः॥३२॥
छायामत्येति नात्मीयां यथा वा कृत्स्नमप्यदः।
विकारजातं विविधं त्रीन् गुणान्नातिवर्तते॥३३॥
तथा स्वधातुवैषम्यनिमित्तमपि सर्वदा।
विकारजातं त्रीन्दोषाण् तेषां कोपे तु कारणम्॥३४॥
अर्थैरसात्म्यैः संयोगः कालः कर्म च दुष्कृतम्।
हीनातिमिथ्यायोगेन भिद्यते तत्पुनस्त्रिधा॥३५॥
हीनोऽर्थेनेन्द्रियस्याल्पः संयोगः स्वेन नैव वा।
अतियोगोऽतिसंसर्गः, सूक्ष्मभासुरभैरवम्॥३६॥
अत्यासन्नातिदूरस्थं विप्रियं विकृतादि च।
यदक्ष्णा वीक्ष्यते रूपं मिथ्यायोगः स दारुणः॥३७॥
एवमत्युच्चपूत्यादीनिन्द्रियार्थान् यथायथम्।
विद्यात् कालस्तु शीतोष्णवर्षाभेदात्त्रिधा मतः॥३८॥
स हीनो हीनशीतादिरतियोगोऽतिलक्षणः।
मिथ्यायोगस्तु निर्दिष्टो विपरीतस्वलक्षणः॥३९॥
कायवाक्चित्तभेदेन कर्मापि विभजेत्त्रिधा।
कायादिकर्मणो हीना प्रवृत्तिर्हीनसंज्ञकः॥४०॥
अतियोगोऽतिवृत्तिस्तु, वेगोदीरणधारणम्।
विषमाङ्गक्रियारम्भपतनस्खलनादिकम्॥४१॥
भाषणं सामिभुक्तस्य रागद्वेषभयादि च।
कर्म प्राणातिपातादि दशधा यच्च निन्दितम्॥४२॥
मिथ्यायोगः समस्तोऽसाविह वाऽमुत्र वा कृतम्।
निदानमेतद्दोषाणां, कुपितास्तेन नैकधा॥४३॥
कुर्वन्ति विविधान् व्याधीन् शाखाकोष्ठास्थिसन्धिषु।
शाखा रक्तादयस्त्वक् च बाह्यरोगायनं हि तत्॥४४॥
तदाश्रया मषव्यङ्गगण्डालज्यर्बुदादयः।
बहिर्भागाश्च दुर्नामगुल्मशोफादयो गदाः॥४५॥
अन्तःकोष्ठो महास्रोत आमपक्वाशयाश्रयः।
तत्स्थानाः च्छर्द्यतीसारकासश्वासोदरज्वराः॥४६॥
अन्तर्भागं च शोफार्शोगुल्मवीसर्पविद्रधि।
शिरोहृदयबस्त्यादिमर्माण्यस्थ्नां च सन्धयः॥४७॥
तन्निबद्धाः शिरास्नायुकण्डराद्याश्च मध्यमः।
रोगमार्गः स्थितास्तत्र यक्ष्मपक्षवधार्दिताः॥४८॥
मूर्धादिरोगाः सन्ध्यस्थित्रिकशूलग्रहादयः।
स्रंसव्यासव्यधस्वापसादरुक्तोदभेदनम्॥४९॥
सङ्गाङ्गभङ्गसङ्कोचवर्तहर्षणतर्षणम्।
कम्पपारुष्यसौषिर्यशोषस्पन्दनवेष्टनम्॥५०॥
स्तम्भः कषायरसता वर्णः श्यावोऽरुणोऽपि वा।
कर्माणि वायोः पित्तस्य दाहरागोष्मपाकिताः॥५१॥
स्वेदः क्लेदः स्रुतिः कोथः सदनं मूर्च्छनं मदः।
कटुकाम्लौ रसौ वर्णः पाण्डुरारुणवर्जितः॥५२॥
श्लेष्मणः स्नेहकाठिन्यकण्डूशीतत्वगौरवम्।
बन्धोपलेपस्तैमित्यशोफापक्त्यतिनिद्रताः॥५३॥
वर्णः श्वेतो रसौ स्वादुलवणौ चिरकारिता।
इत्यशेषमयव्यापि यदुक्तं दोषलक्षणम्॥५४॥
दर्शनाद्यैरवहितस्तत्सम्यगुपलक्षयेत्।
व्याध्यवस्थाविभागज्ञः पश्यन्नार्तान् प्रतिक्षणम्॥५५॥
अभ्यासात्प्राप्यते दृष्टिः कर्मसिद्धिप्रकाशिनी।
रत्नादिसदसज्ज्ञानं न शास्त्रादेव जायते॥५६॥
दृष्टापचारजः कश्चित्कश्चित्पूर्वापराधजः।
तत्सङ्कराद्भवत्यन्यो व्याधिरेवं त्रिधा स्मृतः॥५७॥
यथानिदानं दोषोत्थः कर्मजो हेतुभिर्विना।
महारम्भोऽल्पके हेतावातङ्को दोषकर्मजः॥५८॥
विपक्षशीलनात्पूर्वः कर्मजः कर्मसङ्क्षयात्।
गच्छत्युभयजन्मा तु दोषकर्मक्षयात्क्षयम्॥५९॥
द्विधा स्वपरतन्त्रत्वाद्व्याधयोऽन्त्याः पुनर्द्विधा।
पूर्वजाः पुर्वरूपाख्या, जाताः पश्चादुपद्रवाः॥६०॥
यथास्वजन्मोपशयाः स्वतन्त्राः स्पष्टलक्षणाः।
विपरीतास्ततोऽन्ये तु विद्यादेवं मलानपि॥६१॥
तांल्लक्षयेदवहितो विकुर्वाणान् प्रतिज्वरम्।
तेषां प्रधानप्रशमे प्रशमोऽशाम्यतस्तथा॥६२॥
पश्चाच्चिकित्सेत्तूर्णं वा बलवन्तमुपद्रवम्।
व्याधिक्लिष्टशरीरस्य पीडाकरतरो हि सः॥६३॥
विकारनामाकुशलो न जिह्रीयात् कदाचन।
न हि सर्वविकाराणां नामतोऽस्ति ध्रुवा स्थितिः॥६४॥
स एव कुपितो दोषः समुत्थानविशेषतः।
स्थानान्तराणि च प्राप्य विकारान् कुरुते बहून्॥६५॥
तस्माद्विकारप्रकृतीरधिष्ठानान्तराणि च।
बुद्ध्वा हेतुविशेषांश्च शीघ्ह्रं कुर्यादुपक्रमम्॥६६॥
दूष्यं देशं बलं कालमनलं प्रकृतिं वयः।
सत्त्वं सात्म्यं तथाऽऽहारमवस्थाश्च पृथग्विधाः॥६७॥
सूक्ष्मसूक्ष्माः समीक्ष्यैषां दोषौषधनिरूपणे।
यो वर्तते चिकित्सायां न स स्खलति जातुचित्॥६८॥
गुर्वल्पव्याधिसंस्थानं सत्त्वदेहबलाबलात्।
दृश्यतेऽप्यन्यथाकारं तस्मिन्नवहितो भवेत्॥६९॥
गुरुं लघुमिति व्याधिं कल्पयंस्तु भिषग्ब्रुवः।
अल्पदोषाकलनया पथ्ये विप्रतिपद्यते॥७०॥
ततोऽऽल्पमल्पवीर्यं वा गुरुव्याधौ प्रयोजितम्।
उदीरयेत्तरां रोगान् संशोधनमयोगतः॥७१॥
शोधनं त्वतियोगेन विपरीतं विपर्यये।
क्षिणुयान्न मलानेव केवलं वपुरस्यति॥७२॥
अतोऽभियुक्तः सततं सर्वमालोच्य सर्वथा।
तथा युञ्जीत भैषज्यमारोग्याय यथा ध्रुवम्॥७३॥
वक्ष्यन्तेऽतःपरं दोषा वृद्धिक्षयविभेदतः।
पृथक् त्रीन् विद्धि संसर्गस्त्रिधा, तत्र तु तान्नव॥७४॥
त्रीनेव समया वृद्ध्या, षडेकस्यातिशायने।
त्रयोदश समस्तेषु षड् द्व्येकातिशयेन तु॥७५॥
एकं तुल्याधिकैः षट् च तारतम्यविकल्पनात्।
पञ्चविंशतिमित्येवं वृद्धैः क्षीणैश्च तावतः॥७६॥
एकैकवृद्धिसमताक्षयैः षट् ते पुनश्च षट्।
एकक्षयद्वन्द्ववृद्ध्या सविपर्यययाऽपि ते॥७७॥
भेदा द्विषष्टिर्निर्दिष्टाः त्रिषष्टः स्वास्थ्यकारणम्।
संसर्गाद्रसरुधिरादिभिस्तथैषां दोषांस्तु क्षयसमताविवृद्धिभेदैः॥७८॥
आनन्त्यं तरतमयोगतश्च यातान् जानीयादवहितमानसो यथास्वम्॥७८ -१/२॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने दोषभेदीयो नाम द्वादशोऽध्यायः॥१२॥