31.क्षुद्ररोगविज्ञानीयाध्यायः
अथातः क्षुद्ररोगविज्ञानीयं व्याख्यास्यामः|
इति ह स्माहुरात्रयादयो महर्षयः|(गद्यसूत्रे)|२|
स्निग्धा सवर्णा ग्रथिता नीरुजा मुद्गसन्निभा|
पिटिका कफवाताभ्यां बालानामजगल्लिका||१||
यवप्रख्या यवप्रख्या ताभ्यां मांसाश्रिता घना||२||
अवक्त्रा चालजी वृत्ता स्तोकपूया घनोन्नता||२||
ग्रन्थयः पञ्च वा षड्वा कच्छपी कच्छपोन्नताः||३||
कर्णस्योर्ध्वं समन्ताद्वा पिटिका कठिनोग्ररुक्||३||
शालूकाभा पनसिका शोफस्त्वल्परुजः स्थिरः|
हनुसन्धिसमुद्भूतस्ताभ्यां पाषाणगर्दभः||४||
शाल्मलीकण्टकाकाराः पिटिकाः सरुजो घनाः|
मेदोगर्भा मुखे यूनां ताभ्यां च मुखदूषिकाः||५||
ते पद्मकण्टका ज्ञेया यैः पद्ममिव कण्टकैः|
चीयते नीरुजैः श्वेतैः शरीरं कफवातजैः||६||
पित्तेन पिटिका वृत्ता पक्वोदुम्बरसन्निभा|
महादाहज्वरकरी विवृता विवृतानना||७||
गात्रेष्वन्तश्च वक्त्रस्य दाहज्वररुजान्विताः|
मसूरमात्रास्तद्वर्णास्तत्संज्ञाः पिटिका घनाः||८||
ततः कष्टतराः स्फोटा विस्फोटाख्या महारुजाः||९||
या पद्मकर्णिकाकारा पिटिका पिटिकाचिता||९||
सा विद्धा वातपित्ताभ्यां ताभ्यामेव च गर्दभी|
मण्डला विपुलोत्सन्ना सरागपिटिकाचिता||१०||
कक्षेति कक्षासन्नेषु प्रायो देशेषु साऽनिलात्|
पित्ताद्भवन्ति पिटिकाः सूक्ष्मा लाजोपमा घनाः||११||
तादृशी महती त्वेका गन्धनामेति कीर्तिता||१२||
घर्मस्वेदपरीतेऽङ्गे पिटिकाः सरुजो घनाः||१२||
राजिकावर्णसंस्थानप्रमाणा राजिकाह्वयाः||१३||
दोषैः पित्तोल्बणैर्मन्दैर्विसर्पिति विसर्पवत्||१३||
शोफोऽपाकस्तनुस्ताम्रो ज्वरकृज्जालगर्दभः||१४||
मलैः पित्तोल्बणैः स्फोटा ज्वरिणो मांसदारणाः||१४||
कक्षाभागेषु जायन्ते येऽग्न्याभाः साऽग्निरोहिणी|
पञ्चाहात्सप्तरात्राद्वा पक्षाद्वा हन्तिजीवितम्||१५||
त्रिलिङ्गा पिटिका वृत्ता जत्रूर्ध्वमिरिवेल्लिका||१६||
विदारीकन्दकठिना विदारी कक्षवङ्क्षणे||१६||
मेदोनिलकफैर्ग्रन्थिः स्नायुमांससिराश्रयैः|
भिन्नो वसाज्यमध्वाभं स्रवेत्तत्रोल्बणोऽनिलः||१७||
मांसं विशोष्य ग्रथितां शर्करामुपपादयेत्|
दुर्गन्धं रुधिरं क्लिन्नं नानावर्णं ततो मलाः||१८||
तां स्रावयन्ति निचितां विद्यात्तच्छर्करार्बुदम्||१९||
पाणिपादतले सन्धौ जत्रूर्ध्वं वोपचीयते||१९||
वल्मीकवच्छनैर्ग्रन्थिस्तद्वद्बह्वणुभिर्मुखैः|
रुग्दाहकण्डूक्लेदाढ्यैर्वल्मीकोऽसौ समस्तजः||२०||
शर्करोन्मथिते पादे क्षते वा कण्टकादिभिः|
ग्रन्थिः कीलवदुत्सन्नो जायते कदरं तु तत्||२१||
वेगसन्धारणाद्वायुरपानोऽपानसंश्रयम्|
अणूकरोति बाह्यान्तर्मार्गस्य ततः शकृत्||२२||
कृच्छ्रान्निर्गच्छति व्याधिरयं रुद्धगुदो मतः||२३||
कुर्यात्पित्तानिलं पाकं नखमांसे सरुग्ज्वरम्||२३||
चिप्यमक्षतरोगं च विद्यादुपनखं च तम्||२४||
कृष्णोऽभिघाताद्रूक्षश्च खरश्च कुनखो नखः||२४||
दुष्टकर्दमसंस्पर्शात् कण्डूक्लेदान्वितान्तराः|
अङ्गुल्योऽलसमित्याहुः तिलाभांस्तिलकालकान्||२५||
कृष्णानवेदनांस्त्वक्स्थान् मषांस्तानेव चोन्नतान्||२६||
मषेभ्यस्तून्नततरांश्चर्मकीलान् सितासितान्||२६||
तथाविधो जतुमणिः सहजो लोहितस्तु सः||२७||
कृष्णं सितं वा सहजं मण्डलं लाञ्छनं समम्||२७||
शोकक्रोधादिकुपिताद्वातपित्तान्मुखे तनु|
श्यामलं मण्डलं व्यङ्गं, वक्त्रादन्यत्र नीलिका||२८||
परुषं परुषस्पर्शं व्यङ्गं श्यावं च मारुतात्|
पित्तात्ताम्रान्तमानीलं, श्वेतान्तं कण्डुमत्कफात्||२९||
रक्ताद्रक्तान्तमाताम्र सौषं चिमिचिमायते||३०||
वायुनोदीरितः श्लेष्मा त्वचं प्राप्य विशुष्यति||३०||
ततस्त्वग्जायते पाण्डुः क्रमेण च विचेतना|
अल्पकण्डूरविक्लेदा सा प्रसुप्तिः प्रसुप्तितः||३१||
असम्यग्वमनोदीर्णपित्तश्लेष्मान्ननिग्रहैः|
मण्डलान्यतिकण्डूनि रागवन्ति बहूनि च||३२||
उत्कोठः सोऽनुबद्धस्तु कोठ इत्यभिधीयते||३३||
प्रोक्ताः षट्त्रिंशदित्येते क्षुद्ररोगा विभागशः|३३||
यानविज्ञाय मुह्येत चिकित्सायां चिकित्सकः|
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने क्षुद्ररोगविज्ञानीयं नामैकत्रिंशोऽध्यायः|३१|