29.ग्रथ्यर्बुदश्लीपदापचीनाडी विज्ञानीयाध्यायः
अथातो ग्रथ्यर्बुदश्लीपदापचीनाडीविज्ञानीयं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|(गद्यसूत्रे|२|
कफप्रधानाः कुर्वन्ति मेदोमांसास्रगा मलाः|
वृत्तोन्नतं यं श्वयथुं स ग्रन्थिर्ग्रथनात्स्मृतः||१||
दोषास्रमांसमेदोस्थिसिराव्रणभवा नव|ते|२||
तत्र वातादायामतोदम्भेदान्वितोऽसितः||२||
स्थानात्स्थानान्तरगतिरकस्माद्धानिवृद्धिमान्|
मृदुर्बस्तिरिवानद्धो विभिन्नोऽच्छं स्रवत्यसृक्||३||
पित्तात्सदाहः पीताभो रक्तो वा, पच्यते द्रुतम्|
भिन्नोऽस्रमुष्णं स्रवति श्लेष्मणा नीरुजो घनः||४||
शीतः सवर्णः कण्डूमान्, पक्वः पूयं स्रवेद्घनम्||५||
दोषैर्दुष्टेऽसृजि ग्रन्थिर्भवेन्मूर्च्छत्सु जन्तुषु||५||
सिरामांसं च संश्रित्य सस्वापः पित्तलक्षणः||६||
मांसलैर्दूषितं मांसमाहारैर्ग्रन्थिमावहेत्||६||
स्निग्धं महान्तं कठिनं सिरानद्धं कफाकृतिम्||७||
प्रवृद्धं मेदुरैर्मेदो नीतं मांसेऽथवा त्वचि||७||
वायुना कुरुते ग्रन्थि भृशं स्निग्धं मृदुं चलम्|
श्लेषमतुल्याकृतिं देहक्षयवृद्धिक्षयोदयम्||८||
स विभिन्नो घनं मेदस्ताम्रासितसितं स्रवेत्||९||
अस्थिभाङ्गाभिघाताभ्यामुन्नतावनतं तु यत्||९||
सोऽस्थिग्रन्थिः पदातेस्तु सहसाऽम्भोवगाहनात्|
व्यायामाद्वा प्रतान्तस्य सिराजालं सशोणितम्||१०||
वायुः सम्पीड्य सङ्कोच्य वक्रीकृत्य विशोष्य च|
निःष्फुरं नीरुजं ग्रन्थिं कुरुते स सिराह्वयः||११||
अरुढे रूढमात्रे वा व्रणे सर्वरसाशिनः|
सार्द्रे वा बन्धरहिते गात्रेऽश्माभिहतेऽथवा||१२||
वातोऽस्रमस्रुतं दुष्टं संशोष्य ग्रथितं व्रणम्|
कुर्यात्सदाहः कण्डूमान् व्रणग्रन्थिरयं स्मृतः||१३||
साध्या दोषास्रमेदोजाः, न तु स्थूलखराश्चलाः|
मर्मकण्ठोदरस्थाश्च महत्तु ग्रन्थितोऽर्बुदम्||१४||
तल्लक्षणं च मेदोन्तैः षोढा दोषादिभिस्तु तत्|
प्रायो मेदः कफाढ्यत्वास्थिरत्वाच्च न पच्यते||१५||
सिरास्थं शोणितं दोषः सङ्कोच्यान्तः प्रपीड्य च|
पाचयेत तदानद्धं सास्रावं मांसपिण्डितम्||१६||
मांसाङ्कुरैश्चितं याति वृद्धि चाशु स्रवेत्ततः|
अजस्रं दुष्टरुधिरं भूरि तच्छोणितार्बुदम्||१७||
तेष्वसृङ्मांसजे वर्ज्ये, चत्वार्यन्यानि साधयेत्||१८||
प्रस्थिता वङ्क्षणोओर्वादिमधःकायं कफोल्बणाः||१८||
दोषा मांसास्रगाः पादौ कालेनाश्रित्य कुर्वते|
शनैःशनैर्घनं शोफं श्लीपदं तत्प्रचक्षते||१९||
परिपोटयुतं कृष्णमनिमित्तरुजं खरम्|
रूक्षं च वातात् पित्तात्तु पीतं दाहज्वरान्वितम्||२०|||
कफाद्गुरु स्निग्धमरुक् चितं मांसाङ्कुरैर्बृहत्|२१||
तत्त्यजेद्वत्सरातीतं सुमहत् सुपरिस्रुति||२१||
पाणिनासौष्ठकर्णेषु वदन्त्येके तु पादवत्|
श्लीपदं जायते तच्च देशेऽनूपे भृशं भृशम्||२२||
मेदस्थाः कण्ठमन्याक्षकक्षावङ्क्षणगा मलाः|
सवर्णान् कठिनान् स्निग्धान् वार्ताकामलकाकृतीन्||२३||
अवगाढान् बहून् गण्डांश्चिरपाकांश्च कुर्वते|
पच्यन्तेऽल्परुजस्तेऽन्ये स्रवन्त्यन्येऽतिकण्डुराः||२४||
नश्यन्त्यन्ये भवन्त्यन्ये दीर्घकालानुबन्धिनः|
गण्डमालाऽपची चेयं दूर्वेव क्षयवृद्धिभाक्|२५|
तां त्यजेत्सज्वरच्छर्दिपार्श्वरुक्कासपीनसाम्|||२५||
अभेदात्पक्वशोफस्य व्रणे चापथ्यसेविनः||२६||
अनुप्रविश्य मांसादीन् दूरं पूयोऽभिधावति|
गतिः सा दूरगमनान्नाडी नाडीव संस्रुतेः||२७||
नाड्येकाऽनृजुरन्येषां सैवानेकगतिर्गतिः||२८||
सा दोषैः पृथगेकस्थैः शल्यहेतुश्च पञ्चमी||२८||
वातात् सरुक्सूक्ष्ममूखी विवर्णा फेनिलोद्वमा|
स्रवत्यभ्यधिकं रात्रौ पित्तात्तृड्ज्वरदाहकृत्||२९||
पीतोष्णपूतिपूयस्रुद्दिवा चाति निषिञ्चति||३०||
घनपिच्छिलसंस्रावा कण्डूला कठिना कफात्|३०|
निशि चाभ्यधिकक्लेदा अन्तःस्थितं शल्यमनाहृतं तु
करोति नाडीं वहते च साऽस्य|
फेनानुविद्धं तनुमल्पमुष्णं सास्रं च पूयं सरुजं च नित्यम्|३१|
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचि-
तायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने
ग्रन्थ्यर्बुदश्लीपदापचीनाडीविज्ञानीयं नामैकोनत्रिंशोऽध्यायः|२९|