18.कर्णरोगप्रतिषेधाध्यायः
अथातः कर्णरोगप्रतिषेधं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|(गद्यसूत्रे||२||
कर्णशूले पवनजे पिबेद्रात्रौ रसाशितः|
वातघ्नसाधितं सर्पिः, कर्णं स्विन्नं च पूरयेत्||१||
पत्राणां पृथगश्वत्थबिल्वार्कैरण्डजन्मनाम्|
तैलसिन्धूत्थदिग्धानां स्विन्नानां पुटपाकतः||२||
रसैः कवोष्णैस्तद्वच्च मूलकस्यारलोरपि||३||
गणे वातहरेऽम्लेषु मूत्रेषु च विपाचितः||३||
महास्नेहो द्रुतं हन्ति सुतीव्रामपि वेदनाम्||४||
महतः पञ्चमूलस्य काष्ठात्क्षौमेण वेष्टितात्||४||
तैलसिक्तात्प्रदीप्ताग्रात् स्नेहः सद्यो रुजापहः|
योज्यश्चैवं भद्रकाष्ठात्कुष्ठात्काष्ठाच्च सारलात्||५||
वातव्याधिप्रतिश्यायविहितं हितमत्र च|
वर्जयेच्छिरसा स्नानं शीताम्भःपानमह्न्यपि||६||
पित्तशूले सितायुक्तघृतस्निग्धं विरेचयेत्|
द्राक्षायष्टिशृतं स्तन्यं शस्यते कर्णपूरणम्||७||
यष्ट्यनन्ताहिमोशीरकाकोलीरोध्रजीवकैः|
मृणालबिसमञ्जिष्ठासारिवाभिश्च साधयेत्||८||
यष्टीमधुरसप्रस्थक्षीरद्विप्रस्थसंयुतम्|
तैलस्य कुडवं नस्यपूरणाभ्यञ्जनैरिदम्||९||
निहन्ति शूलदाहोषाः केवलं क्षौद्रमेव वा||१०||
यष्ट्यादिभिश्च सघृतैः कर्णौ दिह्यात्समन्ततः||१०||
वामयेत् पिप्पलीसिद्धसर्पिःस्निग्धं कफोद्भवे|
धूमनावनगण्डूषस्वेदान् कुर्यात्कफापहान्||११||
लशुनार्द्रकशिग्रूणां मुरुङ्ग्या मूलकस्य च|
कदल्याः स्वरसः श्रेष्ठः कदुष्णः कर्णपूरणे||१२||
अर्काङ्कुरानम्लपिष्टांस्तैलाक्तांल्लवणान्वितान्|
सन्निधाय स्नुहीकाण्डे कोरिते तच्छदावृतान्||१३||
स्वेदयेत्पुटपाकेन स रसः शूलजित्परम्||१४||
रसेन बीजपूरस्य कपित्थस्य च पूरयेत्||१४||
सुक्तेन पूरयित्वा वा फेनेनान्ववचूर्णयेत्||१५||
अजाविमूत्रवंशत्वक्ऽऽसिद्धं तैलं च पूरणम्||१५||
सिद्धं वा सार्षपं तैलं हिङ्गुतुम्बुरुनागरैः||१६||
रक्तजे पित्तवत्कार्यं सिरां चाशु विमोक्षयेत्||१६||
पक्वे पूयवहे कर्णे धूमगण्डूषनावनम्|
युञ्ज्यान्नाडीविधानं च दुष्टव्रणहरं च यत्||१७||
स्रोतः प्रमुज्य दिग्धं तु द्वौ कालौ पिचुवर्तिभिः|
पुरेण धूपयित्वा तु माक्षिकेण प्रपूरयेत्||१८||
सुरसादिगणक्वाथफाणिताक्तां च योजयेत्|
पिचुवर्तिं सुसूक्ष्मैश्च तच्चूर्णैरवचूर्णयेत्||१९||
शूलक्लेदगुरुत्वानां विधिरेष निवर्तकः|
प्रियङ्गुमधुकाम्बष्ठाधातक्युत्पलपर्णिभिः||२०||
मञ्जिष्ठालोध्रलाक्षाभिः कपित्थस्य रसेन च|
पचेत्तैलं तदास्रावं निगृह्णात्याशु पूरणात्||२१||
नादबाधिर्ययोः कुर्याद् वातशूलोक्तमौषधम्|
श्लेष्मानुबन्धे श्लेष्माणं प्राग्जयेद्वमनादिभिः||२२||
एरण्डशिग्रुवरुणमूलकात्पत्रजे रसे|
चतुर्गुणे पचेत्तैलं क्षीरे चाष्टगुणोन्मिते||२३||
यष्ट्याह्वाक्षीरकाकोलीकल्कयुक्तं निहन्ति तत्|
नादबाधिर्यशूलानि नावनाभ्यङ्गपूरणैः||२४||
पक्वं प्रतिविषाहिङ्गुमिशित्वक्ऽऽस्वर्जिकोषणैः|
ससुक्तैः पूरणात्तैलं रुक्ऽऽस्रावाश्रुतिनादनुत्||२५||
कर्णनादे हितं तैलं सर्षपोत्थं च पूरणे||२६||
शुष्कमूलकखण्डानां क्षारो हिङ्गु महौषधम्||२६||
शतपुष्पावचाकुष्ठदारुशिग्रुरसाञ्जनम्|
सौवर्चलयवक्षारस्वर्जिकौद्भिदसैन्धवम्||२७||
भूर्जग्रन्थिबिडं मुस्ता मधुसुक्तं चतुर्गुणम्|
मातुलुङ्गरसस्तद्वत् कदलीस्वरसश्च तैः||२८||
पक्वं तैलं जयत्याशु सुकृच्छ्रानपि पूरणात्|
कण्डूं क्लेदं च बाधिर्यपूतिकर्णत्वरुक्ऽऽकृमीन्||२९||
क्षारतैलमिदं श्रेष्ठं मुखदन्तामयेषु च||३०||
अथ सुप्ताविव स्यातां कर्णौ रक्तं हरेत्ततः||३०||
सशोफक्लेदयोर्मन्दश्रुतेर्वमनमाचरेत्|
बाधिर्यं वर्जयेद्बालवृद्धयोश्चिरजं च यत्||३१||
प्रतीनाहे परिक्लेद्य स्नेहस्वेदैर्विशोधयेत्|
कर्णशोधनकेनानु कर्णं तैलस्य पूरयेत्||३२||
ससुक्तसैन्धवमधोर्मातुलुङ्गरसस्य वा|
शोधनाद्रूक्षतोत्पत्तौ घृतमण्डस्य पूरणम्||३३||
क्रमोऽयं मलपूर्णेऽपि कर्णेकण्ड्वां कफापहम्|
नस्यादि, तद्वच्छोफेऽपि कटूष्णैश्चात्र लेपनम्||३४||
कर्णस्रावोदितं कुर्यात्पूतिकृमिणकर्णयोः|
पूरणं कटुतैलेन विशेषात् कृमिकर्णके||३५||
वमिपूर्वा हिता कर्णविद्रधौ विद्रधिक्रिया|
पित्तोत्थकर्णशूलोक्तं कर्तव्यं क्षतविद्रधौ||३६||
अर्शोर्बुदेषु नासावद् आमा कर्णविदारिका|
कर्णविद्रधिवत्साध्या यथादोषोदयेन च||३७||
पालीशोषेऽनिलश्रोत्रशूलवन्नस्यलेपनम्|
स्वेदं च कुर्यात् स्विन्नां च पालीमुद्वर्तयेत्तिलैः||३८||
प्रियालबीजयष्ट्याह्वहयगन्धायवान्वितैः||३९||
ततः पुष्टिकरैः स्नेहैरभ्यङ्गं नित्यमाचरेत्||३९||
शतावरीवाजिगन्धापयस्यैरण्डजीवकैः|
तैलं विपक्वं सक्षीरं पालीनां पुष्टिकृत्परम्||४०||
कल्केन जीवनीयेन तैलं पयसि पाचितम्|
आनूपमांसक्वाथे च पालीपोषणवर्धनम्||४१||
पालीं छित्त्वाऽतिसङ्क्षीणां शेषां सन्धाय पोषयेत्||४२||
याप्यैवं तन्त्रिकाख्याऽपि परिपोटेऽप्ययं विधिः||४२||
उत्पाते शीतलैर्लेपो जलौकोहृतशोणिते||४३||
जम्ब्वाम्रपल्लवबलायष्टीरोध्रतिलोत्पलैः||४३||
सधान्याम्लैः समञ्जिष्ठैः सकदम्बैः ससारिवैः|
सिद्धमभ्यञ्जने तैलं विसर्पोक्तघृतानि च||४४||
उन्मन्थेऽभ्यञ्जनं तैलं गोधाकर्कवसान्वितम्|
तालपत्र्यश्वगन्धार्कबाकुचीफलसैन्धवैः||४५||
सुरसालाङ्गलीभ्यां च सिद्धं, तीक्ष्णं च नावनम्||४६||
दुर्विद्धेऽश्मन्तजम्ब्वाम्रपत्रक्वाथेन सेचिताम्||४६||
तैलेन पालीं स्वभ्यक्तां सुश्लक्ष्णैरवचूर्णयेत्|
चूर्णैर्मधुकमञ्जिष्ठाप्रपुण्ड्राह्वनिशोद्भवैः||४७||
लाक्षाविडङ्गसिद्धं च तैलमभ्यञ्जने हितम्||४८||
स्विन्नां गोमयजैः पिण्डैर्बहुशः परिलेहिकाम्||४८||
विडङ्गसारैरालिम्पेदुरभ्रीमूत्रकल्कितैः|
कौटजेङ्गुदकारञ्जबीजशम्याकवल्कलैः||४९||
अथवाऽभ्यञ्जनं तैर्वा कटुतैलं विपाचयेत्|
सनिम्बपत्रमरिचमदनैर्लेहिकाव्रणे||५०||
छिन्नं तु कर्णं शुद्धस्य बन्धमालोच्य यौगिकम्|
शुद्धास्रं लागयेल्लग्ने सद्यश्छिन्ने विशोधनम्||५१||
अथ ग्रथित्वा केशान्तं कृत्वा छेदनलेखनम्|
निवेश्य सन्धिं सुषमं न निम्नं न समुन्नतम्||५२||
अभ्यज्य मधुसर्पिर्भ्यां पिचुप्लोतावगुण्ठितम्|
सूत्रेणागाढशिथिलं बद्ध्वा चूर्णैरवाकिरेत्||५३||
शोणितस्थापनैर्व्रण्यमाचारं चादिशेत्ततः|
सप्ताहादामतैलाक्तं शनैरपनयेत् पिचुम्||५४||
सुरूढं जातरोमाणं श्लिष्टसन्धिं समं स्थिरम्|
सुवर्ष्माणमरोगं च शनैः कर्णं विवर्धयेत्||५५||
जलशूकः स्वयङ्गुप्ता रजन्यौ बृहतीफलम्|
अश्वगन्धाबलाहस्तिपिप्पलीगौरसर्षपाः||५६||
मूलं कोशातकाश्वघ्नरूपिकासप्तपर्णजम्|
छुच्छुन्दरी कालमृता गृहं मधुकरीकृतम्||५७||
जतूका जलजन्मा च तथा शबरकन्दकम्|
एभिः कल्कैः खरं पक्वं सतैलं माहिषं घृतम्||५८||
हस्त्यश्वमूत्रेण परमभ्यङ्गात्कर्णवर्धनम्||५९||
अथ कुर्याद्वयस्थस्य छिन्नां शुद्धस्य नासिकाम्||५९||
छिन्द्यान्नासासमं पत्रं तत्तुल्यं च कपोलतः|
त्वङ्मांसं नासिकासन्ने रक्षंस्तत्तनुतां नयेत्||६०||
सीव्येद् गण्डं ततः सूच्या सेविन्या पिचुयुक्तया|
नासाच्छेदेऽथ लिखिते परीवर्त्योपरि त्वचम्||६१||
कपोलवध्रं सन्दध्यात्सीव्येन्नासां च यत्नतः|
नाडीभ्यामुत्क्षिपेदन्तः सुखोच्छ्वासप्रवृत्तये||६२||
आमतैलेन सिक्त्वाν पत्तङ्गमधुकाञ्जनैः|
शोणितस्थापनैश्चान्यैः सुश्लक्ष्णैरवचूर्णयेत्||६३||
ततो मधुघृताभ्यक्तं बध्वाऽऽचारिकमादिशेत्|
ज्ञात्वाऽवस्थान्तरं कुर्यात् सद्योव्रणविधिं ततः||६४||
छिन्द्याद्रूढेऽधिकं मांसं नासोपान्ताच्च चर्म तत्|
सीव्येत्ततश्च सुश्लक्ष्णं हीनं संवर्धयेत्पुनः||६५||
निवेशिते यथान्यासं सद्यश्च्छिन्नेऽप्ययं विधिः|
नाडीयोगाद्विनौष्ठस्य नासासन्धानवद्विधिः|६६|
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने कर्णरोगप्रतिषेधो नामाष्टादशोऽध्यायः|१८|