6.दूतादिविज्ञानीनीयो अध्यायः
अथातो दूतादिविज्ञानीयं शारीरं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः।
पाखण्डाश्रमवर्णानां सवर्णाः कर्मसिद्धये।
त एव विपरीताः स्युर्दूताः कर्मविपत्तये॥१॥
दीनं भीतं द्रुतं त्रस्तं रूक्षामङ्गलवादिनम्।
शस्त्रिणं दण्डिनं षण्ढं मुण्डश्मश्रुजटाधरम्॥२॥
अमङ्गलाह्वयं क्रूरकर्माणं मलिनं स्त्रियम्।
अनेकं व्याधितं व्यङ्गं रक्तमाल्यानुलेपनम्॥३॥
तैलपङ्काङ्कितं जीर्णविवर्णार्द्रैकवाससम्।
खरोष्ट्रमहिषारूढं काष्ठलोष्टादिमर्दिनम्॥४॥
नानुगच्चेद्भिषग्दूतमाह्वयन्तं च दूरतः।
अशस्तचिन्तावचने नग्ने चिन्दति भिन्दति॥५॥
जुह्वाने पावकं पिण्डान् पित्तृभ्यो निर्वपत्यपि।
सुप्ते मुक्तकचेऽभ्यक्ते रुदत्यप्रयते तथा॥६॥
वैद्ये दूता मनुष्याणामागच्चन्ति मुमूर्षताम्।
विकारसामान्यगुणे देशे कालेऽथवा भिषक्॥७॥
दूतमभ्यागतं दृष्ट्वा नातुरं तमुपाचरेत्।
स्पृशन्तो नाभिनासास्यकेशरोमनखद्विजान्॥८॥
गुह्यपृष्ठस्तनग्रीवाजठरानामिकाङ्गुलीः।
कार्पासबुससीसास्थिकपालमुशलोपलम्॥९॥
मार्जनीशूर्पचैलान्तभस्माङ्गारदशातुषान्।
रज्जूपानत्तुलापाशमन्यद्वा भग्नविच्युतम्॥१०॥
तत्पूर्वदर्शने दूता व्याहरन्ति मरिष्यताम्।
तथाऽर्धरात्रे मध्याह्ने सन्ध्ययोः पर्ववासरे॥११॥
षष्ठीचतुर्थीनवमीराहुकेतूदयादिषु।
भरणीकृत्तिकाऽऽश्लेषापूर्वाऽऽर्द्रापैत्र्यनैॠते॥१२॥
यस्मिंश्च दूते ब्रुवति वाक्यमातुरसंश्रयम्।
पश्येन्निमित्तमशुभं तं च नानुव्रजेद्भिषक्॥१३॥
तद्यथा विकलः प्रेतः प्रेतालङ्कार एव वा।
चिन्नं दग्धं विनष्टं वा तद्वादीनि वचांसि वा॥१४॥
रसो वा कटुकस्तीव्रो गन्धो वा कौणपो महान्।
स्पर्शो वा विपुलः क्रूरो यद्वाऽन्यदपि तादृशम्॥१५॥
तत्सर्वमभितो वाक्यं वाक्यकालेऽथवा पुनः।
दूतमभ्यागतं दृष्ट्वा नातुरं तमुपाचरेत्॥१६॥
हाहाक्रन्दितमुत्क्रुष्टमाक्रुष्टं स्खलनं क्षुतम्।
वस्त्रातपत्रपादत्रव्यसनं व्यसनीक्षणम्॥१७॥
चैत्यध्वजानां पात्राणां पूर्णानां च निमज्जनम्।
हतानिष्टप्रवादाश्च दूषणं भस्मपांसुभिः॥१८॥
पथःच्चेदोऽहिमार्जारगोधासरठवानरैः।
दीप्तां प्रति दिशं वाचः क्रूराणां मृगपक्षिणाम्॥१९॥
कृष्णधान्यगुडोदश्विल्लवणासवचर्मणाम्।
सर्षपाणां वसातैलतृणपङ्केन्धनस्य च॥२०॥
क्लीबक्रूरश्वपाकानां जालवागुरयोरपि।
चर्दितस्य पुरीषस्य पूतिदुर्दर्शनस्य च॥२१॥
निःसारस्य व्यवायस्य कार्पासादेररेरपि।
शयनासनयानानामुत्तानानां तु दर्शनम्॥२२॥
न्युब्जानामितरेषां च पात्रादीनामशोभनम्।
पुंसंज्ञाः पक्षिणो वामाः स्त्रीसंज्ञा दक्षिणाः शुभाः॥२३॥
प्रदक्षिणं खगमृगा यन्तो, नैवं श्वजम्बुकाः।
अयुग्माश्च मृगाः शस्ताः शस्ता नित्यं च दर्शने॥२४॥
चाषभासभरद्वाजनकुलच्चागबर्हिणः।
अशुभं सर्वथोलूकबिडालसरठेक्षणम्॥२५॥
प्रशस्ताः कीर्तने कोलगोधाहिशशजाहकाः।
न दर्शने न विरुते, वानरर्क्षावतोऽन्यथा॥२६॥
धनुरैन्द्रं च लालाटमशुभं, शुभमन्यतः।
अग्निपूर्णानि पात्राणि भिन्नानि विशिखानि च॥२७॥
दध्यक्षतादि निर्गच्छद्वक्ष्यमाणं च मङ्गलम्।
वैद्यो मरिष्यतां वेश्म प्रविशन्नेव पश्यति॥२८॥
दूताद्यसाधु दृष्ट्वैवं त्यजेदार्तमतोऽन्यथा।
करुणाशुद्धसन्तानो यत्नतस्तमुपाचरेत्॥२९॥
दध्यक्षतेक्षुनिष्पावप्रियङ्गुमधुसर्पिषाम्।
यावकाञ्जनभृङ्गारघण्टादीपसरोरुहाम्॥३०॥
दूर्वार्द्रमत्स्यमांसानां लाजानां फलभक्षयोः।
रत्नेभपूर्णकुम्भानां कन्यायाः स्यन्दनस्य च॥३१॥
नरस्य वर्धमानस्य देवतानां नृपस्य च।
शुक्लानां सुमनोवालचामराम्बरवाजिनाम्॥३२॥
शङ्खसाधुद्विजोष्णीषतोरणस्वस्तिकस्य च।
भूमेः समुद्धतायाश्च वह्नेः प्रज्वलितस्य च॥३३॥
मनोज्ञस्यान्नपानस्य पूर्णस्य शकटस्य च।
नृभिर्धेन्वाः सवत्साया वडावाय़ाः स्त्रिया अपि॥३४॥
जीवञ्जीवकसारङ्गसारसप्रियवादिनाम्।
हंसानां शतपत्राणां बद्धस्यैकपशोस्तथा॥३५॥
रुचकादर्शसिद्धार्थरोचनानां च दर्शनम्।
गन्धः सुसुरभिर्वर्णः सुशुक्लो मधुरो रसः॥३६॥
गोपतेरनुकूलस्य स्वनस्तद्वद्गवामपि।
मृगपक्षिनराणां च शोभिनां शोभना गिरः॥३७॥
छत्रध्वजपताकानामुत्क्षेपणमभिष्टुतिः।
भेरीमृदङ्गशङ्खानां शब्दाः पुण्य़ाहनिःस्वनाः॥३८॥
वेदाध्ययनशब्दाश्च सुखो वायुः प्रदक्षिणः।
पथि वेश्मप्रवेशे च विद्यादारोग्यलक्षणम्॥३९॥
इत्युक्तं दूतशकुनं स्वप्नानूर्ध्वं प्रचक्षते।
स्वप्ने मद्यं सह प्रेतैर्यः विपन् कृष्यते शुना॥४०॥
स मर्त्यौ मृत्युना शीघ्रं ज्वररूपेण नीयते।
रक्तमाल्यवपुर्वस्त्रो यो हसन् ह्रियते स्त्रिया॥४१॥
सोऽस्रपित्तेन महिषश्वराहोष्ट्रगर्दभैः।
यः प्रयाति दिशं याम्यां मरणं तस्य यक्ष्मणा॥४२॥
लता कण्टकिनी वंशस्तालो वा हृदि जायते।
यस्य तस्याशु गुल्मेन यस्य वह्निमनर्चिषम्॥४३॥
जुह्नतो घृतसिक्तस्य नग्नस्योरसि जायते।
पद्मं स नश्येत्कुष्ठेन चण्डालैः सह यः पिबेत्॥४४॥
स्नेहं बहुविधं स्वप्ने स प्रमेहेण नश्यति।
उन्मादेन जले मज्जेद्यो नृत्यन् राक्षसैः सह॥४५॥
अपस्मारेण यो मर्त्यो नृत्यन् प्रेतेन नीयते।
यानं खरोष्ट्रमार्जारकपिशार्दूलसूकरैः॥४६॥
यस्य प्रेतैः शृगालैर्वा स मृत्योर्वर्तते मुखे।
अपूपशष्कुलीर्जग्ध्वा विबुद्धस्तद्विधं वमन्॥४७॥
न जीवति अक्षिरोगाय सूर्यन्दुग्रहणेक्षणम्।
सूर्याचन्द्रमसोः पातदर्शनं दृग्विनाशनम्॥४८॥
मूर्ध्नि वंशलतादीनां सम्भवो वयसां तथा।
निलयो मुण्डता काकगृध्राद्यैः परिवारणम्॥४९॥
तथा प्रेतपिशाचस्त्रीद्रविडान्ध्रगवाशनैः।
सङ्गो वेत्रलतावंशतृणकण्टकसङ्कटे॥५०॥
श्वभ्रश्मशानशयनं पतनं पांसुभस्मनोः।
मज्जनं जलपङ्कादौ शीग़्रेण स्रोतसा हृतिः॥५१॥
नृत्ववादित्रगीतानि रक्तस्रग्वस्त्रधारणम्।
वयोङ्गवृद्धिरभ्यङ्गो विवाहः श्मश्रुकर्म च॥५२॥
पक्वान्नस्नेहमद्याशः प्रच्चर्दनविरेचने।
हिरण्यलोहयोर्लाभः कलिर्बन्धपराजयौ॥५३॥
उपानद्युगनाशश्च प्रपातः पादचर्मणोः।
हर्षो भृशं प्रकुपितैः पितृभिश्चावभर्त्सनम्॥५४॥
प्रदीपग्रहनक्षत्रदन्तदैवतचक्षुषाम्।
पतनं वा विनाशो वा, भेदनं पर्वतस्य च॥५५॥
कानने रक्तकुसुमे पापकर्मनिवेशने।
चितान्धकारसम्बाधे जनन्यां च प्रवेशनम्॥५६॥
पातः प्रासादशैलादेर्मत्स्येन ग्रसनं तथा।
काषायिणामसोम्यानां नग्नानां दण्डधारिणां॥५७॥
रक्ताक्षाणां च कृष्णानां दर्शनं जातु नेष्यते।
कृष्णा पापाननाचारा दीर्घकेशनखस्तनी॥५८॥
विरागमाल्यवसना स्वप्ने कालनिशा मता।
मनोवहानां पूर्णत्वात्स्रोतसां प्रबलैर्मलैः॥५९॥
दृश्यन्ते दारुणाः स्वप्ना रोगी यैर्याति पञ्चताम्।
अरोगः संशयं प्राप्य कश्चिदेव विमुच्यते॥६०॥
दृष्टः श्रुतोऽनुभूतश्च प्रार्थितः कल्पितस्तथा।
भाविको दोषजश्चेति स्वप्नः सप्तविधो मतः॥६१॥
तेष्वाद्या निष्फलाः पञ्ह्च यथास्वप्रकृतिर्दिवा।
विस्मृतो दीर्घह्रस्वोऽति पूर्वरात्रे चिरात्फलम्॥६२॥
दृष्टः करोति तुच्चं च गोसर्गे तदहर्महत्।
निद्रया वाऽनुपहतः प्रतीपैर्वचनैस्तथा॥६३॥
याति पापोऽल्पफलतां दानहोमजपादिभिः।
अकल्याणमपि स्वप्नं दृष्ट्वा तत्रैव यः पुनः॥६४॥
पश्येत्सौम्यं शुभं तस्य शुभमेव फलं भवेत्।
देवान् द्विजान् गोवृषभान् जीवतः सुहृदो नृपान्॥६५॥
साधून् यशस्विनो वह्निमिद्धं स्वच्चान् जलाशयान्।
कन्याः कुमारकान् गौरान् शुक्लवस्त्रान्सुतेजसः॥६६॥
नराशनं दीप्ततनुं समन्ताद्रुधिरोक्षितम्।
यः पश्येल्लभते यो वा चत्रादर्शविषामिषम्॥६७॥
शुक्लाः सुमनसो वस्त्रममेध्यालेपनं फलम्।
शैलप्रासादसफलवृक्षसिंहनरद्विपान्॥६८॥
आरोहेद्गोश्वयानं च, तरेन्नदहदोदधीन्।
पूर्वोत्तरेण गमनमगम्यागमनं मृतम्॥६९॥
सम्बाधान्निःसृतिर्देवैः पितृभिश्चाभिनन्दनम्।
रोदनं पतितोत्थानं द्विषतां चावमर्दनम्॥७०॥
यस्य स्यादायुरारोग्यं वित्तं बहु च सोऽश्नुते।
मङ्गलाचारसम्पन्नः परिवारस्तथाऽऽतुरः॥७१॥
श्रद्धधानोऽनुकूलश्च प्रभूतद्रव्यसङ्ग्रहः।
सत्त्वलक्षणसंयोगो भक्तिर्वैद्यद्विजातिषु॥७२॥
चिकित्सायामनिर्वेदस्तदारोग्यस्य लक्षणम्।
इत्यत्र जन्ममरणं यतः सम्यगुदाहृतम्॥७३॥
शरीरस्य ततः स्थानं शारीरमिदमुच्यते॥७३ १/२॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्ग हृदयसंहितायां द्वितीये शारीरस्थाने दूतादिविज्ञानीयो नाम षष्ठोऽध्यायः॥६॥