20.नासारोगप्रतिषेधाध्यायः
अथातो नासारोगप्रतिषेधं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः।
सर्वेषु पीनसेष्वादौ निवातागारगो भजेत्।
स्नेहनस्वेदवमनधूमगण्डूषधारणम्॥१॥
वासो गुरूष्णं शिरसः सुघनं परिवेष्टनम्।
लघ्वम्ललवणं स्निग्धमुष्णं भोजनमद्रवम्॥२॥
धन्वमांसगुडक्षीरचणकत्रिकटूत्कटम्।
यवगोधूमभूयिष्ठं दधिदाडिमसारिकम्॥३॥
बालमूलकजो यूषः कुलत्थोत्थश्च पूजितः।
कवोष्णं दशमूलाम्बु जीर्णां वा वारुणीं पिबेत्॥४॥
जिघ्रेच्चोरकतर्कारीवचाजाज्युपकुञ्चिकाः।
व्योषतालीसचविकातिन्तिडीकाम्लवेतसम्॥५॥
साग्न्यजाजि द्विपलिकं त्वगेलापत्रपादिकम्।
जीर्णाद्गुडात्तुलार्धेन पक्वेन वटकीकृतम्॥६॥
पीनसश्वासकासघ्नं रुचिस्वरकरं परम्।
शताह्वात्वग्ऽऽबला मूलं स्योनाकैरण्डबिल्वजम्॥७॥
सारग्वधं पिबेद्धूमं वसाज्यमदनान्वितम्।
अथवा सघृतान् सक्तून् कृत्वा मल्लकसम्पुटे॥८॥
त्यजेत्स्नानं शुचं क्रोधं भृशं शय्यां हिमं जलम्।
पिबेद्वातप्रतिश्याये सर्पिर्वातघ्नसाधितम्॥९॥
पटुपञ्चकसिद्धं वा विदार्यादिगणेन वा।
स्वेदनस्यादिकां कुर्यात् चिकित्सामर्दितोदिताम्॥१०॥
पित्तरक्तोत्थयोः पेयं सर्पिर्मधुरकैः शृतम्।
परिषेकान् प्रदेहांश्च शीतैः कुर्वीत शीतलान्॥११॥
धवत्वक्ऽऽत्रिफलाश्यामाश्रीपर्णीयष्टितिल्वकैः।
क्षीरे दशगुणे तैलं नावनं सनिशैः पचेत्॥१२॥
कफजे लङ्घनं लेपः शिरसो गौरसर्षपैः।
सक्षारं वा घृतं पीत्वा वमेत्, पिष्टैस्तु नावनम्॥१३॥
बस्ताम्बुना पटुव्योषवेल्लवत्सकजीरकैः।
कटुतीक्ष्णैर्घृतैर्नस्यैः कवलैः सर्वजं जयेत्॥१४॥
यक्ष्मकृमिक्रमं कुर्वन् यापयेद्दुष्टपीनसम्।
व्योषोरुबूककृमिजिद्दारुमाद्रीगदेङ्गुदम्॥१५॥
वार्ताकबीजं त्रिवृता सिद्धार्थः पूतिमत्स्यकः।
अग्निमन्थस्य पुष्पाणि पीलुशिग्रुफलानि च॥१६॥
अश्वविड्ऽऽरसमूत्राभ्यां हस्तिमूत्रेण चैकतः।
क्षौमगर्भां कृतां वर्तिं धूमं घ्राणास्यतः पिबेत्॥१७॥
क्षवथौ पुटकाख्ये च तीक्ष्णैः प्रधमनं हितम्।
शुण्ठीकुष्ठकणावेल्लद्राक्षाकल्ककषायवत्॥१८॥
साधितं तैलमाज्यं वा नस्यं क्षवपुटप्रणुत्।
नासाशोषे बलातैलं पानादौ भोजनं रसैः॥१९॥
स्निग्धो धूमस्तथा स्वेदो नासानाहेऽप्ययं विधिः।
पाके दीप्तौ च पित्तघ्नं तीक्ष्णं नस्यादि संस्रुतौ॥२०॥
कफपीनसवत्पूतिनासापीनसयोः क्रिया।
लाक्षाकरञ्जमरिचवेल्लहिङ्गुकणागुडैः॥२१॥
अविमूत्रद्रुतैर्नस्यं कारयेद्वमने कृते।
शिग्रुसिंहीनिकुम्भानां बीजैः सव्योषसैन्धवैः॥२२॥
सवेल्लसुरसैस्तैलं नावनं परमं हितम्।
पूयरक्ते नवे कुर्याद् रक्तपीनसवत् क्रमम्॥२३॥
अतिप्रवृद्धे नाडीवत् दग्धेष्वर्शोर्बुदेषु च।
निकुम्भकुम्भसिन्धूत्थमनोह्वालकणाग्निकैः॥२४॥
कल्कितैर्घृतमध्वक्तां घ्राणे वर्तिं प्रवेशयेत्।
शिग्र्वादि नावनं चात्र पूतिनासोदितं भजेत्॥२५॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्ग हृदयसंहितायां षष्ठे उत्तरस्थाने नासारोगप्रतिषेधो नाम विंशोऽध्यायः॥२०॥