3.रक्तपित्तकासनिदानाध्यायः
अथातो रक्तपित्तकासनिदानं व्याख़्यास्यामः।
इति स्माहुरात्रेयादयो महर्षयः।
भृशोष्णतीक्ष्णकट्वम्ललवणादिविदाहिभिः।
कोद्रवोद्दालकैश्चान्नैस्तद्युक्तैरतिसेवितैः॥१॥
कुपितं पित्तलैः पित्तं द्रवं रक्तं मूर्च्छिते।
ते मिथस्तुल्यरूपत्वमागम्य व्याप्नुतस्तनुम्॥२॥
पित्तं रक्तस्य विकृतेः संसर्गाद्दूषणादपि।
गन्धवर्णानुवृत्तेश्च रक्तेन व्यपदिश्यते॥३॥
प्रभवत्यसृजः स्थानात्प्लीहतो यकृतश्च तत्।
शिरोगुरुत्वमरुचिः शीतेच्छा धूमकोऽम्लकः॥४॥
छर्दिश्छर्दितबैभत्स्यं कासः श्वासो भ्रमः क्लमः।
लोहलोहितमत्स्यामगन्धास्यत्वं स्वरक्षयः॥५॥
रक्तहारिद्रहरितवर्णता नयनादिषु।
नीललोहितपीतानां वर्णानामविवेचनम्॥६॥
स्वप्ने तद्वर्णदर्शित्वं भवत्यस्मिन् भविष्यति।
ऊर्ध्वं नासाक्षिकर्णास्यैर्मेढ्रयोनिगुदैरधः॥७॥
कुपितं रोमकूपैश्च समस्तैस्तत्प्रवर्तते।
ऊर्ध्वं साध्यं कफाद्यस्मात्तद्विरेचनसाधनम्॥८॥
बह्वौषधं , पित्तस्य विरेको हि वरौषधम्।
अनुबन्धी कफो यश्च तत्र तस्यापि शुद्धिकृत्॥९॥
कषायाः स्वादवोऽप्यस्य विशुद्धश्लेष्मणो हिताः।
किमु तिक्ताः कषाया वा ये निसर्गात्कफापहाः॥१०॥
अधो याप्यं चलाद्यस्मात्तत्प्रच्छर्दनसाधनम्।
अल्पौषधं पित्तस्य वमनं वरौषधम्॥११॥
अनुबन्धी चलो यश्च शान्तयेऽपि तस्य तत्।
कषायाश्च हितास्तस्य मधुरा एव केवलम्॥१२॥
कफमारुतसंसृष्टमसाध्यमुभयायनम्।
अशक्यप्रातिलोम्यत्वादभावादौषधस्य च॥१३॥
हि संशोधनं किञ्चिदस्त्यस्य प्रतिलोमगम्।
शोधनं प्रतिलोमं रक्तपित्ते भिष्ग्जितम्॥१४॥
एवमेवोपशमनं सर्वशो विद्यते।
संसृष्टेषु हि दोषेषु सर्वजिच्छमनं हितम्॥१५॥
तत्र दोषानुगमनं सिरास्र इव लक्षयेत्।
उपद्रवाश्चं विकृतिज्ञानतस्तेषु चाधिकम्॥१६॥
आशुकारी यतः कासस्तमेवातः प्रवक्ष्यति।
पञ्च कासाः स्मृता वातपित्तश्लेष्मक्षतक्षयैः॥१७॥
क्षयायोपेक्षिताः सर्वे बलिनश्चोत्तरोत्तरम्।
तेषां भविष्यतां रूपं कण्ठे कण्डूररोचकः॥१८॥
शूकपूर्णाभकण्ठत्वम् तत्राधो विहतोऽनिलः।
ऊर्ध्वं प्रवृत्तः प्राप्योरस्तस्मिन् कण्ठे संसजन्॥१९॥
शिरःस्रोतांसि सम्पूर्य ततोऽङ्गान्युत्क्षिपन्निव।
क्षिपन्निवाक्षिणी पृष्ठमुरः पार्श्वे पीडयन्॥२०॥
प्रवर्तते वक्त्रेण भिन्नकांस्योपमध्वनिः।
हेतुभेदात्प्रतीघातभेदो वायोः सरंहसः॥२१॥
यद्रुजाशब्दवैषम्यं कासानां जायते ततः।
कुपितो वातलैर्वातः शुष्कोरःकण्ठवक्क्रताम्॥२२॥
हृत्पार्श्वोरःशिरःशूलं मोहक्षोभस्वरक्षयान्।
करोति शुष्कं कासं महावेगरुजास्वनम्॥२३॥
सोऽङ्गहर्षी कफं शुष्कं कृच्छ्रान्मुक्त्वाऽल्पतां व्रजेत्।
पित्तात्पीताक्षिकफता तिक्तास्यत्वं ज्वरो भ्रमः॥२४॥
पित्तासृग्वमनं तृष्णा वैस्वर्यं धूमकोऽम्लकः।
प्रततं कासवेगेन ज्योतिषामिव दर्शनम्॥२५॥
कफादुरोऽल्परुड्मूर्द्धहृदयं स्तिमितं गुरु।
कण्ठोपलेपः सदनं पीनसच्छर्द्यरोचकाः॥२६॥
रोमहर्षो घनस्निग्धश्वेतश्लेष्मप्रवर्तनम्।
युद्धाद्यैः साहसैस्तैस्तैः सेवितैरयथाबलम्॥२७॥
उरस्यन्तःक्षते वायुः पित्तेनानुगतो बली।
कुपितः कुरुते कासं कफं तेन सशोणितम्॥२८॥
पीतं श्यावं शुष्कं ग्रथितं कुथितं बहु।
ष्ठीवेत्कण्ठेन रुजता विभिन्नेनेव चोरसा॥२९॥
सूचीभिरिव तीक्ष्णाभिस्तुद्यमानेन शूलिना।
पर्वभेदज्वरश्वासतृष्णावैस्वर्यकम्पवान्॥३०॥
पारावत इवाकूजन् पार्श्वशूली ततोऽस्य च।
क्रमाद्वीर्यं रुचिः पक्ता बलं वर्णश्च हीयते॥३१॥
क्षीणस्य सासृङ्मूत्रत्वं स्याच्च पृष्ठकटीग्रहः।
वायुप्रधानाः कुपिता धातवो राजयक्ष्मिणः॥३२॥
कुर्वन्तिः यक्ष्मायतनैः कासं ष्ठीवेत्कफं ततः।
पूतिपूयोपमं पीतं विस्रं हरितलोहितम्॥३३॥
लुच्येत इव पार्श्वे हृदयं पततीव च।
अकस्मादुष्णशीतेच्छा बह्वाशित्वं बलक्षयः॥३४॥
स्निग्धप्रसन्नवक्क्रत्वं श्रीमद्दशननेत्रता।
ततोऽस्य क्षयरूपाणि सर्वाण्याविर्भवन्ति च॥३५॥
इत्येष क्षयजः कासः क्षीणानां देहनाशनः।
याप्यो वा बलिनां, तद्वत् क्षतजोऽभिनवौ तु तौ॥३६॥
सिध्येतामपि सानाथ्यात् साध्या दोषैः पृथक् त्रयः।
मिश्रा याप्या द्वयात्सर्वे जरसा स्थविरस्य च॥३७॥
कासाच्छ्वासक्षयच्छर्दिस्वरसादादयो गदाः।
भवन्त्युपेक्षया यस्मात्तस्मात्तं त्वरया जयेत्॥३८॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्ग हृदयसंहितायां तृतीये निदानस्थाने रक्तपित्तकासनिदानं   नाम तृतीयोऽध्यायः॥३॥