11.सन्धिसितासितरोगप्रतिषेधाध्यायः
अथातः सन्धिसितासितरोगप्रतिषेधं व्याख्यास्यामः|
इति ह स्माहुरात्रेयदयो महर्षयः|(गद्यसूत्रे|२|)||३||
जलास्रावकफास्रावयोरसाध्यत्वादुपनाहचिकित्सामाह
उपनाहं भिषक् स्विन्नं भिन्नं व्रीहिमुखेन च|
लेखयेन्मण्डलाग्रेण ततश्च प्रतिसारयेत्||१||
पिप्पलीक्षौद्रसिन्धूत्थैर्बध्नीयात्पूर्ववत्ततः|
पटोलपत्रामलकक्वाथेनाश्च्योतयेच्च तम्||२||
पर्वणी बडिशेनात्ता बाह्यसन्धित्रिभागतः|
वृद्धिपत्रेण वर्ध्याऽर्धे स्यादश्रुगतिरन्यथा||३||
चिकित्सा चार्मवत्क्षौद्रसैन्धवप्रतिसारिता||४||
पूयालसे सिरां विध्येत्ततस्तमुपनाहयेत्||४||
कुर्वीत चाक्षिपाकोक्तं सर्वं कर्म यथाविधि||५||
सैन्धवार्द्रककासीसलोहताम्रैः सुचूर्णितैः||५||
चूर्णञ्जनं प्रयुञ्जीत सक्षौद्रैर्वा रसक्रियाम्||६||
कृमिग्रन्थिं करीषेण स्विन्नं भित्त्वा विलिख्य च||६||
त्रिफलाक्षौद्रकासीससैन्धवैः प्रतिसारयेत्|
पित्ताभिष्यन्दवच्छुक्तिं बलासाह्वयपिष्टके||७||
कफाभिष्यन्दवन्मुक्त्वा सिराव्यधमुपाचरेत्|
बीजपूररसाक्तं च व्योषकट्फलमञ्जनम्||८||
जातीमुकुलसिन्धूत्थदेवदारुमहौषधैः|
पिष्टैः प्रसन्नया वर्तिः शोफकण्डूघ्नमञ्जनम्||९||
रक्तस्यन्दवदुत्पातहर्षजालार्जुनुक्रिया||१०||
सिरोत्पाते विशेषेण घृतमाक्षिकमञ्जनम्||१०||
सिराहर्षे तु मधुना श्लक्ष्णघृष्टं रसाञ्जनम्|
अर्जुने शर्करामस्तुक्षौद्रैराश्चयोतनं हितम्||११||
स्फटिकः कुङ्कुमं शङ्खो मधुकं मधुनाऽञ्जनम्|
मधुना चाञ्जनं शङ्खः फेनो वा सितया सह||१२||
अर्मोक्तं पञ्चधा तत्र तनु धूमाविलं च यत्|
रक्तं दधिनिभं यच्च शुक्रवत्तस्य भेषजम्||१३||
उत्तानस्येतरत् स्विन्नं ससिन्धूत्थेन चाञ्जितम्|
रसेन बीजपूरस्य निमील्याक्षि विमर्दयेत्||१४||
इत्थं संरोषिताक्षास्य प्रचलेऽर्माधिमांसके|
धृतस्य निश्चलं मूर्ध्नि वर्त्मनोश्च विशेषतः||१५||
अपाङ्गमीक्षमाणस्य वृद्ध्ऽर्मणि कनीनकात्|
वली स्याद्यत्र तत्रार्म बडिशेनावलम्बितम्||१६||
नात्यायतं मुचुण्ड्या वा सूच्या सूत्रेण वा ततः|
समन्तान्मण्डलाग्रेण मोचयेदथ मोक्षितम्||१७||
कनीनकमुपानीय चतुर्भागावशेषितम्|
छिन्द्यात्कनीनकं रक्षेद्वाहिनीश्चाश्रुवाहिनीः||१८||
कनीनकव्यधादश्रु नाडी चाक्ष्णि प्रवर्तते|
वृद्धेऽर्मणि तथाऽपाङ्गात्पश्यतोऽस्य कनीनकम्||१९||
सम्यक् छिन्नं मधुव्योषसैन्धवप्रतिसारितम्|
उष्णेन सर्पिषा सिक्तमभ्यक्तं मधुसर्पिषा||२०||
बध्नीयात्सेचयेन्मुक्त्वा तृतीयादिदिनेषु च|
करञ्जबीजसिद्धेन क्षीरेण क्वथितैस्तथा||२१||
सक्षौद्रैर्द्विनिशारोध्रपटोलीयष्टिकिंशुकैः|
कुरण्टमुकुलोपेतैर्मुञ्चेदेवाह्नि सप्तमे||२२||
सम्यक् छिन्ने भवेत्स्वास्थ्यं हीनातिच्छेदजान् गदान्|
सेकाञ्जनप्रभृतिभिर्जयेल्लेखनबृंहणैः||२३||
सितामनःशिलैलेयलवणोत्तमनागरम्|
अर्धकर्षोन्मितं तार्क्ष्यं पलार्धं च मधुद्रुतम्||२४||
अञ्जनं श्लेष्मतिमिरपिल्लशुक्रार्मशेषजित्||२५||
त्रिफलैकतमद्रव्यत्वचं पानीयकल्किताम्||२५||
शरावपिहितां दग्ध्वा कपाले चूर्णयेत्ततः|
पृथक्शेषौषधरसैः पृथगेव च भाविता||२६||
सा मषी शोषिता पेष्या भूयो द्विलवणान्विता|
त्रिण्येतान्यञ्जनान्याह लेखनानि परं निमिः||२७||
सिराजाले सिरा यास्तु कठिना लेखनौषधैः|
न सिद्ध्यन्त्यर्मवत्तासां पिटिकानां च साधनम्||२८||
दोषानुरोधाच्छुक्रेषु स्निग्धरूक्षा वरा घृतम्|
तिक्तमूर्ध्वमसृक्स्रावो रेकसेकादि चेष्यते||२९||
त्रिस्त्रिवृद्वारिणा पक्वं क्षतशुक्रे घृतं पिबेत्|
सिरायाν हरेद्रक्तं जलौकोभिश्च लोचनात्||३०||
सिद्धेनोत्पलकाकोलीद्राक्षायष्टिविदारिभिः|
ससितेनाजपयसा सेचनं सलिलेन वा||३१||
रागाश्रुवेदनाशान्तौ परं लेखनमञ्जनम्||३२||
वर्तयो जातिमुकुललाक्षागैरिकचन्दनैः||३२||
प्रसादयन्ति पित्तास्रं घ्नन्ति च क्षतशुक्रकम्||३३||
दन्तैर्दन्तिवराहोष्ट्रगवाश्वाजखरोद्भवैः||३३||
सशङ्खमौक्तिकाम्भोधिफेनैर्मरिचपादिकैः|
क्षतशुक्रमपि व्यापि दन्तवर्तिर्निवतयेत्||३४||
तमालपत्रं गोदन्तशङ्खफेनोऽस्थि गार्दभम्|
ताम्रं च वर्तिर्मूत्रेण सर्वशुक्रकनाशिनी||३५||
रत्नानि दन्ताः शृङ्गाणि धातवस्त्र्यूषणं त्रुटिः|
करञ्जबीजं लशुनो व्रणसादि च भेषजम्||३६||
सव्रणाव्रणगम्भीरत्वक्स्थशुक्रघ्नमञ्जनम्|
निम्नमुन्नमयेत्स्नेहपाननस्यरसाञ्जनैः||३७||
सरुजं नीरुजं तृप्तिपुटपाकेन शुक्रकम्||३८||
शुद्धशुक्रे निशायष्टीसारिवाशाबराम्भसा||३८||
सेचनं रोध्रपोटल्या कोष्णाम्भोमग्नयाऽथवा||३९||
बृहतीमूलयष्ट्याह्वताम्रसैन्धवनागरैः||३९||
धात्रीफलाम्बुना पिष्टैर्लेपितं ताम्रभाजनम्|
यवाज्यामलकीपत्रैर्बहुशो धूपयेत्ततः||४०||
तत्र कुर्वीत गुटिकास्ता जलक्षौद्रपेषिताः|
महानीला इति ख्याताः शुद्धशुक्रहराः परम्||४१||
स्थिरे शुरे घने चास्य बहुशोऽपहरेद्रसृक्|
शिरःकायविरेकांश्च पुटपाकांश्च भूरिशः||४२||
कुर्यान्मरिचवैदेहीशिरीषफलसैन्धवैः|
हर्षणं त्रिफलाक्वाथपीतेन लवणेन वा||४३||
कुर्यादञ्जनयोगौ वा श्लोकार्धगदिताविमौ|
शङ्खकोलास्थिकतकद्राक्षामधुकमाक्षिकैः||४४||
सुरादन्तार्णवमलैः शिरीषकुसुमान्वितैः||४५||
धात्रीफणिज्जकरसे क्षारो लाङ्गलिकोद्भवः||४५||
उषितः शोषिततश्चूर्णः शुक्रहर्षणमञ्जनम्||४६||
मुद्गा वा निस्तुषाः पिष्टाः शङ्खक्षौद्रसमायुताः||४६||
सारो मधूकान्मधुमान् मज्जा वाऽक्षात्समाक्षिका|
गोखराश्वोष्ट्रदशनाः शङ्खः फेनः समुद्रजः||४७||
वर्तिरर्जुनतोयेन हृष्टशुक्रकनाशिनी||४८||
उत्सन्नं वा सशल्यं वा शुक्रं वालादिभिर्लिखेत्||४८||
सिराशुक्रे त्वदृष्टिघ्ने चिकित्सा व्रणशुक्रवत्||४९||
पुण्ड्रयष्ट्याह्वकाकोलीसिंहीलोहनिशाञ्जनम्||४९||
कल्कितं छागदुग्धेन सग़ृतैर्धूपितं यवैः|
धात्रीपत्रैश्च पर्यायाद्वर्तिरत्राञ्जनं परम्||५०||
अशान्तावर्मवच्छस्त्रमजकाख्ये च योजयेत्||५१|
अजकायामसाध्यायां शुक्रेऽन्यत्र च तद्विधे||५१||
वेदनोपशमं स्नेहपानासृक्स्रावणादिभिः|
कुर्याद्बीभत्सतां जेतुं शुक्रस्योत्सेधसाधनम्||५२||
नालिकेरास्थिभल्लाततालवंशकरीरजम्|
भस्माद्भिः स्रावयेत्ताभिर्भावयेत्करभास्थिजम्||५३||
चूर्णं शुक्रेष्वसाध्येषु तद्वैवर्ण्यघ्नमञ्जनम्|
साध्येषु साधनायालमिदमेव च शीलितम्||५४||
अजकां पाऱ्श्वतो विध्वा सूच्या विस्राव्य चोदकम्|
समं प्रपीड्याङ्गुष्ठेन वसार्द्रेणानु पूरयेत्|५५|
व्रणं गोमांसचूर्णेन बद्धं बद्धं विमुच्य च|
सप्तरात्राद् व्रणे रूढे कृष्णभागे समे स्थिरे|५६|
स्नेहाञ्जनं च कर्तव्यं नस्यं च क्षीरसर्पिषा|
तथाऽपि पुनराध्माने भेदच्छेदादिकां क्रियाम्|५७|
युक्त्या कुर्याद्यथा नातिच्छेदेन स्यान्निमज्जनम्|५७ १/२|
नित्यं च शुक्रेषु शृतं यथास्वं
पाने च मर्शे च घृतं विदध्यात्|
न हीयते लब्धबला तथाऽन्त-
स्तीक्ष्णाञ्जनैर्दृक् सततं प्रयुक्तैः|५८ १/२|
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविर-
चितायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तर-
स्थाने सन्धिसितासितरोगप्रतिषेधो
नामैकादशोऽध्यायः|११|