2.गर्भव्यापद्विधिरध्यायः
अथातो गर्भव्यापदं शारीरं व्याख्यास्यामः।
इति ह स्माहुरात्रेयादयो महर्षयः।
गर्भिण्याः परिहार्याणां सेवया रोगतोऽथ वा।
पुष्पेदृष्टेऽथवा शूले बाह्यान्तः स्निग्धशीतलम्॥१॥
सेव्याम्भोजहिमक्षीरिवल्ककल्काज्यलेपितान्।
धारयेद्योनिबस्तिभ्यामार्द्रार्द्रान् पिचुनक्तकान्॥२॥
शतधौतघृताक्तां स्त्रीं तदम्भस्यवगाहयेत्।
ससिताक्षौद्रकुमुदकमलोत्पलकेसरम्॥३॥
लिह्यात् क्षीरघृतं खादेच्छृङ्गाटककसेरुकम्।
पिबेत्कान्ताब्जशालूकबालोदुम्बरवत्पयः॥४॥
शृतेन शालिकाकोलीद्विबलामधुकेक्षुभिः।
पयसा रक्तशाल्यन्नमद्यात्समधुशर्करम्॥५॥
रसैर्वा जाङ्गलैः शुद्धिवर्जं चास्रोक्तमाचरेत्।
असम्पूर्णत्रिमासायाः प्रत्याख़्याय प्रसाधयेत्॥६॥
आमान्वये च तत्रेष्टं शीतं रूक्षोपसंहितम्।
उपवासो घनोशीरगुडूच्यरलुधान्यकाः॥७॥
दुरालभापर्पटकचन्दनातिविषाबलाः।
क्वथिताः सलिले पानं तृणधान्यानि भोजनम्॥८॥
मुद्गादियूषैरामे तु जिते स्निग्धादि पूर्ववत्।
गर्भे निपतिते तीक्ष्णं मद्यं सामर्थ्यतः पिबेत्॥९॥
गर्भकोष्ठविशुद्द्यर्थमर्तिविस्मरणाय च।
लग़ुना पञ्चमूलेन रूक्षां पेयां ततः पिबेत्॥१०॥
पेयाममद्यपा कल्के साधितां पाञ्चकौलिके।
बिल्वादिपञ्चकक्वाथे तिलोद्दालकतण्डुलैः॥११॥
मासतुल्यदिनान्येवं पेयादिः पतिते क्रमः।
लग़ुरस्नेहलवणो दीपनीययुतो हितः॥१२॥
दोषधातुपरिक्लेदशोषार्थं विधिरित्ययम्।
स्नेहान्नबस्तयश्चोर्ध्वं बल्यदीपनजीवनाः॥१३॥
सञ्जातसारे महति गर्भे योनिपरिस्रवात्।
वृद्धिमप्राप्राप्नुवन् गर्भः कोष्ठे तिष्ठति सस्फुरः॥१४॥
उपविष्टकमाहुस्तं, वर्द्धते तेन नोदरम्।
शोकोपवासरूक्षाद्यैरथवा योन्यतिस्रवात्॥१५॥
वाते क्रुद्धे कृशः शुष्येद्गर्भो नागोदरं तु तम्।
उदरं वृद्धमप्यत्र हीयते स्फुरणं चिरात्॥१६॥
तयोर्बृंहणवातघ्नमधुरद्रव्यसंस्कृतैः।
ग़ृतक्षीररसैस्तृप्तिरामगर्भांश्च ख़ादयेत्॥१७॥
तैरेव च सुभिक्षायाः क्षोभणं यानवाहनैः।
लीनाख्ये निस्फुरे श्येनगोमत्स्योत्क्रोशबर्हिजाः॥१८॥
रसा बहुघृता देया माषमूलकजा अपि।
बालबिल्वंतिलान्माषान्सक्तूंश्च पयसा पिबेत्॥१९॥
समेद्यमांसं मधु वा कट्यभ्यङ्गं च शीलयेत्।
हर्षयेत्सततं चैनामेवं गर्भः प्रवर्द्धते॥२०॥
पुष्टोऽन्यथा वर्षगणैः कृच्छ्राज्जायेत, नैव वा।
उदावर्तं तु गर्भीण्याः स्नेहैराशुतरां जयेत्॥२१॥
योग्यैश्च बस्तिभिर्हन्यात्सगर्भां स हि गर्भीणीम्।
गर्भेऽतिदोषोपचयादपथ्यैर्दैवतोऽपि वा॥२२॥
मृतेऽन्तरुदरं शीतं स्तब्धं ध्मातं भृशव्यथम्।
गर्भास्पन्दो भ्रमतृष्णा कृच्छ्रादुच्छ्वसनं क्लमः॥२३॥
अरतिः स्रस्तनेत्रत्वमावीनामसमुद्भवः।
तस्याः कोष्णाम्बुसिक्तायाः पिष्ट्वा योनिं प्रलेपयेत्॥२४॥
गुडं किण्वं सलवणं तथान्तः पूरयेन्मुहुः।
ग़ृतेन कल्कीकृतया शाल्मल्यतसिपिच्छया॥२५॥
मन्त्रैर्योगैर्जरायूक्तैर्मूढगर्भो न चेत्पतेत्।
अथापृच्छयेश्वरं वैद्यो यत्नेनाशु तमाहरेत्॥२६॥
हस्तमभ्यज्य योनिं च साज्यशाल्मलिपिच्छया।
हस्तेन शक्यं तेनैव गात्रं च विषमं स्थितम्॥२७॥
आञ्छनोत्पीडसम्पीडविक्षेपोत्क्षेपणादिभिः।
आनुलोम्य समाकर्षेद्योनिं प्रत्यार्जवागतम्॥२८॥
हस्तपादशिरोभिर्यो योनिं भुग्नः प्रपद्यते।
पादेन योनिमेकेन भुग्नोऽन्येन गुदं च यः॥२९॥
विष्कम्भौ नाम तौ मूढौ शस्त्रदारणमर्हतः।
मण्डलाङ्गुलिशस्त्राभ्यां तत्र कर्म प्रशस्यते॥३०॥
वृद्धिपत्रं हि तीक्ष्णाग्रं न योनाववचारयेत्।
पूर्वं शिरःकपालानि दारयित्वा विशोधयेत्॥३१॥
कक्षोरस्तालुचिबुकप्रदेशेऽन्यतमे ततः।
समालम्ब्य दृढं कर्षेत्कुशलो गर्भशङ्कुना॥३२॥
अभिन्नशिरसं त्वक्षिकूटयोर्गण्डयोरपि।
बाहुं च्छित्वांऽससक्तस्य वाताध्मातोदरस्य तु॥३३॥
विदार्य कोष्ठमन्त्राणि बहिर्वा सन्निरस्य च।
कटीसक्तस्य तद्वच्च तत्कपालानि दारयेत्॥३४॥
यद्यद्वायुवशादङ्गं सज्जेद्गर्भस्य खण्डशः।
तत्तच्छित्त्वाऽऽहरेत्सम्यग्रक्षेन्नारीं च यत्नतः॥३५॥
गर्भस्य हि गतिं चित्रां करोति विगुणोऽनिलः।
तत्रानल्पमतिस्तस्मादवस्थापेक्षमाचरेत्॥३६॥
छिन्द्याद्गर्भं न जीवन्तं मातरं स हि मारयेत्।
सहात्मना, न चोपेक्ष्यः क्षणमप्यस्तजीवितः॥३७॥
योनिसंवरणभ्रंशमक्कल्लश्वासपीडिताम्।
पूत्युद्गारां हिमाङ्गी च मूढगर्भां परित्यजेत्॥३८॥
अथापतन्तीमपरां पातयेत्पूर्ववद्भिषक्।
एवं निर्हृतशल्यां तु सिञ्चेदुष्णेन वारिणा॥३९॥
दद्यादभ्यक्तदेहायै योनौ स्नेहपिचुं ततः।
योनिर्मृदुर्भवेत्तेन शूलं चास्याः प्रशाम्यति॥४०॥
दीप्यकातिविषारास्नाहिङ्ग्वेलापञ्चकोलकात्।
चूर्णं स्नेहेन कल्कं वा क्वाथं वा(तां)पाययेत्ततः॥४१॥
कटुकातिविषापाठाशाकत्वग्घिङ्गुतेजिनीः।
तद्वच्च दोषस्यन्दार्थं वेदनोपशमाय च॥४२॥
त्रिरात्रमेवं, सप्ताहं स्नेहमेव ततः पिबेत्।
सायं पिबेदरिष्टं च तथा सुकृतमासवम्॥४३॥
शिरीषककुभक्वाथपिचून् योनौ विनिक्षिपेत्।
उपद्रवाश्च येऽन्ये स्युस्तान् यथास्वमुपाचरेत्॥४४॥
पयो वातहरैः सिद्धं दशाहं भोजने हितम्।
रसो दशाहं च परं लघुपथ्याल्पभोजना॥४५॥
स्वेदाभ्यङ्गपरा स्नेहान् बलातैलादिकान् भजेत्।
ऊर्ध्वं चतुर्भ्यो मासेभ्यः सा क्रमेण सुखानि च॥४६॥
बलामूलकषायस्य भागाः षट् पयसस्तथा।
यवकोलकुलत्थानां दशमूलस्य चैकतः॥४७॥
निष्क्वाथभागो भागश्च तैलस्य तु चतुर्दशः।
द्विमेदादारुमञ्जिष्ठाकाकोलीद्वयचन्दनैः॥४८॥
सारिवाकुष्ठतगरजीवकर्षभसन्धवैः।
कालानुसार्याशैलेयवचागुरुपुनर्नवैः॥४९॥
अश्वगन्धावरीक्षीरशुक्लायष्टीवरारसैः।
शताह्वाशूर्पपर्ण्येलात्वक्पत्रैः श्लक्ष्णकल्कितैः॥५०॥
पक्वं मृद्वग्निना तैलं सर्ववातविकारजित्।
सूतिकाबालमर्मास्थिहतक्षीणेषु पूजितम्॥५१॥
ज्वरगुल्मग्रहोन्मादमूत्राघातान्त्रवृद्धिजित्।
धन्वन्तरेरभिमतं योनिरोगक्षयापहम्॥५२॥
बस्तिद्वारे विपन्नायाः कुक्षिः प्रस्पन्दते यदि।
जन्मकाले ततः शीघ्रं पाटयित्वोद्धरेच्छिशुम्॥५३॥
मधुकं शाकबीजं च पयस्या सुरदारु च।
अश्मन्तकः कृष्णतिलास्ताम्रवल्ली शतावरी॥५४॥
वृक्षादनी पयस्या च लता सोत्पलसारिवा।
अनन्ता सारिवा रास्ना पद्मा च मधुयष्टिका॥५५॥
बृहतीद्वयकाश्मर्यक्षीरिशुङ्गत्वचा घृतम्।
पृश्निपर्णी बला शिग्रुः श्वदंष्ट्रा मधुपर्णिका॥५६॥
शृङ्गाटकं बिसं द्राक्षा कसेरु मधुकं सिता।
सप्तैतान् पयसा योगानर्द्धश्लोकसमापनान्॥५७॥
क्रमात्सप्तसु मासेषु गर्भे स्रवति योजयेत्।
कपित्थबिल्वबृहतीपटोलेक्षुनिदिग्धिकात्॥५८॥
मूलैः शृतं प्रयुञ्जीत क्षीरं मासे तथाऽष्टमे।
नवमे सारिवानन्तापयस्यामधुयष्टिभिः॥५९॥
योजयेद्दशमे मासि सिद्धं क्षीरं पयस्यया।
अथवा यष्टिमधुकनागरामरदारुभिः॥६०॥
अवस्थितं लोहितमङ्गनाया वातेन गर्भं ब्रुवतेऽनभिज्ञाः।
गर्भाकृतित्वात्कटुकोष्णतीक्ष्णैः स्रुते पुनः केवल एव रक्ते॥६१॥
गर्भं जडा भूतहृतं वदन्ति मूर्तेन दृष्टं हरणं यतस्तैः।
ओजोशनत्वादथवाऽव्यवस्थैर्भूतैरुपेक्ष्येत न गर्भमाता॥६२॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्ग हृदयसंहितायां द्वितीये शारीरस्थाने गर्भव्यापन्नाम द्वितीयोऽध्यायः॥२॥