8.अतीसारग्रहणीदोष निदानाध्यायः
अथातोऽतीसारग्रहणीदोषनिदानं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः।
दोषैर्व्यस्तैः समस्तैश्च भयाच्छोकाच्च षड्विधः।
अतीसारः स सुतरां जायतेऽत्यम्बुपानतः॥१॥
कृशशुष्कामिषासात्म्यतिलपिष्टविरूढकैः।
मद्यरूक्षातिमात्रान्नैरर्शोभिः स्नेहविभ्रमात्॥२॥
कृमिभ्यो वेगरोधाच्च तद्विधैः कुपितोऽनिलः।
विस्रंसयत्यधोऽब्धातुं हत्वा तेनैव चानलम्॥३॥
व्यापद्यानुशकृत्कोष्ठं पुरीषं द्रवतां नयन्।
प्रकल्पतेऽतिसाराय लक्षणं तस्य भाविनः॥४॥
तोदो हृद्गुदकोष्ठेषु गात्रसादो मलग्रहः।
आध्मानमविपाकश्च तत्र वातेन विड्जलम्॥५॥
अल्पाल्पं शब्दशूलाढ्यं विबद्धमुपवेश्यते।
रूक्षं सफेनमच्छं च ग्रथितं वा मुहुर्मुहुः॥६॥
तथा दग्धगुडाभासं सपिच्छापरिकर्तिकम्।
शुष्कास्यो भ्रष्टपायुश्च हृष्टरोमा विनिष्टनन्॥७॥
पित्तेन पीतमसितं हारिद्रं शाद्वलप्रभम्।
सरक्तमतिदुर्गन्धं तृण्मूर्च्छास्वेददाहवान्॥८॥
सशूलं पायुसन्तापपाकवान्श्लेष्मणा घनम्।
पिच्छिलं तन्तुमच्छ्वेतं स्निग्धमामं कफान्वितम्॥९॥
अभीक्ष्णं गुरु दुर्गन्धं विबद्धमनुबद्धरुक्।
निद्रालुरलसोऽन्नद्विडल्पाल्पं सप्रवाहिकम्॥१०॥
सरोमहर्षः सोत्क्लेशो गुरुबस्तिगुदोदरः।
कृतेऽप्यकृतसंज्ञश्च सर्वात्मा सर्वलक्षणः॥११॥
भयेन क्षोभिते चित्ते सपित्तो द्रावयेच्छकृत्।
वायुस्ततोऽतिसार्येत क्षिप्रमुष्णं द्रवं प्लवम्॥१२॥
वातपित्तसमं लिङ्गैराहुः तद्वच्च शोकतः।
अतीसारः समासेन द्विधा सामो निरामकः॥१३॥
सासृङ्निरस्रः तत्राद्ये गौरवादप्सु मज्जति।
शकृद्दुर्गन्धमाटोपविष्टम्भार्तिप्रसेकिनः॥१४॥
विपरीतो निरामस्तु कफात्पक्वोऽपि मज्जति।
अतीसारेषु यो नातियत्नवान् ग्रहणीगदः॥१५॥
तस्य स्यादग्निविध्वंसकरैरन्यस्य सेवितैः।
सामं शकृन्निरामं वा जीर्णे येनातिसार्यते॥१६॥
सोऽतिसारोऽतिसरणादाशुकारी स्वभावतः।
सामं सान्नमजीर्णेऽन्ने जीर्णे पक्वं तु नैव वा॥१७॥
अकस्माद्वा मुहुर्बद्धमकस्माच्छिथिलं मुहुः।
चिरकृद्ग्रहणीदोषः सञ्चयाच्चोपवेशयेत्॥१८॥
स चतुर्धा पृथग्दोषैः सन्निपाताच्च जायते।
प्राग्रूपं तस्य सदनं चिरात्पचनमम्लकः॥१९॥
प्रसेको वक्क्रवैरस्यमरुचिस्तृट् क्लमो भ्रमः।
आनद्धोदरता छर्दिः कर्णक्ष्वेडोऽन्त्रकूजनम्॥२०॥
सामान्यं लक्षणं कार्श्यं धूमकस्तमको ज्वरः।
मूर्च्छा शिरोरुग्विष्टम्भः श्वयथुः करपादयोः॥२१॥
तत्रानिलात्तालुशोषस्तिमिरं कर्णयोः स्वनः।
पार्श्वोरुवङ्क्षणग्रीवारुजाऽभीक्ष्णं विषूचिका॥२२॥
रसेषु गृद्धिः सर्वेषु क्षुत्तृष्णा परिकर्तिका।
जीर्णे जीर्यति चाध्मानं भुक्ते स्वास्थ्यं समश्नुते॥२३॥
वातहृद्रोगगुल्मार्शःप्लीहपाण्डुत्वशङ्कितः।
चिराद्दुःखं द्रवं शुष्कं तन्वामं शब्दफेनवत्॥२४॥
पुनःपुनः सृजेद्वर्चः पायुरुक्श्वासकासवान्।
पित्तेन नीलपीताभं पीताभः सृजति द्रवम्॥२५॥
पूत्यम्लोद्गारहृत्कण्ठदाहारुचितृडर्दितः।
श्लेष्मणा पच्यते दुःखमन्नं छर्दिररोचकः॥२६॥
आस्योपदेहेनिष्ठीवकासहृल्लासपीनसाः।
हृदयं मन्यते स्त्यानमुदरं स्तिमितं गुरु॥२७॥
उद्गारो दुष्टमधुरः सदनं स्त्रीष्वहर्षणम्।
भिन्नामश्लेष्मसंसृष्टगुरुवर्चःप्रवर्तनम्॥२८॥
अकृशस्यापि दौर्बल्यम्सर्वजे सर्वसङ्करः।
विभागेऽङ्गस्य ये चोक्ता विषमाद्यास्त्रयोऽग्नयः॥२९॥
तेऽपि स्युर्ग्रहणीदोषाः समस्तु स्वास्थ्यकारणम्।
वातव्याध्यश्मरीकुष्ठमेहोदरभगन्दराः।
अर्शांसि ग्रहणीत्यष्टौ महारोगाः सुदुस्तराः॥३०॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्ग हृदयसंहितायां तृतीये निदानस्थानेऽतीसारग्रहणीदोषनिदानं नामाष्टमोऽध्यायः॥८॥