22.मुखरोगप्रतिषेधाध्यायः
अथातो मुखरोगप्रतिषेधं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः।
खण्डौष्ठस्य विलिख्यान्तौ स्यूत्वा व्रणवदाचरेत्।
यष्टिज्योतिष्मतीरोध्रश्रावणीसारिवोत्पलैः॥१॥
पटोल्या काकमाच्या च तैलमभ्यञ्जनं पचेत्।
नस्यं च तैलं वातघ्नमधुरस्कन्धसाधितम्॥२॥
महास्नेहेन वातौष्ठे सिद्धेनाक्तः पिचुर्हितः।
देवधूपमधूच्छिष्टगुग्गुल्वमरदारुभिः॥३॥
यष्ट्याह्वचूर्णयुक्तेन तेनैव प्रतिसारणम्।
नाड्योष्ठं स्वेदयेद्दुग्धसिद्धैरेरण्डपल्लवैः॥४॥
खण्डौष्ठविहितं नस्यं तस्य मूर्ध्नि च तर्पणम्।
पित्ताभिघातजावोष्ठौ जलौकोभिरुपाचरेत्॥५॥
रोध्रसर्जरसक्षौद्रमधुकैः प्रतिसारणम्।
गुडूचीयष्टिपत्तङ्गसिद्धमभ्यञ्जने घृतम्॥६॥
पित्तविद्रधिवच्चात्र क्रिया शोणितजेऽपि च।
इदमेव नवे कार्यं कर्म ओष्ठे तु कफातुरे॥७॥
पाठाक्षारमधुव्योषैर्हृतास्रे प्रतिसारणम्।
धूमनावनगण्डूषाः प्रयोज्याश्च कफच्छिदः॥८॥
स्विन्नं भिन्नं विमेदस्कं दहेन्मेदोजमग्निना।
प्रियङ्गुरोध्रत्रिफलामाक्षिकैः प्रतिसारयेत्॥९॥
सक्षौद्रा घर्षणं तीक्ष्णा भिन्नशुद्धे जलार्बुदे।
अवगाढेऽतिवृद्धे वा क्षारोऽग्निर्वा प्रतिक्रिया॥१०॥
आमाद्यवस्थास्वलजीं गण्डे शोफवदाचरेत्।
स्विन्नस्य शीतदन्तस्य पालीं विलिखितां दहेत्॥११॥
तैलेन, प्रतिसार्या च सक्षौद्रघनसैन्धवैः।
दाडिमत्वग्वरातार्क्ष्यकान्ताजम्ब्वस्थिनागरैः॥१२॥
कवलः क्षीरिणां क्वाथैरणुतैलं च नावनम्।
दन्तहर्षे तथा भेदे सर्वा वातहरा क्रिया॥१३॥
तिलयष्टीमधुशृतं क्षीरं गण्डूषधारणम्।
सस्नेहं दशमूलाम्बु गण्डूषः प्रचलद्विजे॥१४॥
तुत्थरोध्रकणाश्रेष्ठापत्तङ्गपटुघर्षणम्।
स्निग्धाः शील्या यथावस्थं नस्यान्नकवलादयः॥१५॥
अधिदन्तकमालिप्तं यदा क्षारेण जर्जरम्।
कृमिदन्तमिवोत्पाट्य तद्वच्चोपचरेत्तदा॥१६॥
अनवस्थितरक्ते च दग्धे व्रण इव क्रिया।
अहिंसन् दन्तमूलानि दन्तेभ्यः शर्करां हरेत्॥१७॥
क्षारचूर्णैर्मधुयुतैस्ततश्च प्रतिसारयेत्।
कपालिकायामप्येवं हर्षोक्तं च समाचरेत्॥१८॥
जयेद्विस्रावणैः स्विन्नमचलं कृमिदन्तकम्।
स्निग्धैश्चालेपगण्डूषनस्याहारैश्चलापहैः॥१९॥
गुडेन पूर्णं सुषिरं मधूच्छिष्टेन वा दहेत्।
सप्तच्छदार्कक्षीराभ्यां पूरणं कृमिशूलजित्॥२०॥
हिङ्गुकट्फलकासीसस्वर्जिकाकुष्ठवेल्लजम्।
रजो रुजं जयत्याशु वस्त्रस्थं दशने धृतम्॥२१॥
गण्डूषं ग्राहयेत्तैलमेभिरेव च साधितम्।
क्वाऱ्थैर्वा युक्तमेरण्डद्विव्याघ्रीभूकदम्बजैः॥२२॥
क्रियायोगैर्बहुविधैरित्यशान्तरुजं भृशम्।
दृढमप्युद्धरेद्दन्तं पूर्वं मूलाद्विमोक्षितम्॥२३॥
सन्दंशकेन लघुना दन्तनिर्घातनेन वा।
तैलं सयष्ट्याह्वरजो गण्डूषो मधु वा ततः॥२४॥
ततो विदारियष्ट्याह्वशृङ्गाटककसेरुभिः।
तैलं दशगुणक्षीरं सिद्धं युञ्जीत नावनम्॥२५॥
कृशदुर्बलवृद्धानां वातार्तानां च नोद्धरेत्।
नोद्धरेच्चोत्तरं दन्तं बहूपद्रवकृद्धि सः॥२६॥
एषामप्युद्धृतौ स्निग्धस्वादुशीतक्रमो हितः।
विस्रावितास्रे शीतादे सक्षौद्रैः प्रतिसारणम्॥२७॥
मुस्तार्जुनत्वक्त्रिफलाफलिनीताऱ्र्क्ष्यनागरैः।
तत्क्वाथः कवलो, नस्यं तैलं मधुरसाधितम्॥२८॥
दन्तमांसान्युपकुशे स्विन्नान्युष्णाम्बुधारणैः।
मण्डलाग्रेण शाकादिपत्रैर्वा बहुशो लिखेत्॥२९॥
ततश्च प्रतिसार्याणि घृतमण्डमधुद्रुतैः।
लाक्षाप्रियङ्गुपत्तङ्गलवणोत्तमगैरिकैः॥३०॥
सकुष्ठशुण्ठीमरिचयष्टीमधुरसाञ्जनैः।
सुखोष्णो घृतमण्डो तैलं वा कवलग्रहः॥३१॥
घृतं च मधुरैः सिद्धं हितं कवलनस्ययोः।
दन्तपुप्पुटके स्विन्नछिन्नभिन्नविलेखिते॥३२॥
यष्ट्याह्वस्वर्जिकाशुण्ठीसैन्धवैः प्रतिसारणम्।
विद्रधौ कटुतीक्ष्णोष्णरूक्षैः कवललेपनम्॥३३॥
घर्षणं कटुकाकुष्ठवृश्चिकालीयवोद्भवैः।
रक्षेत्पाकं हिमैः पक्वः पाट्यो दाह्योऽवगाढकः॥३४॥
सुषिरे छिन्नलिखिते सक्षौद्रैः प्रतिसारणम्।
रोध्रमुस्तमिशिश्रेष्ठातार्क्ष्यपत्तङ्गकिंशुकैः॥३५॥
सकट्फलैः, कषायैश्च तेषां गण्डूष इष्यते।
यष्टीरोध्रोत्पलानन्तासारिवागुरुचन्दनैः॥३६॥
सगैरिकसितापुण्ड्रैः सिद्धं तैलं च नावनम्।
छित्त्वाऽधिमांसकं चूर्णैः सक्षौद्रैः प्रतिसारयेत्॥३७॥
वचातेजोवतीपाठास्वर्जिकायवशूकजैः।
पटोलनिम्बत्रिफलाकषायः कवलो हितः॥३८॥
विदर्भे दन्तमूलानि मण्डलाग्रेण शोधयेत्।
क्षारं युञ्ज्यात्ततो नस्यं गण्डूषादि च शीतलम्॥३९॥
संशोध्योभयतः कायं शिरश्चोपचरेत्ततः।
नाडीं दन्तानुगां दन्तं समुद्धृत्याग्निना दहेत्॥४०॥
कुब्जां नैकगतिं पूर्णां गुडेन मदनेन वा।
धावनं जातिमदनखदिरस्वादुकण्टकैः॥४१॥
क्षीरिवृक्षाम्बुगण्डूषो, नस्यं तैलं च तत्कृतम्।
कुर्याद्वातौष्ठकोपोक्तं कण्टकेष्वनिलात्मसु॥४२॥
जिह्वायां पित्तजातेषु घृष्टेषु रुधिरे स्रुते।
प्रतिसारणगण्डूषनावनं मधुरैर्हितम्॥४३॥
तीक्ष्णैः कफोत्थेष्वेवं च सर्षपत्र्यूषणादिभिः।
नवे जिह्वालसेऽप्येवं, तं तु शस्त्रेण न स्पृशेत्॥४४॥
उन्नम्य जिह्वामाकृष्टां बडिशेनाधिजिह्विकाम्।
छेदयेन्मण्डलाग्रेण तीक्ष्णोष्णैर्घर्षणादि च॥४५॥
उपजिह्वां परिस्राव्य यवक्षारेण घर्षयेत्।
कफघ्नैः शुण्डिका साध्या नस्यगण्डूषघर्षणैः॥४६॥
एर्वारुबीजप्रतिमं वृद्धायामसिराततम्।
अग्रं निविष्टं जिह्वाया बडिशाद्यवलम्बितम्॥४७॥
छेदयेन्मण्डलाग्रेण नात्यग्रे न च मूलतः।
छेदेऽत्यसृक्क्षयान्मृत्युर्हीने व्याधिर्विवर्द्धते॥४८॥
मरिचातिविषापाठावचाकुष्ठकुटन्नटैः।
छिन्नायां सपटुक्षौद्रैर्घर्षणं, कवलः पुनः॥४९॥
कटुकातिविषापाठानिम्बरास्नावचाम्बुभिः।
सङ्घाते पुप्पुटे कूर्मे विलिख्यैवं समाचरेत्॥५०॥
अपक्वे तालुपाके तु कासीसक्षौद्रतार्क्ष्यजैः।
घर्षणं, कवलः शीतकषायमधुरौषधैः॥५१॥
पक्वेऽष्टापदवद्भिन्ने तीक्ष्णोष्णैः प्रतिसारणम्।
वृषनिम्बपटोलाद्यैस्तिक्तैः कवलधारणम्॥५२॥
तालुशोषे त्वतृष्णस्य सर्पिरुत्तरभक्तिकम्।
कणाशुण्ठीशृतं पानमम्लैर्गण्डूषधारणम्॥५३॥
धन्वमांसरसाः स्निग्धाः, क्षीरसर्पिश्च नावनम्।
कण्ठरोगेष्वसृङ्मोक्षस्तीक्ष्णैर्नस्यादि कर्म च॥५४॥
क्वाथः पानं च दार्वीत्वङ्निम्बतार्क्ष्यकलिङ्गजः।
हरीतकीकषायो वा पेयो माक्षिकसंयुतः॥५५॥
श्रेष्ठाव्योषयवक्षारदार्वीद्वीपिरसाञ्जनैः।
सपाठातेजिनीनिम्बैः सुक्तगोमूत्रसाधितैः॥५६॥
कवलो, गुटिका वाऽत्र कल्पिता प्रतिसारणम्।
निचुलं कटभी मुस्तं देवदारु महौषधम्॥५७॥
वचा दन्ती च मूर्वा च लेपः कोष्णोऽर्तिशोफहा।
अथान्तर्बाह्यतः स्विन्नां वातरोहिणिकां लिखेत्॥५८॥
अङ्गुलीशस्त्रकेणाशु पटुयुक्तनखेन वा।
पञ्चमूलाम्बु कवलस्तैलं गण्डूषनावनम्॥५९॥
विस्राव्य पित्तसम्भूतां सिताक्षौद्रप्रियङ्गुभिः।
घर्षेत्सरोध्रपत्तङ्गैः कवलः क्वथितैश्च तैः॥६०॥
द्राक्षापरूषकक्वाथो हितश्च कवलग्रहे।
उपाचरेदेवमेव प्रत्याख्यायास्रसम्भवाम्॥६१॥
सागारधूमैः कटुकैः कफजां प्रतिसारयेत्।
नस्यगण्डूषयोस्तैलं साधितं च प्रशस्यते॥६२॥
अपामार्गफलश्वेतादन्तीजन्तुघ्नसैन्धवैः।
तद्वच्च वृन्दशालूकतुण्डिकेरीगिलायुषु॥६३॥
विद्रधौ स्राविते श्रेष्ठारोचनातार्क्ष्यगैरिकैः।
सरोध्रपटुपत्तङ्गकणैर्गण्डूषघर्षणे॥६४॥
गलगण्डः पवनजः स्विन्नो निःस्रुतशोणितः।
तिलैर्बीजैश्च लट्वोमाप्रियालशणसम्भवैः॥६५॥
उपनाह्यो, व्रणे रूढे प्रलेप्यश्च पुनःपुनः।
शिग्रुतिल्वकतर्कारीगजकृष्णापुनर्नवैः॥६६॥
कालामृतार्कमूलैश्च पुष्पैश्च करहाटजैः।
एकैषिकान्वितैः पिष्टैः सुरया काञ्जिकेन वा॥६७॥
गुडूचीनिम्बकुटजहंसपादीबलाद्वयैः।
साधितं पाययेत्तैलं सकृष्णादेवदारुभिः॥६८॥
कर्तव्यं कफजेऽप्येतत्स्वेदविम्लापने त्वति।
लेपोऽजगन्धातिविषाविशल्याः सविषाणिकाः॥६९॥
गुञ्जालाबुशुकाह्वाश्च पलाशक्षारकल्किताः।
मूत्रस्रुतं हठक्षारं पक्त्वा कोद्रवभुक् पिबेत्॥७०॥
साधितं वत्सकाद्यैर्वा तैलं सपटुपञ्चकैः।
कफघ्नान् धूमवमननावनादींश्च शीलयेत्॥७१॥
मेदोभवे सिरां विध्येत्कफघ्नं च विधिं भजेत्।
असनादिरजश्चैनं प्रातर्मूत्रेण पाययेत्॥७२॥
अशान्तौ पाचयित्वा च सर्वान् व्रणवदाचरेत्।
मुखपाकेषु सक्षौद्रा प्रयोज्या मुखधावनाः॥७३॥
क्वथितास्त्रिफलापाठामृद्वीकाजातिपल्लवाः।
निष्ठेव्या भक्षयित्वा वा कुठेरादिर्गणोऽथवा॥७४॥
मुखपाकेऽनिलात् कृष्णापट्वेलाः प्रतिसारणम्।
तैलं वातहरैः सिद्धं हितं कवलनस्ययोः॥७५॥
पित्तास्रे पित्तरक्तघ्नः कफघ्नश्च कफे विधिः।
लिखेच्छाकादिपत्रैश्च पिटिकाः कठिनाः स्थिराः॥७६॥
यथादोषोदयं कुर्यात्सन्निपाते चिकित्सितम्।
नवेऽर्बुदे त्वसंवृद्धे छेदिते प्रतिसारणम्॥७७॥
स्वर्जिकानागरक्षौद्रैः, क्वाथो गण्डूष इष्यते।
गुडूचीनिम्बकल्कोत्थो मधुतैलसमन्वितः॥७८॥
यवान्नभुक् तीक्ष्णतैलनस्याभ्यङ्गांस्तथाऽऽचरेत्।
वमिते पूतिवदने धूमस्तीक्ष्णः सनावनः॥७९॥
समङ्गाधातकीरोध्रफलिनीपद्मकैर्जलम्।
धावनं वदनस्यान्तश्चूर्णितैरवचूर्णितम्॥८०॥
शीतादोपकुशोक्तं च नावनादि च शीलयेत्।
फलत्रयद्वीपिकिराततिक्तयष्ट्याह्वसिद्धार्थ कटुत्रिकाणि।
मुस्ताहरिद्राद्वययावशूकवृक्षाम्लकाम्लाग्रिम वेतसाश्च॥८१॥
अश्वत्थजम्ब्वाम्रधनञ्जयत्वक् त्वक् चाहिमारात्खदिरस्य सारः।
क्वाथेन तेषां घनतां गतेन तच्चूर्णयुक्ता गुटिका विधेयाः॥८२॥
ता धारिता घ्नन्ति मुखेन नित्यं कण्ठौष्ठताल्वादिगदान् सुकृच्छ्रान्।
विशेषतो रोहिणिकास्यशोषगन्धान् विदेहाधिपतिप्रणीताः॥८३॥
खदिरतुलामम्बुघटे पक्त्वा तोयेन तेन पिष्टैश्च।
चन्दनजोङ्गककुङ्कुमपरिपेलववालकोशीरैः॥८४॥
सुरतरुरोध्रद्राक्षामञ्जिष्ठाचोचपद्मकविडङ्गैः।
स्पृक्कानतनखकट्फलसूक्ष्मैलाध्यामकैः सपत्तङ्गैः॥८५॥
तैलप्रस्थं विपचेत् कर्षांशैः पाननस्यगण्डूषैस्तत्।
हत्वाऽऽस्ये सर्वगदान् जनयति गार्धीं दृशं श्रुतिं च वाराहीम्॥८६॥
उद्वर्तितं च प्रपुनाटरोध्रदार्वीभिरभ्यक्तमनेन वक्त्रम्।
निर्व्यङ्गनीलीमुखदूषिकादि सञ्जायते चन्द्रसमानकान्ति॥८७॥
पलशतं बाणात्तोयघटे पक्त्वा रसेऽस्मिंश्च पलार्धिकैः
खदिरजम्बूयष्ट्यानन्ताम्रैरहिमारनीलोत्पलान्वितैः॥८८॥
तैलप्रस्थं पाचयेच्छ्लक्ष्णपिष्टैरेभिर्द्रव्यैर्धारितं तन्मुखेन।
रोगान् सर्वान् हन्ति वक्त्रे विशेषात्स्थैर्यं धत्ते दन्तपङ्क्तेश्चलायाः॥८९॥
खदिरसाराद् द्वे तुले पचेद्वल्कात्तुलां चारिमेदसः।
घटचतुष्के पादशेषेऽस्मिन् पूते पुनः क्वथनाद्घने॥९०॥
आक्षिकं क्षिपेत्सुसूक्ष्मं रजः सेव्याम्बुपत्तङ्गगैरिकम्।
चन्दनद्वय(श्यामा) रोध्रपुण्ड्राह्वयष्ट्याह्वलाक्षाञ्जनद्वयम्॥९१॥
धातकीकटुफलद्विनिशात्रिफलाचतुर्जातजोङ्गकम्।
मुस्तमञ्जिष्ठान्यग्रोधप्ररोह।वचा]मांसीयवासकम्॥९२॥
पद्मकैलासमङ्गाश्च शीते तस्मिंस्तथा पालिकां पृथक्।
जातिपत्रिकां सजातीफलां सह(नख)लवङ्गकङ्कोल्लकाम्॥९३॥
स्फटिकशुभ्रसुरभिकर्पूरकुडवं च तत्रावपेत्ततः।
कारयेद्गुटिकाः सदा चैता धार्या मुखे तद्वदापहाः॥९४॥
क्वाथ्यौषधव्यत्यययोजनेन तैलं पचेत्कल्पनयाऽनयैव।
सर्वास्यरोगोद्धृतये तदाहुर्दन्तस्थिरत्वे त्विदमेव मुख्यम्॥९५॥
खदिरेणैता गुटिकास्तैलमिदं चारिमेदसा प्रथितम्।
अनुशीलयन् प्रतिदिनं स्वस्थोऽपि दृढद्विजो भवति॥९६॥
क्षुद्रागुडूचीसुमनःप्रवालदार्वीयवासत्रिफलाकषायः।
क्षौद्रेण युक्तः कवलग्रहोऽयं सर्वामयान् वक्त्रगतान्निहन्ति॥९७॥
पाठादार्वीत्वक्कुष्ठमुस्तासमङ्गातिक्तापीताङ्गीरोध्र तेजोवतीनाम्।
चूर्णः सक्षौद्रो दन्तमांसार्तिकण्डूपाकस्रावाणं नाशनो घर्षणेन॥९८॥
गृहधूमतार्क्ष्यपाठाव्योषक्षाराग्न्ययोवरातेजोह्वैः।
मुखदन्तगलविकारे सक्षौद्रः कालको विधार्यश्चूर्णः॥९९॥
दार्वीत्वक्सिन्धूद्भवमनः शिलायावशूकहरितालैः।
धार्यः पीतकचूर्णो दन्तास्यगलामये समध्वाज्यः॥१००॥
द्विक्षारधूमकवरापञ्चपटुव्योषवेल्लगिरितार्क्ष्यैः।
गोमूत्रेण विपक्वा गलामयघ्नी रसक्रिया एषा॥१०१॥
गोमूत्रक्वथनविलीनविग्रहाणां
पथ्यानां जलमिशिकुष्ठभावितानाम्।
अत्तारं नरमणवोऽपि वक्त्ररोगाः
श्रोतारं नृपमिव न स्पृशन्त्यनर्थाः॥१०२॥
सप्तच्छदोशीरपटोलमुस्तहरीतकीतिक्तक रोहिणीभिः।
यष्ट्याह्वराजद्रुमचन्दनैश्च क्वाथं पिबेत्पाकहरं मुखस्य॥१०३॥
पटोलशुण्ठीत्रिफलाविशालात्रायन्तितिक्ता द्विनिशामृतानाम्।
पीतः कषायो मधुना निहन्ति मुखे स्थितश्चास्यगदानशेषान्॥१०४॥
स्वरसः क्वथितो दार्व्या घनीभूतः सगैरिकः।
आस्यस्थः समधुर्वक्त्रपाकनाडीव्रणापहः॥१०५॥
पटोलनिम्बयष्ट्याह्ववासाजात्यरिमेदसाम्।
खदिरस्य वरायाश्च पृथगेवं प्रकल्पना॥१०६॥
खदिरायोवरापार्थमदयन्त्यहिमारकैः।
गाण्डूषोऽम्बुशृतैर्धार्यो दुर्बलद्विजशान्तये॥१०७॥
मुखदन्तमूलगलजाः प्रायो रोगाः कफास्रभूयिष्ठाः।
तस्मात्तेषामसकृद् रुधिरं विस्रावयेद्दुष्टम्॥१०८॥
कायशिरसोर्विरेको वमनं कवलग्रहाश्च कटुतिक्ताः।
प्रायः शस्तं तेषां कफरक्तहरं तथा कर्म॥१०९॥
यवतृणधान्यं भक्तं विदलैः क्षारोषितैरपस्नेहाः।
यूषा भक्ष्याश्च हिता यच्चान्यच्छ्लेष्मनाशाय॥११०॥
प्राणानिलपथसंस्थाः श्वसितमपि निरुन्धते प्रमादवतः।
कण्ठामयाश्चिकित्सितमतो द्रुतं तेषु कुर्वीत॥१११॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्ग हृदयसंहितायां षष्ठे उत्तरस्थाने मुखरोगप्रतिषेधो नाम द्वाविंशोऽध्यायः॥२२॥